श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ षट्षष्टितमस्सर्गः ।
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।
जाम्बवान्समुदीक्ष्यैवं हनूमन्तमथाब्रवीत् ॥ 1 ॥
वीर वानरलोकस्य सर्वशास्त्रविदां वर ।
तूष्णीमेकान्तमाश्रित्य हनूमन्किं न जल्पसि ॥ 2 ॥
हनूमन्हरिराजस्य सुग्रीवस्य समो ह्यसि ।
रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ 3 ॥
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।
गरुत्मानिति विख्यात उत्तमस्सर्वपक्षिणाम् ॥ 4 ॥
बहुशो हि मया दृष्टः सागरे स महाबलः ।
भुजङ्गानुद्धरन्पक्षी महावेगो महायशाः ॥ 5 ॥
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।
विक्रमश्चापि वेगश्च न ते तेनावहीयते ॥ 6 ॥
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव ।
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ 7 ॥
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ।
अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥ 8 ॥
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि ।
अभिशापादभूत्तात वानरी कामरूपिणी ॥ 9 ॥
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ।
मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ॥ 10 ॥
विचित्रमाल्याभरणा महार्हक्षौमवासिनी ।
अचरत्पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ॥ 11 ॥
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ।
स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः ॥ 12 ॥
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ।
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ 13 ॥
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ।
दृष्टवैव शुभसर्वाङ्गीं पवनः काममोहितः ॥ 14 ॥
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ।
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ॥ 15 ॥
सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत् ।
एकपत्नीव्रतमिदं को नाशयितुमिच्छति ॥ 16 ॥
अञ्जनाया वच्शुत्वा मारुतः प्रत्यभाषत ।
न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् ॥ 17 ॥
मनसाऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ।
वीर्यवान्बुद्धिसम्पन्नः पुत्रस्तव भविष्यति ॥ 18 ॥
महासत्त्वो महातेजा महाबलपराक्रमः ।
लङ्घने प्लवने चैव भविष्यति हि मत्समः ॥ 19 ॥
एवमुक्ता ततस्तुष्टा जननी ते महाकपे ।
गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम् ॥ 20 ॥
अभ्युत्थितं ततस्सूर्यं बालो दृष्ट्वा महावने ।
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ॥ 21 ॥
शतानि त्रीणि गत्वाऽथ योजनानां महाकपे ।
तेजसा तस्य निर्धूतो न विषादं ततोगतः ॥ 22 ॥
तावदापपत स्तूर्णमन्तरिक्षं महाकपे ।
क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन धीमता ॥ 23 ॥
तदा शैलाग्रशिखरे वामो हनुरभज्यत ।
ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥ 24 ॥
तस्त्वावि निहतं दृष्ट्वा वायुर्गन्धवहस्स्वयम् ।
त्रैलोक्ये भृशसङ्कृद्धो न ववौ वै प्रभञ्जनः ॥ 25 ॥
सम्भ्रान्ताश्च सूरास्सर्वे त्रैलोक्ये क्षुभिते सति ।
प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः ॥ 26 ॥
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ।
अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥ 27 ॥
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ।
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ॥ 28 ॥
स्वच्छन्दतश्च मरणं तेभूयादिति वै प्रभो ।
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ॥ 29 ॥
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ।
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ 30 ॥
वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम् ।
दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः ॥ 31 ॥
त्रिविक्रमे मया तात सशैलवनकानना ।
त्रिस्सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥ 32 ॥
तथा चौषधयोऽस्माभिस्सञ्चिता देवशासनात् ।
निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ॥ 33 ॥
स इदानीमहं वृद्धः परिहीनपराक्रमः ।
साम्प्रतं कालमस्माकं भवान्सर्वगुणान्वितः ॥ 34 ॥
तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ।
त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी ॥ 35 ॥
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ।
परा हि सर्वभूतानां हनुमन्या गतिस्तव ॥ 36 ॥
विषण्णा हरयस्सर्वे हनुमन्किमुपेक्षसे ।
विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव ॥ 37 ॥
ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः ।
प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा ॥ 38 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षट्षष्टितमस्सर्गः ॥