श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ एकविंशस्सर्गः ।
ततो निपतितां तारां च्युतां तारामिवाम्बरात् ।
शनैराश्वासयामास हनुमान्हरियूथपः ॥ 1 ॥
गुणदोषकृतं जन्तुस्स्वकर्म फलहेतुकम् ।
अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ 2 ॥
शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे ।
कस्य कोवाऽनुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥ 3 ॥
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ।
अयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥ 4 ॥
जानास्यनियतामेवं भूतानामागतिं गतिम् ।
तस्माच्छुभं हि कर्तव्यं पण्डितेनैह लौकिकम् ॥ 5 ॥
यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च ।
वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ॥ 6 ॥
यदयं न्यायदृष्टार्थस्सामदानक्षमापरः ।
गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ॥ 7 ॥
सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः ।
इदं हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते ॥ 8 ॥
ताविमौ शोकसन्तप्तौ शनैः प्रेरय भामिनि ।
त्वया परिगृहीतोऽयमङ्गदश्शास्तु मेदिनीम् ॥ 9 ॥
सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् ।
राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः ॥ 10 ॥
संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम् ।
सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ 11 ॥
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।
अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम् ॥ 12 ॥
अङ्गदप्रतिरूपाणां पुत्राणामेकतश्शतम् ।
हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ 13 ॥
न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा ।
पितृव्यस्तस्य सुग्रीवस्सर्वकार्येष्वनन्तरः ॥ 14 ॥
न ह्येषाबुद्धिरास्थेया हनूमन्नङ्गदं प्रति ।
पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ 15 ॥
न हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा ।
अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ 16 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकविंशस्सर्गः ॥