श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ सप्तचत्वारिंशस्सर्गः ।
सप्तधातु कृते गर्भे दितिः परमदुःखिता ।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाऽब्रवीत् ॥ 1 ॥
ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतः ।
नापराधोऽस्ति देवेश तवात्र बलसूदन ॥ 2 ॥
प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये ।
मरुतां सप्तसप्तानां स्थानपाला भवन्त्विमे ॥ 3 ॥
वातस्कन्धाः इमे सप्त चरन्तु दिवि पुत्रक ।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ 4 ॥
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथाऽपरः ।
दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः ॥ 5 ॥
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् ।
सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजाः ॥ 6 ॥
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः ।
उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः ॥ 7 ॥
सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ।
विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजाः ॥ 8 ॥
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ।
जग्मतुस्त्रिदिवं राम कृतार्थाविति नश्श्रुतम् ॥ 9 ॥
एष देशस्स काकुत्स्थ महेन्द्राध्युषितः पुरा ।
दितिं यत्र तपस्सिद्धामेवं परिचचार सः ॥ 10 ॥
इक्ष्वाकोऽस्तु नरव्याघ्र पुत्रः परमधार्मिकः ॥ 11 ॥
अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः ।
तेन चासीदिह स्थाने विशालेति पुरी कृता ॥ 12 ॥
इक्ष्वाकोऽस्तु नरव्याघ्र पुत्रः परमधार्मिकः ॥ 13 ॥
अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः ।
तेन चासीदिह स्थाने विशालेति पुरी कृता ॥ 14 ॥
विशालस्य सुतो राम हेमचन्द्रो महाबलः ।
सुचन्द्र इति विख्यातः हेमचन्द्रादनन्तरः ॥ 15 ॥
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः ।
धूम्राश्वतनयश्चापि सञ्जयस्समपद्यत ॥ 16 ॥
सञ्जयस्य सुतश्श्रीमान् सहदेवः प्रतापवान् ।
कुशाश्वस्सहदेवस्य पुत्रः परमधार्मिकः ॥ 17 ॥
कुशाश्वस्य महातेजा सोमदत्तः प्रतापवान् ।
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ 18 ॥
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम् ।
आवसत्यमरप्रख्यस्सुमतिर्नाम दुर्जयः ॥ 19 ॥
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तस्सुधार्मिकाः ॥ 20 ॥
इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् ।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥ 21 ॥
सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।
श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ॥ 22 ॥
पूजां च परमां कृत्वा सोपाध्यायस्सबान्धवः ।
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥ 23 ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनिः ।
सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तचत्वारिंशस्सर्गः ॥