श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ पञ्चषष्टितमस्सर्गः ।
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ 1 ॥
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।
प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥ 2 ॥
रावणान्तः पुरे रोधं राक्षसीभिश्च तर्जनम् ।
रामे समनुरागं च यश्चायं समयः कृतः ॥ 3 ॥
एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ।
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥ 4 ॥
क्व सीता वर्तते देवी कथं च मयि वर्तते ।
एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ 5 ॥
रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।
चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ 6 ॥
श्रुत्वा तु वचनं तेषां हनुमान्मारुतात्मजः ।
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ॥ 7 ॥
उवाच वाक्यं वाक्यज्ञस्सीताया दर्शनं यथा ।
समुद्रं लङ्घयित्वाहं शतयोजनमायतम् ॥ 8 ॥
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।
तत्र लङ्केति नगरी रावणस्य दुरात्मनः ॥ 9 ॥
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।
तत्र दृष्टा मया सीता रावणान्तः पुरे सती ॥ 10 ॥
सन्न्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ।
दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ 11 ॥
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।
दुःख मासाद्यते देवी तथाऽदुःखोचिता सती ॥ 12 ॥
रावणान्तः पुरे रुद्धा राक्षसीभि स्सुरक्षिता ।
एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥ 13 ॥
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥ 14 ॥
देवी कथञ्चित्काकुत्स्थ त्वन्मना मार्गिता मया ।
इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ ॥ 15 ॥
सा मया नरशार्दूल विश्वासमुपपादिता ।
तत स्सम्भाषिता देवी सर्वमर्थं च दर्शिता ॥ 16 ॥
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।
नियत स्समुदाचारो भक्तिश्चास्यास्तथा त्वयि ॥ 17 ॥
एवं मया महाभागा दृष्टा जनकनन्दिनी ।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ 18 ॥
अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके ।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ 19 ॥
विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।
अखिलेनेह यद्धृष्टमिति मामाह जानकी ॥ 20 ॥
अयं चास्मै प्रदातव्यो यत्नात्सुपरिरक्षितः ।
ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥ 21 ॥
एष चूडामणिश्श्रीमान् मया सुपरिरक्षितः ।
मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ 22 ॥
त्वया प्रणष्ठे तिलके तं किल स्मर्तुमर्हसि ।
एष निर्यातितश्श्रीमान्मया ते वारि सम्भवः ।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥ 23 ॥
जीवितं धारयिष्यामि मासं दशरथात्मज ॥ 24 ॥
ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ।
इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ॥ 25 ॥
रावणान्तः पुरे रुद्धा मृगीवोत्फुल्ललोचना ।
एतदेव मयाख्यातं सर्वं राघव यद्यथा ॥ 26 ॥
सर्वथा सागरजले सन्तारः प्रविधीयताम् ।
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्त्र श्शशंस ॥ 27 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चषष्टितमस्सर्गः ॥