View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.25 युद्धकाण्ड - पञ्चविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चविंशस्सर्गः ।

सबलेसागरन्तीर्णेरामेदशरथात्मजे ।
अमात्यौरावणश्रीमानब्रवीच्छुकसारणौ ॥ 1 ॥

समग्रंसागरन्तीर्णन्दुस्तरंवानरम्बलम् ।
अभूतपूर्वंरामेणसागरेसेतुबन्धनम् ॥ 2 ॥

सागरेसेतुबन्दन्तुनश्रद्दध्याङ्कथञ्चन ।
अवश्यञ्चापिसङ् ख्येयन्तन्मयावानरम्बलम् ॥ 3 ॥

भवन्तौवानरंसैन्यम्प्रविश्यानुपलक्षितौ ।
परिमाणञ्चवीर्यञ्चयेचमुख्याःप्लवङ्घमाः ॥ 4 ॥

मन्त्रिणोयेचरामस्यसुग्रीवस्यचसम्मताः ।
येपूर्वमभिवर्तन्तेयेचशूराःप्लवङ्गमाः ॥ 5 ॥

सचसेतुर्यथाबद्धस्सागरेसलिलार्णवे ।
निवेशञ्चयधातेषांवानराणाम्महात्मनाम् ॥ 6 ॥

रामस्यव्यवसायञ्चवीर्यम्प्रहरणानिच ।
लक्ष्मणस्यचवीर्यन्तत्त्वतोज्ञातुमर्हथः ॥ 7 ॥

कश्चसेनापतिस्तेषांवानराणाम्महौजसाम् ।
तच्चज्ञात्वायथातत्त्वंशीघ्रमगन्तुमर्हथः ॥ 8 ॥

इतिप्रतिसमादिष्टौराक्षसौशुकसारणौ ।
हरिरूपधरौवीरौप्रविष्टौवानरम्बलम् ॥ 9 ॥

ततस्तद्वानरंसैन्यमचिन्त्यंरोमहर्षणम् ।
सङ् ख्यातुन्नाध्यगच्छेतान्तदातौशुकसारणौ ॥ 10 ॥

संस्थितम्पर्वताग्रेषुनिर्दरेषुगुहासुच ।
समुद्रस्यचतीरेषुवनेषूपवनेषुच ॥ 11 ॥

तरमाणञ्चतीर्णञ्चतर्तुकामञ्चसर्वशः ।
निविष्टन्निविश्चैवभीमनादम्महाबलम् ॥ 12 ॥

तद्बलार्णवमक्षोभ्यन्ददृशातेनिशाचरौ ।
तौददर्शमहातेजाःप्रतिच्छन्नौचविभीषणः ।
आचचक्षेऽथरामायगृहीत्वाशुकसारणौ ॥ 13 ॥

तस्यैमौराक्षसेन्द्रस्यमन्त्रिणौशुकसारणौ ।
लङ्कायस्समनुप्राप्तौचारौपरपुरञ्जयः ॥ 14 ॥

तौदृष्टवाव्यथितौरामन्निराशौजीवितेतथा ।
कृताञ्जलिपुटौभीतौवचनञ्चेदमूचतुः ॥ 15 ॥

आवामिहागतौसौम्य रावणप्रहितावुभौ ।
परिज्ञातुम्बलंसर्वन्तवेदंरघुनन्दनः ॥ 16 ॥

तयोस्तद्वचनंश्रुत्वारामोदशरथात्मजः ।
अब्रवीत्प्रहसन्वाक्यंसर्वभूतहितेरतः ॥ 17 ॥

यदिदृष्टम्बलंसर्वंवयंवासुपरिक्षिताः ।
यथोक्तंवाकृतङ्कार्यछन्दतःप्रतिगम्यताम् ॥ 18 ॥

अथकिञ्चिददृष्टंवाभूयस्तद्द्रष्टुमर्हथः ।
विभीषणोवाकात्स्नर्येनभूयस्सन्दर्शयिष्यति ॥ 19 ॥

नचेदङ्ग्रहणम्प्राप्यभेत्तव्यञ्जीवितम्प्रति ।
न्यस्तशस्त्रौगृहतौवानदूतौवधमर्हतः ॥ 20 ॥

प्रच्छमानौविमुञ्चैतौचारौरात्रिञ्चरावुभौ ।
शत्रुपक्षस्यसततंविभीषणः विकर्षिणौ ॥ 21 ॥

प्रविश्यनगरींलङ्काम्भवद् भ्यान्धनदानुजः ।
वक्तव्योरक्षसांराजायथोक्तंवचनम्मम ॥ 22 ॥

यद्बलञ्चसमाश्रित्यसीताम्मेहृतवानपि ।
तद्दर्शययथाकामंससैन्यस्सहबान्धवः ॥ 23 ॥

श्वःकाल्येनगरींलङ्कांसप्राकारांसतोरणाम् ।
रक्षसञ्चबलम्पश्यशरैर्विध्वंसितम्मया ॥ 24 ॥

क्रोधम्भीममहम्मोक्ष्येससैन्येत्वयिरावणः ।
श्वःकाल्येवज्रवान्वज्रन्दानवेष्विववासवः ॥ 25 ॥

इतिप्रतिसमादिष्टौराक्षसौशुकसारणौ ॥ 26 ॥

जयेतिप्रतिनन्द्यैतौराघवन्धर्मवत्सलम् ।
आगम्यनगरींलङ्कामब्रूतांराक्षसाधिपम् ॥ 27 ॥

विभीषणगृहीतौतुवधार्तौराक्षसेश्वरः ।
दृष्टवाधर्मात्मनामुक्तौरामेणामिततेजसा ॥ 28 ॥

एकस्थानगतायत्रचत्वारःपुरुषर्षभाः ।
लोकपालसमाश्शूराःकृतास्त्रादृढविक्रमा ॥ 29 ॥

रामो दाशरथिः श्रीमाम्ल् लक्ष्मणः च विभीषणः ।
सुग्रीवः च महातेजा महाइन्द्र सम विक्रमः ॥ 30 ॥

एतेशक्ताःपुरीलङ्कांसप्राकारांसतोरणाम् ।
उत्पाट्यसङ्क्रमयितुंसर्वेतिष्ठन्तुवानराः ॥ 31 ॥

यादृश्यन्तस्यरामस्यरूपम्प्रहरणानिच ।
वधिष्यतिपुरींलङ्कामेकस्तिष्ठन्तुतेत्रयः ॥ 32 ॥

रामलक्ष्मणगुप्तासासुग्रीवेणचवाहिनी ।
बभूवदुर्दर्षतरासर्वैरपिसुरासुरैः ॥ 33 ॥

प्रहृष्टरूपाध्वजिनीवनौकसाम् ।
महात्मनां सम्प्रतियोद्धुमिच्छताम् ।
अलंविरोधेनशमोविधीयताम्प्रदीयतान्दाशरथायमैदिली ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चविंशस्सर्गः ॥




Browse Related Categories: