View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.112 अयोध्याकाण्ड - द्वादशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ द्वादशाधिकशततमस्सर्गः ।

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।
विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः ॥ 1 ॥

अन्तर्हिता मुनिगणास्सिद्धाश्च परमर्षयः ।
तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ 2 ॥

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।
श्रुत्वा वयं हि सम्भाषामुभयोस्स्पृहयामहे ॥ 3 ॥

ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः ।
भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥ 4 ॥

कुले जात महाप्राज्ञ महावृत्त महायशः ।
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ 5 ॥

सदाऽनृणमिमं रामं वयमिच्छामहे पितुः ।
आनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥ 6 ॥

एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः ।
राजर्षयश्चैव तदा सर्वे स्वां स्वां गतिं गताः ॥ 7 ॥

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः ।
राम स्संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ 8 ॥

त्रस्तगात्रस्तु भरतस्स वाचा सज्जमानया ।
कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ 9 ॥

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।
कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ 10 ॥

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।
पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा ॥ 11 ॥

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः ।
त्वामेव प्रतिवीक्षन्ते पर्जन्यमिव कर्षकाः ॥ 12 ॥

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ 13 ॥

इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा ।
भृशं सम्प्रार्थयामास राममेव प्रियंवदः ॥ 14 ॥

तमङ्के भरतं कृत्वा रामो वचनमब्रवीत् ।
श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ 15 ॥

आगता त्वामियं बुद्धिस्स्वजा वैनयिकी च या ।
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ 16 ॥

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः ।
सर्वकार्याणि सम्मन्त्र्य सुमहन्त्यपि कारय ॥ 17 ॥

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् ।
अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः ॥ 18 ॥

कामाद्वा तात लोभाद्वा मात्रातुभ्यमिदं कृतम् ।
न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् ॥ 19 ॥

एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् ।
तेजसाऽऽदित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ 20 ॥

आधिरोहाऽर्य पादाभ्यां पादुके हेमभूषिते ।
एतेहि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ 21 ॥

सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च ।
प्रायच्छत्सुमहातेजा भरताय महात्मने ॥ 22 ॥

स पादुके सम्प्रणम्य रामं वचनमब्रवीत् चतुर्दश हि वर्षाणि जटाचीरधरो ह्याहम् ॥ 23 ॥

फलमूलाशनो वीर भवेयं रघुनन्दन ।
तवाऽगमनमाकाङ्क्षान्वसन्वै नगराद्बहिः ॥ 24 ॥

तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप ।
चतुर्दशे तु सम्पूर्णे वर्षेऽहनि रघूत्तम ॥ 25 ॥

न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ।
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ॥ 26 ॥

शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ।
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ॥ 27 ॥

मया च सीतया चैव शप्तोऽसि रघुसत्तम ।
इत्युक्त्वाऽश्रुपरीताक्षो भ्रातरं विससर्ज ह ॥ 28 ॥

स पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।
प्रदक्षिणं चैव चकार राघवं चकार ते चोत्तमनागमूर्धनि ॥ 29 ॥

अथाऽनुपूर्व्यात्प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथाऽनुजौ ।
व्यसर्जयद्राघववंशवर्धनस्थिरः स्वधर्मे हिमवानिवाचलः ॥ 30 ॥

तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः ।
स त्वेव मात्रृरभिवाद्य सर्वारुदन्कुटीं स्वां प्रविवेश राघवः ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे द्वादशाधिकशततमस्सर्गः ॥




Browse Related Categories: