श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ पञ्चत्रिंशस्सर्गः ।
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥ 1 ॥
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।
हरीणामीश्वरश्श्रोतुं तव वक्त्राद्विशेषतः ॥ 2 ॥
नैवाकृतज्ञस्सुग्रीवो न शठो नापि दारुणः ।
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥ 3 ॥
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ 4 ॥
रामप्रसादात्कीर्तिञ्च कपिराज्यं च शाश्वतम् ।
प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ॥ 5 ॥
सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम् ।
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ 6 ॥
घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण ।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ 7 ॥
स हि प्राप्तं न जानीते कालं कालविदां वरः ।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ 8 ॥
देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण ।
अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ॥ 9 ॥
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ 10 ॥
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ 11 ॥
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ।
महान्रोषसमुत्पन्न स्संरम्भस्त्यज्यतामयम् ॥ 12 ॥
रुमां मां कपि राज्यं च धनधान्यवसूनि च ।
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ 13 ॥
समानेष्यति सुग्रीव स्सीतया सह राघवम् ।
शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ॥ 14 ॥
शतकोटिसहस्राणि लङ्कायां किल राक्षसाः ।
आयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ 15 ॥
अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः ।
न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ 16 ॥
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ 17 ॥
एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः ।
आगमस्तु न मे व्यक्तश्श्रवात्तस्माद्ब्रवीम्यहम् ॥ 18 ॥
त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः ।
आनेतुं वानरान्युद्धे सुबहून्हरियूधपान् ॥ 19 ॥
तांश्च प्रतीक्षमाणोऽयं विक्रान्तात्सुमहाबलान् ।
राघवस्यार्थसिध्यर्थं न निर्याति हरीश्वरः ॥ 20 ॥
कृता तु संस्था सौमित्रे सुग्रीवेण पुरा यथा ।
अद्य तैर्वानरैस्सर्वैरागन्तव्यं महाबलैः ॥ 21 ॥
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।
अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम ।
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ 22 ॥
तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः ।
हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्कितास्तु सर्वाः ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशस्सर्गः ॥