View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.21 किष्किन्धाकाण्ड - एकविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ एकविंशस्सर्गः ।

ततो निपतितां तारां च्युतां तारामिवाम्बरात् ।
शनैराश्वासयामास हनुमान्हरियूथपः ॥ 1 ॥

गुणदोषकृतं जन्तुस्स्वकर्म फलहेतुकम् ।
अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ 2 ॥

शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे ।
कस्य कोवाऽनुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥ 3 ॥

अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ।
अयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥ 4 ॥

जानास्यनियतामेवं भूतानामागतिं गतिम् ।
तस्माच्छुभं हि कर्तव्यं पण्डितेनैह लौकिकम् ॥ 5 ॥

यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च ।
वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ॥ 6 ॥

यदयं न्यायदृष्टार्थस्सामदानक्षमापरः ।
गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ॥ 7 ॥

सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः ।
इदं हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते ॥ 8 ॥

ताविमौ शोकसन्तप्तौ शनैः प्रेरय भामिनि ।
त्वया परिगृहीतोऽयमङ्गदश्शास्तु मेदिनीम् ॥ 9 ॥

सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् ।
राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः ॥ 10 ॥

संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम् ।
सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ 11 ॥

सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।
अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम् ॥ 12 ॥

अङ्गदप्रतिरूपाणां पुत्राणामेकतश्शतम् ।
हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ 13 ॥

न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा ।
पितृव्यस्तस्य सुग्रीवस्सर्वकार्येष्वनन्तरः ॥ 14 ॥

न ह्येषाबुद्धिरास्थेया हनूमन्नङ्गदं प्रति ।
पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ 15 ॥

न हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा ।
अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ 16 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकविंशस्सर्गः ॥




Browse Related Categories: