View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.57 सुन्दरकाण्ड - सप्तपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ सप्तपञ्चाशस्सर्गः ।

स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।
तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ॥ 1 ॥

पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।
ऐरावतमहाद्वीपं स्वातिहंसविलोलितम् ॥ 2 ॥

वातसङ्घातजातोर्मि चन्द्रांशुशिशिराम्बुमत् ।
भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥ 3 ॥

हनुमान्मारुतगतिर्महानौरिव सागरम् ।
अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥ 4 ॥

ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।
हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥ 5 ॥

मारुतस्यात्मजः श्रीमान्कपिर्व्योमचरो महान् ।
हनुमान्मेघजालानि विकर्षन्निव गच्छति ॥ 6 ॥

पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।
हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥ 7 ॥

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ 8 ॥

विविधाभ्रघनापन्नगोचरो धवलाम्बरः ।
दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायतेऽम्बरे ॥ 9 ॥

तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।
दारयन्मेघबृन्दानि निष्पतंश्च पुनः पुनः ॥ 10 ॥

नदन्नादेन महता मेघस्वनमहास्वनः ।
प्रवरान्राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥ 11 ॥

आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।
अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ 12 ॥

आजगाम महातेजाः पुनर्मध्येन सागरम् ।
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ॥ 13 ॥

ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ।
स किञ्चिदनुसम्प्राप्तः समालोक्य महागिरिम् ॥ 14 ॥

महेन्द्रं मेघसङ्काशं ननाद हरिपुङ्गवः ।
स पूरयामास कपिर्दिशो दश समन्ततः ॥ 15 ॥

नदन्नादेन महता मेघस्वनमहास्वनः ।
स तं देशमनुप्राप्तः सुहृद्धर्शनलालसः ॥ 16 ॥

ननाद हरिशार्दूलो लाङ्गूलं चाप्यकम्पयत् ।
तस्य नानद्यमानस्य सुपर्णचरिते पथि ॥ 17 ॥

फलतीवास्य घोषेण गगनं सार्कमण्डलम् ।
ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ॥ 18 ॥

पूर्वं संविष्ठिताश्शूरा वायुपुत्रदिदृक्षवः ।
महतो वातनुन्नस्य तोयदस्येव गर्जितम् ॥ 19 ॥

शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ।
ते दीनमनसस्सर्वे शुश्रुवुः काननौकसः ॥ 20 ॥

वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ।
निशम्य नदतो नादं वानरास्ते समन्ततः ॥ 21 ॥

बभूवुरुत्सुकास्सर्वे सुहृद्धर्शनकाङ्क्षिणः ।
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ॥ 22 ॥

उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ।
सर्वथा कृतकार्योऽसौ हनुमान्नात्र संशयः ॥ 23 ॥

न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ।
तस्य बाहूरुवेगं च निनादं च महात्मनः ॥ 24 ॥

निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ।
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ॥ 25 ॥

प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ।
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः ॥ 26 ॥

वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ।
गिरिगह्वरसंलीनो यथा गर्जति मारुतः ॥ 27 ॥

एवं जगर्ज बलवान् हनुमान्मारुतात्मजः ।
तमभ्रघनसङ्काशमापतन्तं महाकपिम् ॥ 28 ॥

दृष्ट्वा ते वानरास्सर्वे तस्थुः प्राञ्जलयस्तदा ।
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ॥ 29 ॥

निपपात महेन्द्रस्य शिखरे पादपाकुले ।
हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे ॥ 30 ॥

छिन्नपक्ष इवाऽकाशात्पपात धरणीधरः ।
ततस्ते प्रीतमनसस्सर्वे वानरपुङ्गवाः ॥ 31 ॥

हनुमन्तं महात्मानं परिवार्योपतस्थिरे ।
परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ 32 ॥

प्रहृष्टवदना स्सर्वे तमरोगमुपागतम् ।
उपायनानि चादाय मूलानि च फलानि च ॥ 33 ॥

प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ।
हनुमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा ॥ 34 ॥

कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ।
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ॥ 35 ॥

दृष्टा सीतेति विक्रान्त स्सङ्क्षेपेण न्यवेदयत् ।
निषसाद च हस्तेन गृहीत्वा वालिनस्सुतम् ॥ 36 ॥

रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ।
हनुमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् ॥ 37 ॥

अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।
रक्षमाणा सुघोराभी राक्षसीभिरनिन्दिता ॥ 38 ॥

एकवेणीधरा बाला रामदर्शनलालसा ।
उपवासपरिश्रान्ता जटिला मलिना कृशा ॥ 39 ॥

ततो दृष्टेति वचनं महार्थममृतोपमम् ।
निशम्य मारुतेस्सर्वे मुदिता वानराभवन् ॥ 40 ॥

क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।
चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे ॥ 41 ॥

केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।
आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः ॥ 42 ॥

अपरे च हनूमन्तं वानरा वारणोपमम् ।
आप्लुत्य गिरिशृङ्गेभ्यस्संस्पृशन्ति स्म हर्षिताः ॥ 43 ॥

उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् ।
सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ॥ 44 ॥

सत्त्वे वीर्ये न ते कश्चित्समो वानर विद्यते ।
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ॥ 45 ॥

अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥ 46 ॥

दिष्ट्या त्यक्ष्यति काकुत्स्थ श्शोकं सीतावियोगजम् ।
ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ॥ 47 ॥

परिवार्य प्रमुदिता भेजिरे विपुलाश्शिलाः ।
श्रोतुकामास्समुद्रस्य लङ्घनं वानरोत्तमाः ॥ 48 ॥

दर्शनं चापि लङ्कायास्सीताया रावणस्य च ।
तस्थुः प्राञ्जलयस्सर्वे हनुमद्वचनोन्मुखाः ॥ 49 ॥

तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः ।
उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ 50 ॥

हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना ।
मुदा तदाऽध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत् ॥ 51 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तपञ्चाशस्सर्गः ॥




Browse Related Categories: