View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.114 अयोध्याकाण्ड - चतुर्दशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ चतुर्दशाधिकशततमस्सर्गः ।

स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः ।
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ 1 ॥

बिडालोलूकचरितामालीननरवारणाम् ।
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ 2 ॥

राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।
ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम् ॥ 3 ॥

अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम् ।
लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ 4 ॥

विधूमामिव हेमाभामध्वराग्ने स्समुत्थिताम् ।
हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम् ॥ 5 ॥

विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् ।
हतप्रवीरामापन्नां चमूमिव महाहवे ॥ 6 ॥

सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् ।
प्रशान्तमारुतोद्धूतां जलोर्मिमिव निस्स्वनाम् ॥ 7 ॥

त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।
सुत्याकाले सुनिर्वृत्ते वेदिं गतरवामिव ॥ 8 ॥

गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम् ।
गोवृषेण परित्यक्तां गवां पक्तिमिवोत्सुकाम् ॥ 9 ॥

प्रभाकराद्यै स्सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ 10 ॥

सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।
संवृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ 11 ॥

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।
द्रुतदावाग्नि विप्लुष्टां क्लान्तां वनलतामिव ॥ 12 ॥

सम्मूढनिगमांस्तब्धां सङ्क्षिप्तविपणापणाम् ।
प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ 13 ॥

क्षीणपानोत्तमैर्भग्नैः शरावैरभिसंवृताम् ।
हतशौण्डामिव ध्वस्तांं पानभूमिमसंस्कृताम् ॥ 14 ॥

वृक्णभूमितलां निम्नां वृक्णपात्रैस्समावृताम् ।
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ 15 ॥

विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ 16 ॥

सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।
निहतां प्रतिसैन्येन वडवामिव पातिताम् ॥ 17 ॥

शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् ।
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ 18 ॥

पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।
सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ 19 ॥

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ 20 ॥

भरतस्तु रथस्थ स्सन् श्रीमान्दशरथात्मजः ।
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ 21 ॥

किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते ।
यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ 22 ॥

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्छितः ।
धूपितागुरुगन्धश्च न प्रवाति समन्ततः ॥ 23 ॥

यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः ।
प्रमत्तगजनादश्च महांश्च रथनिस्वनः ॥ 24 ॥

नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः ।
गते हि रामे तरुणा स्सन्तप्ता नोपभुञ्जते ॥ 25 ॥

बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः ।
नोत्सवा स्सम्प्रवर्तन्ते रामशोकार्दिते पुरे ॥ 26 ॥

सह नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता ।
न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ 27 ॥

कदा नु खलु मे भ्राता महोत्सव इवाऽगतः ।
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥ 28 ॥

तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।
सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥ 29 ॥

एवं बहुविधं जल्पन्विवेश वसतिं पितुः ।
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ 30 ॥

तदा तदन्तः पुरमुञ्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।
निरीक्ष्य सर्वं तु विविक्तमात्मवान्मुमोच बाष्पं भरतः सुदुःखितः ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे चतुर्दशाधिकशततमस्सर्गः ॥




Browse Related Categories: