श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चपञ्चाशस्सर्गः ।
वज्रदंष्ट्रंहतंश्रुत्वावालिपुत्रेणरावणः ।
बलाध्यक्षमुवाचेदङ्कृताञ्जलिमुपस्थितम् ॥ 1 ॥
शीघ्रन्निर्यान्तुदुर्धर्षाराक्षसाभीमविक्रमाः ।
अकम्पनम्पुरस्कृत्यसर्वशस्त्रप्रकोविदम् ॥ 2 ॥
एषशास्ताचगोप्ताचनेताचयुधिसत्तमः ।
भूतिकामश्चमेनित्यन्नित्यञ्चसमरप्रियः ॥ 3 ॥
एषजेष्यतिकाकत्स्थौसुग्रीवञ्चमहाबलम् ।
वानरांश्चापरान् घोरान् हनिष्यतिपरन्तपः ॥ 4 ॥
परिगृह्य स तामाज्ञां रावणस्य महाबलः ।
बलं सम्प्रेरयामास तदा लघुपराक्रमः ॥ 5 ॥
ततोनानाप्रहरणाभीमाक्षाभीमदर्शनाः ।
निष्पेतूराक्षसामुख्याबलाध्यक्षप्रचोदिताः ॥ 6 ॥
रथमास्थायविपुलन्तप्तकाञ्चनभूषणम् ।
मेघाभोमेघवर्णश्चमेघस्वनमहास्वनः ॥ 7 ॥
राक्षसैःसम्वृतोघोरैस्तदानिर्यात्यकम्पनः ।
नहिकम्पयितुंशक्यःसुरैरपिमहामृधे ॥ 8 ॥
अकम्पनस् ततस् तेषां आदित्य;इव तेजसा ।
तस्य निधावमानस्य सम्रब्धस्य युयुत्सया ॥ 9 ॥
अकस्माद्दैन्यमागच्छद्धयानांरथवाहिनाम् ।
व्यस्फुरन्नयनञ्चास्यसव्यंयुद्धाभिनदनिनः ॥ 10 ॥
विवर्णोमुखवर्णश्चगद्गदश्चाभवत्स्वनः ।
अभवत्सुदिनेकालेदुर्दिनंरूक्षमारुतम् ॥ 11 ॥
ऊचुःखगमृगाःसर्वेवाचःक्रूराभयावहाः ।
ससिंहापचित्कन्धःशार्दूलसमविक्रमः ॥ 12 ॥
तानुत्पातानचिन्स्सैवनिर्जगामरणाजिरम् ।
तथानिर्गच्छतस्तस्यरक्षसस्सहराक्षसैः ॥ 13 ॥
बभूवसुमहान्नादःक्षोभयन्निवसागरम् ।
तेनशब्देनवित्रस्तावानराणाम्महाचमूः ॥ 14 ॥
द्रुमशैलप्रहाराणांयोद्धुंसमुपतिष्ठतम् ।
तेषांयुद्धम्महारौद्रंसञ्जज्ञेकपिरक्षसाम् ॥ 15 ॥
रामरावणयोरर्धेसमभित्यक्तजीविनाम् ।
सर्वेह्यतिबलाःशूराःसर्वेपर्वतसन्निभाः ॥ 16 ॥
हरयोराक्षसाश्चैवपरस्परजिघांसवः ।
तेषांविवर्धतांशब्दःसंयुगेऽतितरस्विनाम् ॥ 17 ॥
शुश्रुवेसुमहान् कोपादन्योन्यमभिगर्जताम् ।
रजश्चारुणवर्णाभंसुभीममभवद् भृशम् ॥ 18 ॥
उद्धतंहरिरक्षोभिःसंरुरोधदिशोदश ।
अन्योन्यंरजसातेनकौशेयोद्धूतपाण्डुना ॥ 19 ॥
सम्वृतानिचभूतानिददृशुर्नरणाजिरे ।
नध्वजोनपताकावाचर्मवातुरगोऽपिवा ॥ 20 ॥
आयुधंस्यन्दनोवापिददृशेतेनरेणुना ।
शब्दश्चसुमहांस्तेषान्नर्दतामभिधावताम् ॥ 21 ॥
श्रूयतेतुमुलोयुद्धेनरूपाणिचकाशिरे ।
हरीनेवसुसंरुष्टाहरयोजघ्नुराहवे ॥ 22 ॥
राक्षसाराक्षसांश्चापिनिजघ्नुस्तिमिरेतदा ।
तेपरांश्चविनिघ्नन्तःस्वांश्चवानरराक्षसाः ॥ 23 ॥
रुधिरार्द्रान्तदाचक्रुर्महीम्पङ्कानुलेपनाम् ।
ततस्तुरुधिरौघेणसिक्तंह्यपगतंरजः ॥ 24 ॥
शरीरशवसङ्कीर्णाबभूवचवसुन्धरा ।
द्रुमशक्तिगदाप्रासैश्शिलापरिघतोमरैः ॥ 25 ॥
हरयोराक्षसाश्चैवस्तूर्णञ्जघ्नुरन्योन्यमोजसा ।
बाहुभिःपरिघाकारैर्युध्यन्तःपर्वतोपमाः ॥ 26 ॥
हरयोभीमकर्माणोराक्षसान्झघ्नुराहवे ।
राक्षसास्त्वभिसङ्क्रुद्धाःप्रासतोमरपाणयः ॥ 27 ॥
कपीन्निजघ्निरेतत्रशस्त्रःपरमदारुणैः ।
अकम्पनस्सुसङ्क्रुद्धोराक्षसानाञ्चमूपतिः ॥ 28 ॥
सम्हर्षयतितान्सर्वान्राक्षसाभनिमविक्रमान् ।
हरयस्त्वपिरक्षांसिमहाद्रुममहाश्मभिः ॥ 29 ॥
विदारयन्त्यभिक्रम्यशस्त्राण्याच्छिद्यवीर्यतः ।
एतस्मिन्नन्तरेवीराहरयःकुमुदोनलः ॥ 30 ॥
मैन्दश्चपरमक्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।
तेतुवृक्षैर्महावीराराक्षसानाञ्चमूमुखे ॥ 31 ॥
कदनंसुमहच्चक्रुर्लीलयाहरिपुङ्गवाः ।
ममन्थूराक्षसान् सर्वेवानरागणशोभृशम् ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशस्सर्गः ॥