View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.42 सुन्दरकाण्ड - द्विचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ द्विचत्वारिंशस्सर्गः ।

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।
बभूवुस्त्राससम्भ्रान्तास्सर्वे लङ्कानिवासिनः ॥ 1 ॥

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ 2 ॥

ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।
तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ 3 ॥

स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः ।
चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ 4 ॥

ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ 5 ॥

कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः ।
कथं त्वया सहानेन संवादः कृत इत्युत ॥ 6 ॥

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।
संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥ 7 ॥

अथाब्रवीन्महासाध्वी सीता सर्वाङ्गसुन्दरी ।
रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ 8 ॥

यूयमेवाभिजानीत योऽयं यद्वा करिष्यति ।
अहिरेव ह्यहेः पादान्विजानाति न संशयः ॥ 9 ॥

अहमप्यस्य भीतास्मि नैनं जानामि को न्वयम् ।
वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ 10 ॥

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।
स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ 11 ॥

रावणस्य समीपे तु राक्षस्यो विकृताननाः ।
विरूपं वानरं भीममाख्यातुमुपचक्रमुः ॥ 12 ॥

अशोकवनिकामध्ये राजन्भीमवपुः कपिः ।
सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ 13 ॥

न च तं जानकी सीता हरिं हरिणलोचना ।
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ 14 ॥

वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।
प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ॥ 15 ॥

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ 16 ॥

न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।
यत्र सा जानकी सीता स तेन न विनाशितः ॥ 17 ॥

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।
अथवा कश्श्रमस्तस्य सैव तेनाभिरक्षिता ॥ 18 ॥

चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।
प्रवृद्धश्शिंशुपावृक्ष स्स च तेनाभिरक्षितः ॥ 19 ॥

तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।
सीता सम्भाषिता येन तद्वनं च विनाशितम् ॥ 20 ॥

मनः परिगृहीतां तां तव रक्षोगणेश्वर ।
कस्सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ 21 ॥

राक्षसीनां वचश्त्रुत्वा रावणो राक्षसेश्वरः ।
हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ 22 ॥

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।
दीप्ताभ्यामिव दीपाभ्यां सार्चिष स्स्नेहबिन्दवः ॥ 23 ॥

आत्मनस्सदृशान्शूरान्किङ्करान्नाम राक्षसान् ।
व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ 24 ॥

तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ।
निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः ॥ 25 ॥

महोदरा महादंष्ट्रा घोररूपा महाबलाः ।
युद्धाभिमनसस्सर्वे हनुमद्ग्रहणोद्यताः ॥ 26 ॥

ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् ।
अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ 27 ॥

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।
आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ 28 ॥

मुद्गरैः पट्टिशैश्शूलैः प्रासतोमरशक्तिभिः ।
परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ 29 ॥

हनुमानपि तेजस्वी श्रीमान्पर्वतसन्निभः ।
क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् ॥ 30 ॥

स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ 31 ॥

तस्यास्फोटितशब्देन महता सानुनादिना ।
पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥ 32 ॥

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 33 ॥

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 34 ॥

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 35 ॥

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 36 ॥

तस्य सन्नादशब्देन तेऽभवन्भयशङ्किताः ।
ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥ 37 ॥

स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् ।
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ 38 ॥

स तैः परिवृतश्शूरैस्सर्वतस्सुमहाबलः ।
आससादाऽयसं भीमं परिघं तोरणाश्रितम् ॥ 39 ॥

स तं परिघमादाय जघान रजनीचरान् ।
स पन्नगमिवादाय स्फुरन्तं विनतासुतः ॥ 40 ॥

विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।
स हत्वा राक्षसान्वीरान्किङ्करान्मारुतात्मजः ॥ 41 ॥

युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ।
ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ॥ 42 ॥

निहतान्किङ्करान्सर्वान्रावणायन्यवेदयन् ।
स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।
समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥ 43 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशस्सर्गः ॥




Browse Related Categories: