श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ त्रिसप्ततितमस्सर्गः ।
सश्रूत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ ।
भरतो दुःखसन्तप्त इदं वचनमब्रवीत् ॥ 1 ॥
किं नु कार्यं हतस्येह मम राज्येन शोचतः ।
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥ 2 ॥
दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः ।
राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥ 3 ॥
कुलस्य त्वमभावाय कालरात्रिरिवाऽगता ।
अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ॥ 4 ॥
मृत्युमापादितो पिता त्वया मे पापदर्शिनि ।
सुखं परिहृतं मोहात्कुलेऽस्मिन्कुलपांसनि ॥ 5 ॥
त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः ।
तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः ॥ 6 ॥
विनाशितो महाराजः पिता मे धर्मवत्सलः ।
कस्मात्प्रव्राजितो रामः कस्मादेव वनं गतः ॥ 7 ॥
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ।
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ॥ 8 ॥
ननुत्वार्योऽपि धर्मात्मा त्वयि वृतिमनुत्तमाम् ।
वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते ॥ 9 ॥
तस्याः पुत्रं कृताऽत्मानं चीरवल्कलवाससम् ।
प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥ 10 ॥
अपापदर्शनं शूरं कृतात्मानं यशस्विनम् ।
प्रव्राज्य चीरवसनं किन्नु पश्यसि कारणम् ॥ 11 ॥
लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति ।
तथाह्यनर्धो राज्यार्थं त्वयाऽनीतो महानयम् ॥ 12 ॥
अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ ।
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥ 13 ॥
तं हि नित्यं महाराजो बलवन्तं महाबलः ।
उपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा ॥ 14 ॥
सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् ।
दम्योधुरमिवाऽऽसाद्य वहेयं केनचौजसा ॥ 15 ॥
अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा ।
सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम् ॥ 16 ॥
न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् ।
यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥ 17 ॥
उत्पन्नातु कथं बुद्धिस्तवेयं पापदर्शिनि ।
साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता ॥ 18 ॥
अस्मिन्कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते ।
अपरे भ्रातरस्तस्मिन्प्रवर्तन्ते समाहिताः ॥ 19 ॥
न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे ।
गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥ 20 ॥
सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।
राज्ञामेतत्समं तत्स्यादिक्ष्वाकूणां विशेषतः ॥ 21 ॥
तेषां धर्मैकरक्षाणां कुलचारित्रशोभिनाम् ।
अद्य चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्तितम् ॥ 22 ॥
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः ।
बुद्धेर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः ॥ 23 ॥
न तु कामं करिष्यामि तवाऽहं पापनिश्चये ।
त्वया व्यसनमारब्धं जीवितान्तकरं मम ॥ 24 ॥
एषत्विदानीमेवाहमप्रियार्थं तवानघम् ।
निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम् ॥ 25 ॥
निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः ।
दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥ 26 ॥
इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् ।
शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः ॥ 27 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे त्रिसप्ततितमस्सर्गः ॥