श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ अष्टाधिकशततमस्सर्गः ।
आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ।
उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ 1 ॥
साधु राघव माऽभूत्ते बुध्दिरेवं निरर्थिका ।
प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥ 2 ॥
कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
यदेको जायते जन्तुरेक एव विनश्यति ॥ 3 ॥
तस्मान्माता पिता चेति राम सज्जेत यो नरः ।
उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ 4 ॥
यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत् ।
उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥ 5 ॥
एवमेव मनुष्याणां पिता माता गृहं वसु ।
अवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ 6 ॥
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।
आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ 7 ॥
समृद्धायामयोध्यायामात्मानमभिषेचय ।
एकवेणीधरा हि त्वां नगरी सम्प्रतीक्षते ॥ 8 ॥
राजभोगाननुभवन्महार्हान्पार्थिवात्मज ।
विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ 9 ॥
न ते कश्चिद्धशरथ स्त्वं च तस्य न कश्चन ।
अन्यो राजा त्वमन्य स्तस्मात्कुरु यदुच्यते ॥ 10 ॥
बीजमात्रं पिता जन्तो श्शुक्लं रुधिरमेव च ।
संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ 11 ॥
गत स्स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।
प्रवृततिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे ॥ 12 ॥
अर्थधर्मपरा ये ये तांस्ताञ्छोचामि नेतरान् ।
ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ 13 ॥
अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ।
अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ 14 ॥
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।
दद्यात्प्रवसत श्श्राद्धं न तत्पथ्यशनं भवेत् ॥ 15 ॥
दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।
यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ 16 ॥
स नास्ति परमित्येव कुरु बुद्धिं महामते ।
प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ 17 ॥
सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ 18 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे अष्टाधिकशततमस्सर्गः ॥