श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टाविंशस्सर्गः ।
साराणस्यवचश्श्रुत्वारावणंराक्षसाधिपम् ।
बलमादिश्यतत्सर्वंशुकोवाक्यमथाब्रवीत् ॥ 1 ॥
स्थितान्पश्यसियानेतान्मत्तानिवमहाद्विपान् ।
न्यग्रोधानिवगाङ्गेयान् सालान् हैमवतानिव ॥ 2 ॥
एतेदुष्प्रसहाराजन्बलिनःकामरूपिणः ।
दैत्यदानवसङ्काशायुद्धेदेवपराक्रमाः ॥ 3 ॥
एषाङ्कोटिसहस्राणिनवपञ्चचसप्तच ।
तथाशङ्खुसहस्राणितथाबृन्दशतानिच ॥ 4 ॥
एतेसुग्रीवसचिवाःकिष्किन्धानिलयास्सदा ।
हरयोदेवगन्धर्वैरुत्पन्नाःकामरूपिणः ॥ 5 ॥
यौतौपश्यसितिष्ठन्तौकुमारौदेवरूपिणौ ।
मैन्दश्चद्विविदश्चोभौताभ्यान्नास्तिसमोयुधि ॥ 6 ॥
ब्राह्मणासममज्ञातावमृतप्राशिनापुभौ ।
आशंसेतेयुथालङ्कामेतौमर्दितुमोजसा ॥ 7 ॥
यन्तुपश्यसितिष्टन्तम्प्रभिन्नमिवकुञ्जरम् ।
योबलात् क्षोभयेत् क्रुद्धस्समुद्रमपिवानरः ॥ 8 ॥
एषोऽभिगन्तालङ्कायावैदेह्यास्तवचप्रभोः ।
एनम्पश्यपुरादृष्टंवानरम्पुनरागतम् ॥ 9 ॥
ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।
हनूमान् इति विख्यातो लन्घितो येन सागरः ॥ 10 ॥
कामरूपीहरिश्रेष्टोबलरूपसमन्वितः ।
अनिवार्यगतिश्चैवयथासततगःप्रभुः ॥ 11 ॥
उद्यन्तभास्करन्दृष्टवाबालःकिलपिपासितः ।
त्रियोजनसहस्रन्तुअध्वानमवतीर्यहि ॥ 12 ॥
आदित्यमाहरिष्यामिनमेक्षुत्प्रतियास्यति ।
इतिसञ्चिन्त्यमनसापुरैषबलदर्पितः ॥ 13 ॥
अनाधृष्यतमन्देवमपिदेवर्षिदानवैः ।
अनासाघैवपतितोभास्करोदयनेगिरौ ॥ 14 ॥
पतितस्यकपेरस्यहनुरेकाशिलातले ।
किञ्चिद्भिन्नादृढहनोर्हनूमानेषतेनवै ॥ 15 ॥
सत्यमागमयोगेनममैषविदितोहरिः ।
नास्यशक्यम्बलंरूपम्प्रभावोवाऽपिभाषितम् ॥ 16 ॥
एषआशंसतेलङ्कामेकोमर्दितुमोजसा ।
येवजाज्वल्यतेऽपौवैधूमकेतुस्तवाद्यवै ॥ 17 ॥
लङ्कायान्निहितश्चापिकथंविस्मरसेकपिम् ।
यश्चैषोऽनन्तरश्शूरश्श्यामःपद्मनिभेक्षणः ।
इक्ष्वाकूणामतिरथोलोकेविख्यातपौरुष ॥ 18 ॥
यस्मिन्नचलतेधर्मोयोधर्मन्नातिवर्तते ।
योब्राह्ममस्त्रंवेदांश्चवेदवेदविदांवरः ॥ 19 ॥
योभिन्द्याद्गगनम्बाणैःपर्वतांश्चापिदारयेत् ।
यस्यमृत्योरिवक्रोधश्शक्रस्येवपराक्रमः ॥ 20 ॥
यस्यभार्याजनस्थानात्सीताचापिहृतात्वया ।
सएषरामस्त्वांयोद्धुंराजन्समभिवर्तते ॥ 21 ॥
यस्यैषदक्षिणेपार्श्वेशुद्धजाम्बूनदप्रभः ।
