View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.52 किष्किन्धाकाण्ड - द्विपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ द्विपञ्चाशस्सर्गः ।

अथ तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान् ।
इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ 1 ॥

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् ।
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ 2 ॥

तस्यास्तद्वचनं श्रुत्वा हनूमान्मारुतात्मजः ।
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥ 3 ॥

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
रामो दाशरथिश्शीमान्प्रविष्टो दण्डकावनम् ॥ 4 ॥

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ 5 ॥

वीरस्तस्य सखा राज्ञस्सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ 6 ॥

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ।
सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम् ॥ 7 ॥

रावणं सहितास्सर्वे राक्षसं कामरूपिणम् ।
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ 8 ॥

विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ।
परित्रान्ता बुभुक्षिता वृक्षमूलमुपाश्रिताः ॥ 9 ॥

विवर्णवदनास्सर्वे सर्वे ध्यानपरायणाः ।
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥ 10 ॥

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् ।
लतापादपसञ्च्छन्नं तिमिरेण समावृतम् ॥ 11 ॥

अस्माद्धंसा जलक्लिन्नाः पक्षैस्सलिलविस्रवैः ।
कुररास्सारसाश्चैव निष्पतन्ति पतत्रिणः ॥ 12 ॥

साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ।
तेषामपि हि सर्वेषामनुमानमुपागतम् ॥ 13 ॥

गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ।
ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ॥ 14 ॥

इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम् ।
एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥ 15 ॥

त्वां चैवोपगतास्सर्वे परिद्यूना बुभुक्षिताः ।
आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥ 16 ॥

अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः ।
यत्त्वया रक्षितास्सर्वे म्रियमाणा बुभुक्षया ॥ 17 ॥

ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ।
एवमुक्ता तु धर्मज्ञैर्वानरैस्तैस्स्वयम्प्रभा ॥ 18 ॥

प्रत्युवाच ततस्सर्वानिदं वानरपुङ्गवान् ।
सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम् ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्विपञ्चाशस्सर्गः ॥




Browse Related Categories: