View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.4 युद्धकाण्ड - चतुर्थ सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुर्थस्सर्गः ।

श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः ।
ततोऽब्रवीन्महातेजा रामस्सत्यपराक्रमः ॥ 1 ॥

यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः ।
क्षिप्रमेनां मथिष्यामि सत्यमेतद्ब्रवीमि ते ॥ 2 ॥

अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचये ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकर ॥ 3 ॥

सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यतः ।
सीता श्रुत्वाभियानं मे अशामेष्यति जीविते ।
जीवितान्तेऽ मृतं स्पृष्टवा पीत्वा विषमिवातुरः ॥ 4 ॥

उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते ।
अभिप्रायाम सुग्रीव सर्वानीकसमावृताः ॥ 5 ॥

निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति च ।
निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ 6 ॥

उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम ।
विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ 7 ॥

ततो वानरराजेन लक्ष्मणेन सुपूजितः ।
उवाच रामो धर्मात्मा पुनरप्यर्धकोविदः ॥ 8 ॥

अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् ।
वृतश्शतसहस्रेण वानराणां तरस्विनाम् ॥ 9 ॥

फलमूलवता नील शीतकाननवारिणा ।
पथा मधुमता चाशु सेनां सेनापते नय ॥ 10 ॥

दूषयेयुर्दुरात्मनः पथि मूलफलोदकम् ।
राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ 11 ॥

निम्नेषु वनदुर्गेषु वनेषु च वनौकसः ।
अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ॥ 12 ॥

यच्च फल्गु बलं किञ्चित्त दत्रैवोपपद्यताम् ।
एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम् ॥ 13 ॥

सागरौघनिभं भीममग्रानीकं महाबलाः ।
कपिसिंहाः प्रकर्षस्तु शतशोऽथ सहस्रशः ॥ 14 ॥

कपि सिम्हा प्रकर्षन्तु शतशो अथ सहस्रशः ।
गजः च गिरि सम्काशो गवयः च महाबलः ॥ 15 ॥

यातु वानरवाहिन्या वानरः प्लवतां वरः ।
पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ 16 ॥

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।
यातु वानरवाहिन्या स्सव्यं पार्श्वमधिष्ठितः ॥ 17 ॥

यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् ।
अधिरुह्य हनूमन्त मैरावत मिवेश्वरः ॥ 18 ॥

अङ्गदेनैष संयातु लक्ष्मणश्चान्त कोपमः ।
सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥ 19 ॥

जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।
ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ॥ 20 ॥

राघवस्य वचश्श्रुत्वा सुग्रीवो वाहिनीपतिः ।
व्यादिदेश महावीर्यो वानरान्वानरर्षभ ः ॥ 21 ॥

ते वानरगणास्सर्वे समुत्पत्य युयुत्सवः ।
गुहाभ्यश्शिखरेभ्यश्च अशु पुप्लुविरे तदा ॥ 22 ॥

ततो वानरराजेन लक्ष्मणेन च पूजितः ।
जगाम रामोधर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 23 ॥

शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि ।
वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥ 24 ॥

तं यान्तमनुयान्ती सा महती हरिवाहिनी ।
दृप्ताः प्रमुदितास्सर्वे सुग्रीवेणाभिपालिताः ॥ 25 ॥

हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः ।
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवं गमाः ॥ 26 ॥

भक्ष्यन्त स्सुगन्धीनि मधूनि च फलानि च ।
उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः ॥ 27 ॥

अन्योन्यं सहसा दृप्ता निर्वहान्ति क्षिपन्ति च ।
पतन्तश्पोत्पत्नत्यन्ये पातयन्त्यपरे परान् ॥ 28 ॥

रावणो नो निहन्तव्यस्सर्वे च रजनीचराः ।
इति गर्जन्ति हरयो राघवस्य समीपतः ॥ 29 ॥

पुरस्तादृषभो वीरो नीलः कुमुद एव च ।
पन्थानं शोधयन्तिस्म वानरैर्बहुभि स्सह ॥ 30 ॥

मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ।
बलभिर्बहुभि र्भीमैर्वृताश्शत्रुनिबर्हणाः ॥ 31 ॥

हरिश्शतवलिर्वीरः कोटीभिर्दशभिर्वृतः ।
सर्वामेको ह्यावष्टभ्य ररक्ष हरिवाहिनीम् ॥ 32 ॥

कोटीशतपरीवारः केसरी पनसो गजः ।
अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ 33 ॥

सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतौ ।
सुग्रीवं पुरतः कृत्वा जघनं सम्ररक्षतुः ॥ 34 ॥

तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः ।
सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयात् ॥ 35 ॥

दरीमुखः प्रजङ्घश्च रम्भोऽथ रभसः कपिः ।
सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥ 36 ॥

एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः ।
अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमालतायुतम् ॥ 37 ॥

सरांसि च सुपुल्लानि तटाकानि वनानि च ॥ 38 ॥

रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ।
वर्जयन्नगराभ्याशां स्तथा जनपदानपि ॥ 39 ॥

सागरौघनिभं भीमं तद्वानरबलं महत् ।
उत्ससर्प महाघोषं भीमघोषमिवार्णवः ॥ 40 ॥

तस्यदाशरथेः पार्श्वे शूरास्ते कपिकुङजराः ।
तोर्णमापुप्लुवु स्सर्वे सदश्वा इव चोदिताः ॥ 41 ॥

कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ ।
महाद्भ्यामिव सम्स्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ॥ 42 ॥

ततो वानरराजेन लक्ष्मणेन सुपूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 43 ॥

तमङ्गदगतो रामं लक्ष्मणश्शुभया गिरा ।
उवाच परिपूर्णार्थः स्मृतिमान् प्रतिभानवान् ॥ 44 ॥

हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ।
समृद्धार्थस्समृद्धार्थमयोध्यां प्रतियास्यसि ॥ 45 ॥

महान्ति च निमित्तानि दिवि भूमौ च राघव ।
शुभानि तव पश्यामि सर्वाण्येनार्थसिद्धये ।
अनुवाति शिवो वायु स्सेवां मृदुहित स्सुखः ॥ 46 ॥

पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ।
प्रसन्नाश्च दिश स्सर्वा विमलश्च दिवाकरः ॥ 47 ॥

उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥ 48 ॥

ब्रह्मराशिर्विशुद्धश्च शुद्दाश्च परमर्षयः ।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ 49 ॥

त्रिशङ्कुर्विमलो भाति राजर्षिस्सपुरोहितः ।
पितामहाः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 50 ॥

विमले च प्रकाशेते विशाखे निरुपप्लुवे ।
नक्षत्र वरमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 51 ॥

नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते ।
मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥ 52 ॥

सर्वं चैतद्विनाशाय राक्षसानामुप स्थितम् ।
काले कालगृहीतानां नक्षत्र ग्रहपीडितम् ॥ 53 ॥

प्रसन्ना स्सुरसाश्चापो वनानि फलवन्ति च ।
प्रवान्त्यभ्य नाधिकं गन्धान्यथर्तुकुसुमा द्रुमाः ॥ 54 ॥

व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ॥ 55 ॥

देवानामिव सैन्यानि सङ्ग्रामे तारकामये ।
एवमार्य ।
समीक्ष्यैतान्प्रीतो भवितुमर्हसि ॥ 56 ॥

इति भ्रातरमाश्वास्य हृष्ट स्सौमित्रिरब्रवीत् ।
अथावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ 57 ॥

ऋक्षवानरशर्दूलैर्न खदंष्ट्रायुधैर्वुता ।
काराग्रैश्चरणाग्रैश्च वानरै रुत्थितं रजः ।
भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ॥ 58 ॥

पर्वतवनाकाशां दक्षिणां हरिवाहिनी ।
छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः ॥ 59 ॥

उत्तरन्त्यां च सेनायां स्सततं बहुयोजनम् ।
नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ॥ 60 ॥

सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वता ।
समान् भूमिप्रदेशांश्च वनानि फलवन्ति च ।
मध्येन च समन्ताच्च तिर्यक्चाथश्च समाऽविशत् ॥ 61 ॥

समावृत्य महीं कृत्स्नां जगाम महती चमूः ।
तेहृष्टवदना स्सर्वे जग्मुर्मारुतरंहसः ॥ 62 ॥

हरयो राघवस्यार्थे समारोपितविक्रमाः ॥ 63 ॥

हर्षंवीर्य बलोद्रेकान्दर्शयन्तः परस्परम् ।
यौवनोत्सेकजान्दर्पाद्विविधांश्चक्रुरध्वनि ॥ 64 ॥

तत्र केचिद्द्रुतं जग्मुरुत्पेतुश्च तथापरे ।
केचित्किलकिलां चक्रुर्वानरा वनगोचराः ॥ 65 ॥

प्रास्पोटयंश्च पुच्छानि सन्निजग्मुः पदान्यपि ।
भुजावनिक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे ॥ 66 ॥

आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ।
महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिते ॥ 67 ॥

ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ।
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुश्शिलाद्रुमै ः ॥ 68 ॥

शतश्शतसहस्रैश्च कोटिभिश्च सहस्रशः ।
वानराणां सुघोराणां श्रीमत्परिवृता मही ॥ 69 ॥

सा स्म याति दिवारात्रं महती हरिवाहिनी ।
प्रहृष्टमुदितास्सेना सुग्रीवेणाभिपालिताः ॥ 70 ॥

वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः ।
प्रमोक्षयिषव स्सीतां मुहूर्तं क्वापि नावसन् ॥ 71 ॥

ततः पादपसम्भाधं नानामृगसमायुताम ।
सह्यपर्वतमासेदुर्मलयञ्च महीधरम् ॥ 72 ॥

काननानि विचित्राणि नदीः प्रस्रवणानि च ।
पश्यन्ननि ययौ रामस्सह्यस्य मलयस्य च ॥ 73 ॥

चम्पकांस् तिलकामः चूतान् अशोकान् सिन्दु वारकान् ।
तिनिशान् करवीरामः च तिमिशान् भन्जन्ति स्म प्लवं गमाः ॥ 74 ॥

अङ्कोलांश्च करञ्चांश्च प्लक्षन्यग्रोधतिन्दुकान् ।
जम्बुकामलकान्नापान्भजन्ति स्म प्लवङ्गमाः ॥ 75 ॥

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ॥ 76 ॥

मारुतस्सुखसंस्पर्शो वाति चन्दनशीतलः ।
षटपदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ 77 ॥

अधिकं शैलराजस्तु धातुभिस्सुविभूषितः ।
धातुभ्यःप्रसृतो रेणुर्वायुवेग विघट्टितः ।
सुमहद्वानरानीकं छादयामास सर्वतः ॥ 78 ॥

गिरिप्रस्थेषु रम्येषु सर्वत सम्प्र पुष्पिताः ।
केतकस्सिन्दुवाराश्च वासन्त्यश्च मनोरमाः ॥ 79 ॥

माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः ।
चिरिबिल्वा मधूकाश्च वञ्जुला प्रियकास्तथा ॥ 80 ॥

सुफूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ।
चूताः पाटलयकाश्चैव कोविदाराश्च पुष्पिताः ॥ 81 ॥

मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा ।
धवा श्शाल्मलयश्चैव रक्ताः कुरवकास्तथा ॥ 82 ॥

हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा ।
नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ॥ 83 ॥

प्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताम् ॥ 84 ॥

वाप्यस्तस्मिन् गिरौ शिताः पल्वलानि तथैव च ।
चक्रवाकानुचरिताः कारण्डवनिषेविताः ॥ 85 ॥

प्लवैः क्रौञ्चेश्च सङ्कीर्णा वराहमृग सेविताः ।
ऋक्षैस्तरक्षुभिस्सिम्हैश्शार्दूलैश्च भयावहैः ॥ 86 ॥

व्यालैश्च बहुभिर्भीमै स्सेव्यमाना स्समन्ततः ।
पद्मैस्सौगन्दिकैः पुल्लैः कुमुदैश्चोत्पलैस्तथा ॥ 87 ॥

वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ।
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥ 88 ॥

स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ।
अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः ॥ 89 ॥

फलान्य मृतगन्धीनि मूलानि कुसुमानि च ।
बभञ्जुर्वास्तत्र पादपानं मदोत्कटाः ॥ 90 ॥

द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ।
ययुः पिबन्त हृष्टास्ते मधूनि मधुपिङ्गलाः ॥ 91 ॥

पादपानवभञ्जन्तो विकर्षन्त स्तथा लताः ।
विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः ॥ 92 ॥

वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधुदर्पिताः ।
अन्ये वृक्षान्प्रपद्यन्ते प्रपिबन्त्यपि चापरे ॥ 93 ॥

बभूव वसुधा तैस्तु सम्पूर्णा हरियूथपैः ।
यथा कलमकेदारैः पक्वैरिव वसुन्दरा ॥ 94 ॥

महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः ।
अध्यारोहन्महाबाहुश्शिखरं द्रुमभूषितम् ॥ 95 ॥

ततश्शिखरमारुह्य रामो दशरथात्मजः ।
कूर्ममीनसमाकीर्णमपश्यत्सलिलाकुलम् ॥ 96 ॥

ते सह्यं समतिक्रम्य मलयं च महागिरिम् ।
आसेदुरानुपूर्व्येण समुद्रं भमनिस्स्वनम् ॥ 97 ॥

अवरुह्य जगामाशु वेलावनमनुत्तमम् ।
रामो रमयतां श्रेष्ट स्ससुग्रीव स्सलक्ष्मणः ॥ 98 ॥

अथ धौतोपलतलां तोयौघै स्सहसोत्थितैः ।
वेलामासाद्य विपुलान्रामो वचनमब्रवीत् ॥ 99 ॥

एते वयमनुप्राप्ता स्सुग्रीव वरुणालयम् ।
इहेदानीं विचिन्ता साया नः पूर्वसमुत्थिता ॥ 100 ॥

अतः परमतीरोऽयं सागर स्सरितां पतिः ।
न चायमनुपायेन शक्यस्तरितुमर्णवः ॥ 101 ॥

तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह ।
यथेदं वानरबलं परं पारमवाप्नुयात् ॥ 102 ॥

इतीव स महाबाहुस्सीताहरणकर्शितः ।
रामस्सागरमासाद्य वासमाज्ञापयत्तदा ॥ 103 ॥

सर्वा स्सेना निवेश्यन्तां वेलायां हरिपुङ्गव ।
सम्प्राप्तो मन्त्रकालो नस्सागरस्येह लङ्घने ॥ 104 ॥

स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् ।
गच्छन्तु वानराश्शूराज्ञेयं छन्नं भयं च नः ॥ 105 ॥

रामस्य वचनं श्रुत्वा सुग्रीव स्सहलक्ष्मणः ।
सेनां निवेशयततीरे सागरस्य द्रुमायुते ॥ 106 ॥

विरराज समीपस्थं सागरस्य तु तद्बलम् ।
मधुपाण्डुजल श्रशीमान् द्वितीय इव सागरः ॥ 107 ॥

वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः ।
निविष्टाश्च परं पारं काङ्क्षमाणा महोदधेः ॥ 108 ॥

तेषां निविशमानानां सैन्यसन्नाहनिस्स्वनः ।
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ 109 ॥

सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता ।
त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ॥ 110 ॥

सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।
वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ 111 ॥

दूरपारमसम्बाधं रक्षोगणनिषेवितम् ।
पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ 112 ॥

चण्डनक्रग्राहं घोरं क्षपादौ दिवसक्ष्ये ।
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥ 113 ॥

चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम् ।
चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ॥ 114 ॥

दीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम् ।
अवगाढं महासत्त्वैर्नानाशैलसमाकुलम् ।
सुदुर्गं दुर्गमार्गं तमगाध मसुरालयम् ॥ 115 ॥

मकरैर्नागभोगैश्च विगाढा वातलोलिताः ।
उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ 116 ॥

उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः ।
अग्नि चूर्णं इव आविद्धं भास्कर अम्बु मनो रगम् ॥ 117 ॥

सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् ।
सागरं चाम्बरं चेति निर्विशेष मदृश्यत ॥ 118 ॥

सम्पृक्तं नभसाप्यम्भस्सम्पृक्तं च नभोऽम्भसा ।
तादृग्रूपेच दृश्यते तारारत्नसमाकुले ॥ 119 ॥

समुत्पतितमेघस्य वीचिमालाकुलस्य च ।
विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ॥ 120 ॥

अन्योन्यैराहता स्सक्ता स्सस्वनुर्भीमनिस्स्वनाः ।
ऊर्मयस्सिन्धुराजस्य महाभेर्य इवाहवे ॥ 121 ॥

रत्नौघ जलसन्नादं विषक्तमिव वायुना ।
उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ 122 ॥

ददृशुस्ते महोत्साह वाताहतजलाशयम् ।
अनिलोद्धूतमाकाशे प्रवल्गन्त ममिवोर्मिभिः ॥ 123 ॥

ततो विस्मयमापन्ना हरयो ददृशुर्हरयस्तदा ।
भ्रान्तोर्मिजालसन्नादं प्रलोलमिव सागरम् ॥ 124 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुर्थस्सर्गः ॥




Browse Related Categories: