श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रिंशदधिकशततमस्सर्गः ।
श्रुत्वातुपरमानन्दम्भरतस्सत्यविक्रमः ।
हृष्टमाज्ञापयामासशत्रुघ्नम्परवीरहा ॥ 1 ॥
दैवतानि च सर्वाणिचैत्यानिनगरस्य च ।
सुगन्धमाल्यैर्यादित्रैरर्चन्तु शुचयो नराः ॥ 2 ॥
सूतास्स्तुतिपुराणज्ञास्सर्वेवैतालिकास्तथा ।
सर्वेवादित्रकुशलागणिकाश्चैवसङ्घशः ॥ 3 ॥
राजदारास्तथामात्यास्सैन्यास्सेनाङ्गनागणाः ।
ब्राह्मणाश्चसराजन्याश्रेणिमुख्यास्तथागणाः ॥ 4 ॥
अभिनिर्यान्तुरामस्यद्रष्टुंशशिनिभम्मुखम् ।
भरतस्यवच्श्रुत्वाशत्रुघ्नःपरवीरहा ॥ 5 ॥
विष्टीरनेकसाहस्रीश्चोदयामानभागशः ।
समीकुरुतनिम्नानिविषमानिसमानि च ॥ 6 ॥
स्थानानितुनिरस्यन्तान्नन्दिग्रामादितःपरम् ।
सिञ्चस्तुपृथिवीङ्कृत्स्नांहिवशीतेववारिणा ॥ 7 ॥
ततोऽभ्यवकिरन्त्वन्येलाजैःपुष्पैश्चसर्वतः ।
सुमुच्छ्रितपताकास्तुरथ्याःपुरवरोत्तमेः ॥ 8 ॥
शोभयन्तु च वेश्मानिसूर्यस्योदयनम्प्रति ।
स्रग्दाममुक्तपुष्पैश्चसुगन्धैः पञ्चवर्णकैः ॥ 9 ॥
राजमार्गमसम्बाधङ्किरन्तुशतशोनराः ।
तस्तच्छासनंश्रुत्वाशत्रुघ्नस्यमुदान्विताः ॥ 10 ॥
धृष्टिर्जयन्तोविजयस्सिद्धार्थश्चार्थसाधकः ।
अशोकोमन्त्रपालश्चसुमन्त्रश्चापिनिर्ययुः ॥ 11 ॥
मत्तैर्नागसहस्रैश्चसध्वजैस्सुविभूषितैः ।
अपरेहेमकक्षाभिस्सगजाभिःकरेणुभिः ॥ 12 ॥
निर्ययुस्तुररथैश्चसुमहारथाः ।
शक्त्यृष्टिपाशहस्तानांसध्वजानाम्पताकिनाम् ॥ 13 ॥
तुरगाणांसहस्रैश्चमुख्यैर्मुख्यतरान्वितैः ।
पदातीनांसहस्रैश्चवीराःपरिवृताययुः ॥ 14 ॥
ततोयानान्युपारूढास्सर्वादशरथस्त्रियः ।
कौसल्याम्प्रमुखेकृत्वासुमित्राञ्चापिनिर्ययुः ॥ 15 ॥
कैकेय्यासहिताःसर्वानन्दिग्राममुपागमन् ।
द्विजातिमुख्यैर्धर्मात्माश्रेणीमुख्यैस्सनैगमैः ॥ 16 ॥
माल्यमोदकहस्तैश्चमन्त्रिभिर्भरतोवृतः ।
शङ्खभेरीनिनादैश्चवन्दिभिश्चाभिवनन्दितः ॥ 17 ॥
आर्यपादौगृहीत्वातौशिरसाधर्मकोविदः ।
पाण्डुरञ्छत्रमादायशुक्लमाल्योपशोभितम् ॥ 18 ॥
शुक्ले च वालव्यजनेराजार्हेहेमभूषिते ।
उपवासकृशोदीनश्चीरकृष्णाजिनाम्बरः ॥ 19 ॥
भ्रातुरागमनंश्रुत्वातत्पूर्वंहर्षमागतः ।
प्रत्युद्ययौतदारामम्महात्मासचिवैस्सह ॥ 20 ॥
अश्वानाङ्खुरशब्दैश्चरथनेमिस्वनेन च ।
शङ्खदुन्दुभिनादेनसञ्चचालेवमेदिनी ॥ 21 ॥
कृत्स्नन्तुनगरन्तत्तुनन्दिग्राममुपागमत् ।
समीक्ष्यभरतोवाक्यमुवाचपवनात्मजम् ॥ 22 ॥
कच्चिन्नखलुकापेयीसेव्यतेचकचित्तता ।
न हिपश्यामिकाकुत्स्थंराममार्यम्परन्तपम् ॥ 23 ॥
अथैवमुक्तेवचनेहनूमानिदमब्रवीत् ।
अर्थ्यंविज्ञापयन्नेवभरतंसत्यविक्रमम् ॥ 24 ॥
सदाफलान्कुसुमितान्वृक्षान् प्राप्यमधुस्रवान् ।
भरद्वाजप्रसादेनमत्तभ्रमरनादितान् ॥ 25 ॥
तस्यचैषवरोदत्तोवासवेनपरन्तप ।
ससैन्यस्यतवातिथ्यङ्कृतंसर्वगुणान्वितम् ॥ 26 ॥
निस्स्वन्श्रूयतेभीमःप्रहृष्टानांवनौकसाम् ।
मन्येवानरसेनासानदीन्तरतिगोमतीम् ॥ 27 ॥
रजोवर्षंसमुद्भूतम्पश्यसालवनम्प्रति ।
मन्येसालवनंरम्यंलोपयन्तिप्लवङ्गमाः ॥ 28 ॥
तदेतद्दृश्यतेदूराद्विमानञ्चन्द्रसन्निभम् ।
विमानम्पुष्पकन्दिव्यम्मनसाब्रह्मनिर्मितम् ॥ 29 ॥
रावणम्बान्धवैःसार्थंहत्वालब्धम्महात्मना ।
तरुणादित्यसङ्काशंविमानंरामवाहनम् ॥ 30 ॥
धनदस्यप्रसादेनदिव्यमेतन्मनोजवम् ।
एतस्मिन् भ्रातरौवीरौवैदेह्यासहराघवौ ॥ 31 ॥
सुग्रीवश्चमहातेजाराक्षसश्चविभीषणः ।
एतोहर्षसमुद्भूतोनिःस्वनोदिवमस्पृशत् ॥ 32 ॥
स्त्रीबालयुववृद्धानांरामोऽयमितिकीर्तिते ।
रथकुञ्जरवाजिभ्यस्तेऽवतीर्यमहीङ्गताः ॥ 33 ॥
ददृशुस्तंविमानस्थन्नरास्सोममिवाम्बरे ।
प्राज्ञलिर्भरतोभूत्वाप्रसृष्टोराघवोन्मुखः ॥ 34 ॥
स्वागतेनयथार्हेणततोराममपूजयत् ।
मनसाब्रह्मणासृष्टेविमानेभरताग्रजः ॥ 35 ॥
रराजपृथुदीर्घाक्षोवज्रपाणिरिवापरः ।
ततोविमानाग्रगतम्भरतोभ्रातरन्तदा ॥ 36 ॥
ववन्देप्रणतोरामम्मेरुस्थमिवभास्करम् ।
ततोरामाभ्यनुज्ञातन्तद्विमानमनुत्तमम् ॥ 37 ॥
हंसयुक्तम्महावेगन्निपपातमहीतले ।
आपितोविमानन्तद्भरतस्सत्यविक्रमः ॥ 38 ॥
राममासाद्यमुदितःपुनरेवाभ्यवादयत् ।
तंसमुत्थाप्यकाकुत्स्थश्चिरस्याक्षिरथङ्गतम् ॥ 39 ॥
अङ्केभरतमारोप्यमुदितःपरिषस्वजे ।
ततोलक्ष्मणमासाद्यवैदेहीं च परन्तपः ॥ 40 ॥
अथाभ्यवादयप्रतीतोभरतोनामचाब्रवीत् ।
सुग्रीवङ्केकयीपुत्रोजाम्बवन्तमथाङ्गदम् ॥ 41 ॥
मैन्दं च द्विविदन्नीलमृषभम्परिषस्वजे ।
सुषेणं च नलञ्चैवगवाक्षङ्गन्धमादनम् ॥ 42 ॥
शरभम्पनसञ्चैवपरितःपरिषस्वजे ।
तेकृत्वामानुषंरूपंवानराःकामरूपिणः ॥ 43 ॥
कुशलम्पर्यपृच्छंस्तेप्रहृष्टाभरतन्तदा ।
अथाब्रवीद्राजपुत्रस्सुग्रीवंवानरर्षभम् ॥ 44 ॥
परिष्वज्यमहातेजाभरतोधर्मिणांवरः ।
त्वम्स्माकञ्चतुर्णांवैभ्रातासुग्रीवपञ्चमः ॥ 45 ॥
सौहार्दाज्जायतेमित्रमपकारोऽरिलक्षणम् ।
विभीषणं च भरतःसान्त्ववाक्यमथाब्रवीत् ॥ 46 ॥
दिष्ट्यात्वयासहायेनकृतङ्कर्मसुदुष्करम् ।
शत्रुघ्नश्चतदाराममभिवाद्यसलक्ष्मणम् ॥ 47 ॥
सीतायाश्चरणौवीरोविनयादभ्यवादयत् ।
रामोमातरमासाद्यविवर्णांशोककर्शिताम् ॥ 48 ॥
जग्राहप्रणतःपादौमनोमातुःप्रहर्षयन् ।
अभिवाद्यसुमित्रां च कैकेयीं च यशस्विनीम् ॥ 49 ॥
स मात्रूश्चततस्सर्वापुरोहितमुपागमत् ।
स्वागतन्तेमहाबाहोकौसल्यानन्दवर्धना ॥ 50 ॥
इतिप्राञ्जलयःसर्वेनागराराममब्रुवन् ।
तान्यञ्जलिसहस्राणिप्रगृहीतानिनागरैः ॥ 51 ॥
व्याकोचानीवपद्मानिददर्शभरताग्रजः ।
पादुकेतेतुरामस्यगृहीत्वाभरतस्स्वयम् ॥ 52 ॥
चरणाभ्यान्नरेन्द्रस्ययोजयामासधर्मवित् ।
अब्रवीच्चतदारामम्भरतः स कृताञ्जलिः ॥ 53 ॥
एतत्तेसकलंराज्यन्न्यासन्निर्यातितम्मया ।
अद्यजन्मकृतार्थम्मेसम्वृत्तश्चमनोरथः ॥ 54 ॥
यत्त्वाम्पश्यामिराजानमयोध्याम्पुनरागतम् ।
अवेक्षताम्भवान्शोकङ्कोष्ठागारङ्गृहम्बलम् ॥ 55 ॥
भवतस्तेजसासर्वङ्कृतन्दशगुणम्मया ।
तथाब्रुवाणम्भरतन्दृष्टवातम्भ्रातृवत्सलम् ॥ 56 ॥
मुमुचुर्वानराबाष्पंराक्षसश्चविभीषणः ।
ततःप्रहर्षाद्भरतमङ्गमारोप्यराघवः ॥ 57 ॥
ययौतेनविमानेनससैन्योभरताश्रमम् ।
भरताश्रममासाद्यससैन्योराघवस्तदा ॥ 58 ॥
अवतीर्यविमानाग्रादवतस्थेमहीतले ।
अब्रवीत्तुतदारामस्तद्विमानमनुत्तमम् ॥ 59 ॥
वहवैश्रवणन्देवमनुजानामिगम्यताम् ।
ततोरामाभ्यनुज्ञातन्तद्विमानमनुत्तमम् ॥ 60 ॥
उत्तरान्दिशमुद्दिश्यजगामधनदालयम् ।
विमानम्पुष्पकन्दिव्यंसम्गृहीतन्तुरक्षसा ॥ 61 ॥
अगमद्धनदंवेगाद्रामवाक्यप्रचोदितम् ।
पुरोहितस्यात्मसमस्यराघवोबृहस्पतेश्शक्रैवामराधिपः ।
निपीड्यपादौपृथगाननेशुभेसहैवतेनोपविवेशवीर्यवान् ॥ 62 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रिंशदधिकशततमस्सर्गः ॥