View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.43 युद्धकाण्ड - त्रिचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रिचत्वारिंशस्सर्गः ।

युध्यतान्तुततस्तेषांवानराणाम्महात्मनाम् ।
रक्षसांसम्बभूवाथबलकोपस्सुदारुणः ॥ 1 ॥

तेहयैःकाञ्चनापीडैर्ध्वश्चाग्निशिखोपमैः ।
रथैश्चादित्यसङ्काशैःकवचैश्चमनोरमैः ॥ 2 ॥

निर्ययूराक्षसव्याघ्रानादयन्तोदिशोदश ।
राक्षसाभीमकर्माणोरावणस्यजयैषिणः ॥ 3 ॥

वानराणामपिचमूर्बृहतीजयमिच्छताम् ।
अभ्यधावततांसेनांरक्षसाङ्कामरूपिणम् ॥ 4 ॥

एतस्मिन्नन्तरेतेषामन्योन्यमभिधावताम् ।
रक्षसांवानराणाञ्चद्वन्द्वयुद्धमवर्तत ॥ 5 ॥

अङ्गदेन्द्रजित्सार्धंवालिपुत्रेणराक्षसः ।
आयुध्यतमहातेजास्त्ऱ्यम्बकेणयथाऽन्तकः ॥ 6 ॥

प्रजङ्घेनचसम्पातिर्नित्यन्दुर्मर्षणोरणे ।
जम्बुमालिनमारब्धोहनुमानपिवानरः ॥ 7 ॥

सङ्गतस्तुमहाक्रोधोराक्षसोरावणानुजः ।
समरेतीक्ष्णवेगेनमित्रघ्नेनविभीषणः ॥ 8 ॥

तपनेनगजस्सार्धंराक्षसेनमहाबलः ।
निकुम्भेनमहातेजानीलोऽपिसमयुध्यत ॥ 9 ॥

वानरेन्द्रस्तुसुग्रीवःप्रघसेनसमागतः ।
सङ्गतःसमरेश्रीमान्विरूपाक्षेणलक्ष्मणः ॥ 10 ॥

अग्निकेतुश्चसुदुर्धर्षोरश्मिकेतुश्चराक्षसः ।
सुप्तघ्नोयज्ञकोपश्चरामेणसहसङ्गताः ॥ 11 ॥

वज्रमुष्टिस्तुमैन्देनद्विविदेनाशनिप्रभः ।
राक्षसाभ्यांसुघोराभ्याङ्कपिमुख्यौसमागतौ ॥ 12 ॥

वीरह् प्रतपनो घोरो राक्षसो रण दुर्धरः ।
समरे तीक्ष्ण वेगेन नलेन समयुध्यत ॥ 13 ॥

धर्मस्य पुत्रो बलवान् सुषेण;इति विशरुतः ।
स विद्युन् मालिना सार्धं अयुध्यत महा कपिः ॥ 14 ॥

वानराश्चापरेभीमाराक्षसैरपरैस्सह ।
द्वन्द्वंसमीयुस्सहसायुद्धायबहुभिस्सह ॥ 15 ॥

तत्रासीत्सुमहद्युद्धन्तुमुलंरोमहर्षणम् ।
रक्षसांवानराणाञ्चवीराणाञ्जयमिच्छताम् ॥ 16 ॥

हरिराक्षसदेहेभ्यःप्रभूताःकेशशाद्वलाः ।
शरीरसङ्घाटावहाःप्रसुस्रुश्शोणितापगाः ॥ 17 ॥

अजघानेन्द्रजित्क्रुद्धोवज्रेणेवशतक्रतुः ।
अङ्गदङ्गदयावीरंशत्रुसैन्यविदारणम् ॥ 18 ॥

तस्यकाञ्चनचित्राङ्गंरथंसाश्वंससारथिम् ।
जघानसमरेश्रीमानङ्गदोवेगवान्कपिः ॥ 19 ॥

सम्पातिस्तुत्रिभिर्भाणैःप्रजङ्घेनसमाहतः ।
निजघानश्वकर्णेनप्रजङ्घंरणमूर्धनि ॥ 20 ॥

जम्बुमालीरथस्थस्तुरथशक्त्यामहाबलः ।
बिबेदसमरेक्रुद्धोहनूमन्तंस्तनान्तरे ॥ 21 ॥

तस्यतंरथमास्थायहनूमान् मारुतात्मजः ।
प्रममाथतलेनाशुसहतेनैवरक्षसा ॥ 22 ॥

नदन् प्रतपनोघोरोनलंसोप्यन्वधावत ।
नलःप्रतपनस्याशुपातयामासचक्षुषी ॥ 23 ॥

भिन्नगात्रश्शरैस्तीक्ष्णैःक्षिप्रहस्तेनरक्षसा ।
ग्रसन्तमिवसैन्यानिप्रघसंवानराधिपः ॥ 24 ॥

सुग्रीवस्सप्तपर्णेननिर्भिभेदजघानच ।
अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षसः ॥ 25 ॥

सुप्तघ्नोयज्ञकोपश्चरामन्निर्भिभिदुश्शरैः ।
तेषाञ्चतुर्णांरामस्तुशिरांसिनिशितैश्शरैः ।
क्रुद्धश्चतुर्भिश्चिच्छेदघोरैरग्निशिखोपमैः ॥ 26 ॥

वज्र मुष्टिस् तु मैन्देन मुष्टिना निहतो रणे ।
पपात सरथह् साशवह् पुराट्ट इव भू तले ॥ 27 ॥

निकुम्बस्तुरणेनीलन्नीलाञ्जनचयप्रभम् ।
निर्बिभेदशरैस्तीक्ष्णैःकरैर्मेघमिवांशुमान् ॥ 28 ॥

पुनश्शरशतेनाथक्षिप्रहस्तोनिशाचरः ।
बिभेदसमरेनीलन्निकुम्भःप्रजहासच ॥ 29 ॥

तस्यैवरथचक्रेणनीलोविष्णुरिवाहवे ।
शिरश्चिच्छेदसमरेनिकुम्भस्यचसारथेः ॥ 30 ॥

वज्राशनिसमस्पर्शोद्विविदोऽप्यशनिप्रभम् ।
जघानगिरिशृङ्गेणमिषतांसर्वरक्षसाम् ॥ 31 ॥

द्विदिधंवानरेन्द्रन्तुनगयोधिनमाहवे ।
शरैरशनिसङ्काशैस्सविव्याधाशनिप्रभः ॥ 32 ॥

सशरैरभिविद्धाङ्गोद्विविदःक्रोधमूर्छितः ।
सालेनसरथंसाश्वन्निजघानाशनिप्रभम् ॥ 33 ॥

विद्युन्मालीरथस्थस्तुशरैःकाञ्चनभूषणैः ।
सुषेणन्ताडयामासननादचमुहुर्मुहुः ॥ 34 ॥

तंरथस्थमथोदृष्टवासुषेणोवानरोत्तमः ।
गिरिशृङ्गेणमहतारथमाशुन्यपातयत् ॥ 35 ॥

लाघवेनतुसंयुक्तोविद्युन्मालीनिशाचरः ।
अपक्रम्यरथात्तूर्णङ्गदापाणिःक्षितौस्थितः ॥ 36 ॥

ततःक्रोधसमाविष्टःसुषेणोहरिपुङ्गवः ।
शिलांसुमहतीङ्गृह्यनिशाचरमभिद्रवत् ॥ 37 ॥

तमापतन्तङ्गदयाविद्युन्मालीनिशाचरः ।
वक्षस्यभिजघानाशुसुषेणंहरिपुङ्गवः ॥ 38 ॥

गदाप्रहारन्तङ्घोरमच्नित्यप्लवगोत्तमः ।
तांशिलाम्पातयामासतस्योरसिमहामृधे ॥ 39 ॥

शिलाप्रहारभिहतोविद्युन्मालीनिशाचरः ।
निष्पिष्टहृदयोभूमौगतासुर्निपपातह ॥ 40 ॥

एवन्तैर्वानरैश्शूरैश्शूरास्तेरजनीचराः ।
द्वन्द्वेविमृदितास्तत्रदैत्याइवदिवौकसैः ॥ 41 ॥

भग्नैखडगैर्गदाभिश्चशक्तितोमरपट्टसैः ।
अपविद्धैश्चाभिन्नैश्चरथैस्साङ्ग्रामिकैर्हयैः ॥ 42 ॥

निहतैःकुञ्जरैर्मत्स्सैस्तथावानरराक्षसैः ।
चक्राक्षयुगदण्डैश्चभग्नैर्धरणिसंश्रितैः ॥ 43 ॥

बभूवायोधनङ्घोरङ्गोमायुगणसेवितम् ।
कबन्धानिसमुत्पेतुर्दिक्षुवानररक्षसाम् ॥ 44 ॥

विमर्देतुमुलेतस्मिन्देवासुररणोपमे ।
विदार्यमाणाहरिपुङ्गवैस्तदानिशाचराश्शोणितदिग्धगात्राः ।
पुनःसुयुद्धन्तरसासमास्थितादिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशस्सर्गः ॥




Browse Related Categories: