श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ पञ्चदशस्सर्गः ।
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ।
अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ 1 ॥
सन्तानकलताभिश्च पादपैरुपशोभिताम् ।
दिव्यगन्धरसोपेतां सर्वतस्समलङ्कृताम् ॥ 2 ॥
तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् ।
हर्म्यप्रासादसम्बाधां कोकिलाकुलनिस्स्वनाम् ॥ 3 ॥
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ।
बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ 4 ॥
सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः ।
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ 5 ॥
प्रदीप्तामिव तत्रस्थो मारुतिस्समुदैक्षत ।
निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥ 6 ॥
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ।
आमूलपुष्पनिचितैरशोकैश्शोकनाशनैः ॥ 7 ॥
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ।
कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ 8 ॥
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ।
पुन्नागास्सप्तपर्णाश्च चम्पकोद्दालकास्तथा ॥ 9 ॥
विवृद्धमूला बहवश्शोभन्ते स्म सुपुष्पिताः ।
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ॥ 10 ॥
नीलाञ्जननिभाः केचित्तत्राशोकास्सहस्रशः ।
नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा ॥ 11 ॥
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् ।
वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ॥ 12 ॥
पुष्परत्नशतैश्चित्रं द्वितीयं सागरं यथा ।
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ॥ 13 ॥
नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ।
अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् ॥ 14 ॥
शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ।
अशोकवनिकायां तु तस्यां वानरपुङ्गवः ॥ 15 ॥
स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् ।
मथ्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ॥ 16 ॥
प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ।
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ॥ 17 ॥
विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ।
ततो मलिनसंवीतां राक्षसीभिस्समावृताम् ॥ 18 ॥
उपवासकृशां दीनां निश्श्वसन्तीं पुनः पुनः ।
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ॥ 19 ॥
मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् ।
पिनद्धां धूमजालेन शिखामिव विभावसोः ॥ 20 ॥
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ।
सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम् ॥ 21 ॥
व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम् ।
ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ॥ 22 ॥
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च ।
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ॥ 23 ॥
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् ।
स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव ॥ 24 ॥
नीलनागाभया वेण्या जघनं गतयैकया ।
नीलया नीरदापाये वनराज्या महीमिव ॥ 25 ॥
सुखार्हां दुःखसन्तप्तां व्यसनानामकोविदाम् ।
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ॥ 26 ॥
तर्कयामास सीतेति कारणैरुपपादिभिः ।
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ॥ 27 ॥
यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ।
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ॥ 28 ॥
कुर्वतीं प्रभयादेवीं सर्वा वितिमिरा दिशः ।
तां नीलकेशीं बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम् ॥ 29 ॥
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ।
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ 30 ॥
भूमौ सुतनुमासीनां नियतामिव तापसीम् ।
निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ॥ 31 ॥
शोकजालेन महता विततेन न राजतीम् ।
संसक्तां धूमजालेन शिखामिव विभावसोः ॥ 32 ॥
तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव ।
विहतामिव च श्रद्धामाशां प्रतिहतामिव ॥ 33 ॥
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ।
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ 34 ॥
रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ।
अबलां मृगशाबाक्षीं वीक्षमाणां ततस्ततः ॥ 35 ॥
बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ।
वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः ॥ 36 ॥
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ॥ 37 ॥
तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु ।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ 38 ॥
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् ।
संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ॥ 39 ॥
तां समीक्षय विशालाक्षीं राजपुत्रीमनिन्दिताम् ।
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ 40 ॥
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् ।
तान्याभरणजालानि गात्रशोभीन्यलक्षयत् ॥ 41 ॥
सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ ।
मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥ 42 ॥
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ।
तान्यैवेतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ 43 ॥
तत्र यान्यवहीनानि तान्यहं नोपलक्षये ।
यान्यस्या नावहीनानि तानीमानि न संशयः ॥ 44 ॥
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ।
उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥ 45 ॥
भूषणानि च मुख्यानि दृष्टानि धरणीतले ।
अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ 46 ॥
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ।
तथाऽपि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥ 47 ॥
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ।
प्रणष्टापि सती याऽस्य मनसो न प्रणश्यति ॥ 48 ॥
इयं सा यत्कृते रामश्चतुर्भिः परितप्यते ।
कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ 49 ॥
स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ।
पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ 50 ॥
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ।
रामस्य च यथा रूपं तस्येयमसितेक्षणा ॥ 51 ॥
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ 52 ॥
दुष्करं कृतवान्रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न शोकेनावसीदति ॥ 53 ॥
दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ।
सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥ 54 ॥
एवं सीतां तदा दृष्ट्वा हृष्टः पवनसम्भवः ।
जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ 55 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चदशस्सर्गः ॥