श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ अष्टाविंशस्सर्गः ।
स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ।
न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ 1 ॥
सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम् ।
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ 2 ॥
सीते महाकुलीनाऽसि धर्मे च निरता सदा ।
इहाऽचर स्वधर्मं त्वं मे यथा मनसस्सुखम् ॥ 3 ॥
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाऽबले ।
वने हि बहवो दोषा वदतस्तान्निबोध मे ॥ 4 ॥
सीते विमुच्यतामेषा वनवासकृता मतिः ।
बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ 5 ॥
हितबुद्ध्या खलु वचो मयैतदभिधीयते ।
सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ 6 ॥
गिरिनिर्झरसम्भूता गिरिकन्दर वासिनाम् ।
सिंहानां निनदा दुःखा श्श्रोतुं दुःखमतो वनम् ॥ 7 ॥
क्रीडमानाश्च विस्रब्धा मत्ता श्शून्ये महामृगाः ।
दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥ 8 ॥
सग्राहा स्सरितश्चैव पङ्कवत्यस्सु दुस्तराः ।
मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ 9 ॥
लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः ।
निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥ 10 ॥
सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले ।
रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ 11 ॥
अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना ।
फलैर्वृक्षावपतितै स्सीते दुःखमतो वनम् ॥ 12 ॥
उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि ।
जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा ॥ 13 ॥
देवतानां पित्रूणां कर्तव्यं विधिपूर्वकम् ।
प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ 14 ॥
कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः ।
चरता नियमेनैव तस्माद्धुःखतरं वनम् ॥ 15 ॥
उपहारश्च कर्तव्यः कुसुमै स्स्वयमाहृतैः ।
आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ॥ 16 ॥
यथालब्धेन कर्तव्यः सन्तोषस्तेन मैथिलि ।
यताहारैर्वनचरै र्नित्यं दुःखमतो वनम् ॥ 17 ॥
अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः ।
भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ 18 ॥
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ।
चरन्ति पृथिवीं दर्पात्ततो दुःखतरं वनम् ॥ 19 ॥
नदी निलयना स्सर्पा नदीकुटिलगामिनः ।
तिषठ्न्त्यावृत्य पन्थानं ततो दुःखतरं वनम् ॥ 20 ॥
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकै स्सह ।
बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् ॥ 21 ॥
द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि ।
वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् ॥ 22 ॥
कायक्लेशाश्च बहवो भयानि विविधानि च ।
अरण्यवासे वसतो दुःखमेव ततो वनम् ॥ 23 ॥
क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः ।
न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ 24 ॥
तदलं ते वनं गत्वा क्षमं न हि वनं तव ।
विमृशन्निह पश्यामि बहुदोषतरं वनम् ॥ 25 ॥
वनन्तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना ।
न तस्य सीता वचनं चकार त त्ततोऽब्रवीद्राममिदं सुदुःखिता ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे अष्टाविंशस्सर्गः ॥