View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.1 युद्धकाण्ड - प्रथम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ प्रथमस्सर्गः ।

श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ 1 ॥

कृतं हनुमता कार्यं सुमहद्भुवि दुर्लभम् ।
मनसापि यदन्येन न शक्यं धरणीतले ॥ 2 ॥

न हि तं परिपश्यामि यस्तरेत महार्णवम् ।
अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥ 3 ॥

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ।
प्रवष्ट स्सत्त्वमाश्रित्यश्वसन्को नाम निष्क्रमेत् ॥ 4 ॥

को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् ।
यो वीर्यबलसम्पन्नो न समस्याद्धनूमतः ॥ 5 ॥

भृत्यकार्यं हनुमता सुग्रीवस्य कृतम्महत् ।
स्वयं विधाय स्वबलं सदृशं विक्रमस्य च ॥ 6 ॥

यो हि भृत्यो नियुक्तस्सन्भर्त्रा कर्मणि दुष्करे ।
कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ 7 ॥

नियुक्तोयः परं कार्यं न कुर्यान्नृपतेः प्रियम् ।
भृत्योऽभृत्यस्समर्थोऽपि तमाहुर्मध्यमं नरम् ॥ 8 ॥

नियुक्तो नृपतेः कार्यं न कुर्याद्यस्समाहितः ।
भृत्यो युक्तस्समर्थश्च तमाहुः पुरुषाधमम् ॥ 9 ॥

तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता ।
न चात्मा लघुतां नीतस्सुग्रीवश्चापि तोषितः ॥ 10 ॥

अहं च रघुवंशश्च लक्ष्मणश्च महाबलः ।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ 11 ॥

इदं तु मम दीनस्य मनो भूयः प्रकर्षति ।
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥ 12 ॥

एष सर्वस्वभूते परिष्वङ्गो हनूमतः ।
मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ॥ 13 ॥

इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे ।
हनूमन्तं कृतात्मानं कृतकार्यमुपागतम् ॥ 14 ॥

ध्यात्वा पुनरुवाचेदं वचनं रघुनन्दनः ।
हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ॥ 15 ॥

सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् ।
सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ 16 ॥

कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः ।
हरयो दक्षिणं पारं गमिष्यन्ति समागताः ॥ 17 ॥

यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ।
समुद्रपारगमने हरीणां किमिहोत्तरम् ॥ 18 ॥

इत्युक्तवा शोकसम्भ्रान्तो राम श्शत्रुनिबर्हणः ।
हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे प्रथमस्सर्गः ॥




Browse Related Categories: