View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.14 अरण्यकाण्ड - चतुर्दश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ चतुर्दशस्सर्गः ।

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः ।
आससाद महाकायं गृध्रं भीमपराक्रमम् ॥ 1 ॥

तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ ।
मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ॥ 2 ॥

स तौ मधुरया वाचा सौम्यया प्रीणयन्निव ।
उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ॥ 3 ॥

स तं पितृसखं बुद्ध्वा पूजयामास राघवः ।
स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ॥ 4 ॥

रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् ।
आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च ॥ 5 ॥

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् ।
तान्मे निगदतस्सर्वानादितश्शृणु राघव ॥ 6 ॥

कर्दमः प्रथमस्तेषां विक्रीतस्तदनन्तरः ।
शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥ 7 ॥

स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः ।
पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पूलहस्तथा ॥ 8 ॥

दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव ।
काश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ॥ 9 ॥

प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् ।
षष्टिर्दुहितरो राम यशस्विन्यो महायशः ॥ 10 ॥

काश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः ।
अदितिं च दितिं चैव दनुमप्यथ कालिकाम् ॥ 11 ॥

ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ।
तास्तु कन्यास्ततः प्रीतः काश्यपः पुनरब्रवीत् ॥ 12 ॥

पुत्रां स्स्रैलोक्यभर्तृन्वै जनयिष्यथ मत्समान् ।
अदितिस्तन्मना राम दितिश्च मनुजर्षभ ॥ 13 ॥

कालिका च महाबाहो शेषास्त्वमनसोऽभवन् ।
अदित्यां जज्ञिरे देवात्रयस्त्रिंशदरिन्दम ॥ 14 ॥

आदित्या वसवो रुद्रा ह्यश्विनौ च परन्तप ।
दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः ॥ 15 ॥

तेषामियं वसुमती पुराऽसीत्सवनार्णवा ।
दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिन्दम ॥ 16 ॥

नरकं कालकञ्चैव कालिकापि व्यजायत ।
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ॥ 17 ॥

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः ।
उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत ॥ 18 ॥

श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ।
धृतराष्ट्रीतु हंसांश्च कलहंसांश्च सर्वशः ॥ 19 ॥

चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ।
शुकी नतां विजज्ञे तु नताया विनता सुता ॥ 20 ॥

दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः ।
मृगीं च मृगमन्दां च हरीं भद्रमदामपि ॥ 21 ॥

मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा ।
सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि ॥ 22 ॥

अपत्यं तु मृगास्सर्वे मृग्या नरवरोत्तम ।
ऋक्षाश्च मृगमन्दायास्सृमराश्चमरा स्तथा ॥ 23 ॥

हर्याश्च हरयोऽपत्यं वानराश्च तरस्स्विनः ।
ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ॥ 24 ॥

तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ।
मातङ्ग्या स्त्वथ मातङ्गा अपत्यं मनुजर्षभ ॥ 25 ॥

गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् ।
दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत्सुतान् ॥ 26 ॥

ततो दुहितरौ राम सुरभिर्द्वेव्यजायत ।
रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्स्विनीम् ॥ 27 ॥

रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान् ।
सुरसाऽजनयन्नागान्राम कद्रूस्तु पन्नगान् ॥ 28 ॥

मनुर्मनुष्यान् जनयद्राम पुत्रान् यशस्विनः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ ॥ 29 ॥

सर्वान् पुण्यफलान्वृक्षाननलापि व्यजायत ।
विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा ॥ 30 ॥

कद्रूर्नागं सहस्रास्यं विजज्ञे धरणीधरम् ।
द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ॥ 31 ॥

तस्माज्जातोऽहमरुणात्सम्पातिस्तु ममाग्रजः ।
जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम ॥ 32 ॥

सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि ।
इदं दुर्गं हि कान्तारं मृगराक्षस सेवितम् ॥ 33 ॥

सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ।
जटायुषं तं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत् ।
पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा सङ्कथितं पुनः पुनः ॥ 34 ॥

स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा ।
जगाम तां पञ्चवटीं सलक्ष्मणो रिपून्दिधक्षञ्छलभानि वानलः ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे चतुर्दशस्सर्गः ॥




Browse Related Categories: