श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ चतुर्विंशस्सर्गः ।
तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन ।
पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे ॥ 1 ॥
स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी ।
जगाम रामस्य शनैस्समीपं भृत्यैर्वृतसम्परिदूयमानः ॥ 2 ॥
स तं समासाद्य गृहीतचाप मुदात्तमाशीविषतुल्यबाणम् ।
यशस्विनं लक्षणलक्षिताङ्ग मवस्थितं राघव मित्युवाच ॥ 3 ॥
यथा प्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म ।
ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सहजीवितेन ॥ 4 ॥
अस्यां महिष्यां तु भृशं रुदन्त्या पुरे च विक्रोशति दुःखतप्ते ।
हतेऽग्रजे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे ॥ 5 ॥
क्रोधादमर्षादतिविप्रधर्षा द्भ्रातुर्वधो मेऽनुमतः पुरस्तात् ।
हते त्विदानीं हरियूथपेऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ॥ 6 ॥
श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके ।
यथा तथा वर्तयतस्स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः ॥ 7 ॥
न त्वां जिघांसामि चरेति यन्मा मयं महात्मा मतिमानुवाच ।
तस्यैव तद्राम वचोऽनुरूप मिदं पुनः कर्म च मेऽनुरूपम् ॥ 8 ॥
भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत ।
राज्यस्य दुःखस्य च वीर सारं विचिन्तयन्कामपुरस्कृतऽस्सन् ॥ 9 ॥
वधो हि मे मतो नासीत्स्वमाहात्म्याव्यतिक्रमात् ।
ममाऽसीद्बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः ॥ 10 ॥
द्रुमशाखावभग्नोऽहं मुहुर्तं परिनिष्टनन् ।
सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥ 11 ॥
भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ।
मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥ 12 ॥
अचिन्तनीयं परिवर्जनीय मनीप्सनीयं स्वनवेक्षणीयम् ।
प्राप्तोऽस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः ॥ 13 ॥
पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च ।
को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छेत् ॥ 14 ॥
नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् ।
अधर्मयुक्तं कुलनाशयुक्त मेवंविधं राघव कर्म कृत्वा ॥ 15 ॥
पापस्य कर्ताऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव ।
शोको महान्मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥ 16 ॥
सोदर्यघातापरगात्रवालः सन्तापहस्ताक्षिशिरोविषाणः ।
एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः ॥ 17 ॥
अंहो बतेदं नृवराविषह्यं निवर्तते मे हृदि साधुवृत्तम् ।
विवर्णमग्नौ परितप्यमानं किट्टं यथा राघव जातरूपम् ॥ 18 ॥
महाबलानां हरियूथपाना मिदं कुलं राघव मन्निमित्तम् ।
अस्याङ्गदप्यापि च शोकतापा दर्धस्थितप्राणमितीव मन्ये ॥ 19 ॥
सुतस्सुलभ्यस्सुजनस्सुवश्यः कुतस्तु पुत्रस्सदृशोऽङ्गदेन ।
न चापि विद्येत स वीर देशो यस्मिन्भवेत्सोदरसन्निकर्षः ॥ 20 ॥
यद्यङ्गदो वीरवरार्ह जीवेत् जीवेच्छ माता परिपालनार्थम् ।
विना तु पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे ॥ 21 ॥
सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन् ।
इमे विचेष्यन्ति हरिप्रवीरा स्सीतां निदेशे तव वर्तमानाः ॥ 22 ॥
कृत्स्नं तु ते सेत्स्यति कार्यमेत न्मय्यप्रतीते मनुजेन्द्रपुत्र कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम् ॥ 23 ॥
इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य ।
सञ्जातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव ॥ 24 ॥
तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान्भुवनस्य गोप्ता ।
रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम् ॥ 25 ॥
तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम् ।
उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिवीरपत्नीम् ॥ 26 ॥
सा विस्फुरन्ती परिरभ्यमाणा भर्तुस्सकाशादपनीयमाना ।
ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ 27 ॥
सुसंवृतं पार्थिपलक्षणैश्च तं चारुनेत्रं मृगशाबनेत्रा ।
अदृष्टपूर्वं पुरुषप्रधान मयं स काकुत्स्थ इति प्रजज्ञे ॥ 28 ॥
तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या ।
आर्ताऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती ॥ 29 ॥
सा तं समासाद्य विशुद्धसत्त्वा शोकेन सम्भ्रान्तशरीरभावा ।
मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ॥ 30 ॥
त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च ।
अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान्क्षतजोपमाक्षः ॥ 31 ॥
त्वमात्तबाणासनबाणपाणि र्महाबलस्संहननोपपन्नः ।
मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ॥ 32 ॥
येनैक बाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन ।
हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥ 33 ॥
स्वर्गेऽपि पद्मामलपत्रनेत्र स्समेत्य सम्प्रेक्ष्य च मामपश्यन् ।
न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत् ॥ 34 ॥
स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्प्यति वीर वाली ।
रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम् ॥ 35 ॥
त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः ।
तत्त्वं प्रजानन् जहि मां न वाली दुःखं ममादर्शनजं भजेत ॥ 36 ॥
यच्चापि मन्येत भवान्महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम् ।
आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधस्स्यान्मनुजेन्द्रपुत्र ॥ 37 ॥
शास्त्रप्रयोगाद्विविधाच्च वेदा दात्माह्यनन्यः पुरुषस्य दाराः ।
दाराप्रदानान्नहि दानमन्य त्प्रदृश्यते ज्ञानवतां हि लोके ॥ 38 ॥
त्वं चापि मां तस्य मम प्रियस्य प्रदास्य से धर्ममवेक्ष्य वीर अनेन दानेन न लप्स्यसे त्व मधर्मयोगं मम वीर घातात् ॥ 39 ॥
आर्तामनाथामपनीयमाना मेवं विधामर्हसि मां निहन्तुम् ।
अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता ॥ 40 ॥
विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ।
इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे ॥ 41 ॥
मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा ।
तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा ॥ 42 ॥
त्रयोऽहि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य ।
प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् ।
धात्रा विधानं विहितं तथैव न शूरपत्नयः परिदेवयन्ति ॥ 43 ॥
आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परन्तपेन ।
सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा ॥ 44 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुर्विंशस्सर्गः ॥