विशालवक्षास्ताम्राक्षोनीलकुञ्जितमूर्धजः ॥ 22 ॥
एषोऽस्यलक्ष्मणोनामभ्राताप्राणसमःप्रियः ।
नयेयुद्धेचकुशलस्सर्वशस्त्रभृतंवरः ॥ 23 ॥
अमर्षीदुर्जयोजेताविक्रान्तोबुद्धिमान् बली ।
रामस्यदक्षिणोबाहुर्नित्यम्प्राणोबहिश्चरः ॥ 24 ॥
नह्येषराघवस्यार्थेजीवितम्परिरक्षति ।
एषैवाशंसतेयुद्धेनिहन्तुंसर्वराक्षसान् ॥ 25 ॥
यस्तुसव्यमसौपक्षंरामस्याश्रित्यतिष्ठति ।
रक्षोगणपरिक्षिप्तोराजाह्येषविभीषणः ॥ 26 ॥
श्रीमताराजराजेनलङ्कायामभिषेचितः ।
त्वामेवप्रतिसंरब्दोयुद्धायैषोऽभिवर्तते ॥ 27 ॥
यन्तुपस्यसितिष्ठन्तम्मध्येगिरिमिवाचलम् ।
सर्वशाखामृगेन्द्राणाम्भर्तारममितौजसम् ॥ 28 ॥
तेजयशसाबुद् ध्याज्ञानेनाभिजनेनच ।
यःकपीनतिबभ्राजहिमवानिवपर्वतान् ॥ 29 ॥
किष्किन्धांयस्समध्यास्तेगुहांसगहनद्रुमाम् ।
दुर्गाम्पर्वतदुर्गस्ताम्प्रधानैस्सहयूथपैः ॥ 30 ॥
यस्यैषाकाञ्चनीमालाशोभितेशतपुष्करा ।
कान्तादेवमनुष्याणांयस्यांलक्ष्मीप्रतिष्ठिता ॥ 31 ॥
एताञ्चमालान्ताराञ्चकपिराज्यञ्चशाश्वतम् ।
सुग्रीवोवालिनंहत्वारामेणप्रतिपादितः ॥ 32 ॥
शतंशतसहस्राणाङ्कोटिमाहुर्मनीषिणः ।
शतङ्कोटिसहस्राणांशङ्कुः इत्यभिधीयते ॥ 33 ॥
शतंशङ्कुसहस्राणाम्महाशङ्कुः इतिस्मृतः ॥ 34 ॥
महाशङ्कुसहस्राणांशतम्बृन्दमिहोच्यते ।
शतम्बृन्दसहस्राणाम्महावृन्दमितिस्मृतम् ॥ 35 ॥
महाबृन्दसहस्राणांशतम्पद्ममिहोच्यते ।
शतम्पद्मसहस्राणाम्महापद्ममितिस्मृतिम् ॥ 36 ॥
महापद्मसहस्राणांशतङ्खर्वमिहोच्यते ।
शतङ्खर्वसहस्राणाम्महाखर्वमिवोच्यते ॥ 37 ॥
महाखर्वसहस्राणां समुद्रमभिधीयते ।
शतं समुद्रसाहस्रमोघ इत्यभिधीयते ॥ 38 ॥
शतमोघसहस्राणां महौघ इति विश्रुतः ।
एवं कोटि सहस्रेण शन्कूनां च शतेन च ॥ 39 ॥
महाशङ्कुसहस्रेणतथाबृन्दशतेनच ।
महाबृन्दसहस्रेणतथापद्मशतेनच ॥ 40 ॥
हापद्मसहस्रेणतथाखर्वशतेनच ।
समुद्रेणचतेनैवमहौघेनतथैवच ॥ 41 ॥
एषकोटिमहौघेनसमुद्रसदृशेनच ।
विभीषणेनसचिवैःराक्षसैःपरिवारितः ॥ 42 ॥
सुग्रीवोवानरेन्द्रस्त्वांयुद्धार्थममवर्तते ।
महाबलवृतोनित्यम्महाबलपराक्रमः ॥ 43 ॥
इमाम्महाराजसमीक्ष्यवाहिनीमुपस्थिताम्प्रज्वलितग्रहोपमाम् ।
ततःप्रयत्नःपरमोविधीयतांयथाजयस्स्यान्नपरैःपराजयः ॥ 44 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टाविंशस्सर्गः ॥