View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.30 किष्किन्धाकाण्ड - त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ त्रिंशस्सर्गः ।

गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।
वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ 1 ॥

पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ 2 ॥

कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ।
बुद्ध्वा कालमतीतं च मुमोह परमातुरः ॥ 3 ॥

स तु सञ्ज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः ।
मनस्स्थामपि वैदेहीं चिन्तयामास राघवः ॥ 4 ॥

आसीनः पर्वतस्याग्रे हेमधातुविभूषिते ।
शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ॥ 5 ॥

दृष्ट्वा च विमलं व्योम गतविद्युद्वलाहकम् ।
सारसारावसङ्घुष्ठं विललापार्तया गिरा ॥ 6 ॥

सारसारावसन्नादैस्सारसारवनादिनी ।
याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम् ॥ 7 ॥

पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् ।
कथं सा रमते बाला पश्यन्ती मामपश्यती ॥ 8 ॥

या पुरा कलहंसानां स्वरेण कलभाषिणी ।
बुध्यते चारुसर्वाङ्गी साऽद्य मे बुद्ध्यते कथम् ॥ 9 ॥

निस्वनं चक्रवाकानां निशम्य नहचारिणाम् ।
पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥ 10 ॥

सरांसि सरितो वापीः काननानि वनानि च ।
तां विना मृगशाबाक्षीं चरन्नाद्य सुखं लभे ॥ 11 ॥

अपि तां मद्वियोगाच्छ सौकुमार्याच्च भामिनीम् ।
सुदूरं पीडयेत्कामश्शरद्गुणनिरन्तरः ॥ 12 ॥

एवमादि नरश्रेष्ठो विललाप नृपात्मजः ।
विहङ्ग इव सारङ्गस्सलिलं त्रिदशेश्वरात् ॥ 13 ॥

ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु ।
ददर्श पर्युपावृत्तो लक्ष्मीवान्लक्ष्मणोऽग्रजम् ॥ 14 ॥

तं चिन्तया दुस्सहया परीतं विसञ्ज्ञमेकं विजने मनस्वी ।
भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ॥ 15 ॥

किमार्य कामस्य वशङ्गतेन किमात्मपौरुष्यपराभवेन ।
अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन ॥ 16 ॥

क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् ।
सहायसामर्थ्यमदीनसत्त्वः स्वकर्म हेतुं च कुरुष्व हेतुम् ॥ 17 ॥

न जानकी मानव वंशनाथ त्वया सनाथा सुलभा परेण ।
न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीर वरार्ह कच्छित् ॥ 18 ॥

सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः ।
हितं च पथ्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च ॥ 19 ॥

निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽह्यनुवर्तितव्यः ।
ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं च चिन्त्यम् ॥ 20 ॥

अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन् ।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ 21 ॥

तर्पयित्वा सहस्राक्षस्सलिलेन वसुन्धराम् ।
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ 22 ॥

स्निग्धगम्भीरनिर्घोषाश्शैलद्रुमपुरोगमाः ।
विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ॥ 23 ॥

नीलोत्पलदलश्यामाश्श्यामीकृत्वा दिशो दश ।
विमदा इव मातङ्गाश्शान्तवेगाः पयोधराः ॥ 24 ॥

जलगर्भा महामेघा कुटजार्जुनगन्धिनः ।
चरित्वा विरतास्सौम्य वृष्टिवातास्समुद्यताः ॥ 25 ॥

घनानां वारणानां च मयूराणां च लक्ष्मण ।
नादः प्रस्रवणानां च प्रशान्तस्सहसाऽनघ ॥ 26 ॥

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः ।
अनुलिप्ता इवाऽभान्ति गिरयश्चित्रदीप्तिभिः ॥ 27 ॥

शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् ।
लीलासु चैवोत्तम वारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता ॥ 28 ॥

सम्प्रत्यनेकाश्रय चित्रशोभा लक्ष्मीश्शरत्कालगुणोपनीता ।
सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥ 29 ॥

सप्तच्छदानां कुसुमोपगन्धी षट्पादबृन्दैरनुगीयमानः ।
मत्तद्विपानां पवनोऽनुसारी दर्पं विनेष्यन्नधिकं करोति ॥ 30 ॥

अभ्यागतैश्चारुविशालपक्षै स्सरःप्रियैः पद्मरजोवकीर्णैः ।
महानदीनां पुलिनोपयातैः क्रीडन्ति हंसास्सह चक्रवाकैः ॥ 31 ॥

मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु ।
प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता ॥ 32 ॥

नभस्समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु ।
प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ॥ 33 ॥

मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः ।
सुवर्णगौरैर्नयनाभिरामै रुद्योतितानीव वनान्तराणि ॥ 34 ॥

प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम् ।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः ॥ 35 ॥

व्यभ्रं नभश्शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि ।
कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ॥ 36 ॥

सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोदधाटितसान्द्ररेणुः ।
अन्योन्यवैरेणसमायुताना मुद्योगकालोऽद्य नराधिपानाम् ॥ 37 ॥

शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांशुसमुत्क्षिताङ्गाः ।
मदोत्कटास्सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ॥ 38 ॥

समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः ।
मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति ॥ 39 ॥

त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम् ।
निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमदा मयूराः ॥ 40 ॥

वित्रास्य कारण्डवचक्रवाका न्महारवैर्भिन्नकटा गजेन्द्राः ।
सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥ 41 ॥

व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु ।
ससारसारावनिनादितासु नदीषु हृष्टा निपतन्ति हंसाः ॥ 42 ॥

नदीघनप्रस्रवणोदकाना मतिप्रवृद्धानिलबर्हिणानाम् ।
प्लवङ्गमानां च गतोत्सवानां द्रुतं रवास्सम्प्रति सम्प्रणष्टाः ॥ 43 ॥

अनेकवर्णास्सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः ।
क्षुधार्दिता घोरविषा बिलेभ्य श्चिरोषिता विप्रसरन्ति सर्पाः ॥ 44 ॥

चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका ।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ 45 ॥

रात्रिश्शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा ।
ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी ॥ 46 ॥

विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः ।
नभस्समाक्रामति शीघ्रवेगाः वातावधूता ग्रथितेव माला ॥ 47 ॥

सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति ।
घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम् ॥ 48 ॥

प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् ।
वाप्युत्तमानामधिकाऽद्य लक्ष्मी र्वराङ्गनानामिव भूषितानाम् ॥ 49 ॥

वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसम्प्रवृद्धः ।
सम्मूर्छितो गर्गरगोवृषाणा मन्योन्यमापूरयतीव शब्दः ॥ 50 ॥

नवैर्नदीनां कुसुमप्रभासै र्व्याधूयमानैर्मृदुमारुतेन ।
धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि ॥ 51 ॥

वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताष्षट्चरणाः प्रह्रृष्टाः ।
वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः ॥ 52 ॥

जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनश्शालिवनं विपक्वम् ।
मृदुश्च वायुर्विमलश्च चन्द्र श्शंसन्ति वर्षव्यपनीतकालम् ॥ 53 ॥

मीनोपसन्दर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः ।
कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ॥ 54 ॥

सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि ।
सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि ॥ 55 ॥

प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु ।
गृहीतचापोद्यतचण्डदण्डः प्रचण्डचारोऽद्य वनेषु कामः ॥ 56 ॥

लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा ।
निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः ॥ 57 ॥

दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः ।
नवसङ्गमसव्रीडा जघनानीव योषितः ॥ 58 ॥

प्रसन्नसलिलास्सौम्य कुररीभिर्विनादिताः ।
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥ 59 ॥

असनास्सप्तपर्णाश्च कोविदाराश्च पुष्पिताः ।
दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ॥ 60 ॥

हंससारसचक्राह्वैः कुररैश्च समन्ततः ।
पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ॥ 61 ॥

अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज ।
उद्योगसमयस्सौम्य पार्थिवानामुपस्थितः ॥ 62 ॥

इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥ 63 ॥

चत्वारो वार्षिका मासा गता वर्षशतोपमाः ।
मम शोकाभिभूतस्य सौम्य सीतामपश्यतः ॥ 64 ॥

चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् ।
विषमं दण्डकारण्यमुद्यानमिव याऽगता ॥ 65 ॥

प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥ 66 ॥

अनाथो हृतराज्योऽयं रावणेन च धर्षितः ।
दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ 67 ॥

इत्येतैः कारणैस्सौम्य सुग्रीवस्य दुरात्मनः ।
अहं वानरराजस्य परिभूतः परन्तप ॥ 68 ॥

स कालं परिसङ्ख्याय सीतायाः परिमार्गणे ।
कृतार्थस्समयं कृत्वा दुर्मतिर्नावबुध्यते ॥ 69 ॥

त्वं च किष्किन्धां प्रविश्य ब्रूहि वानरपुङ्गवम् ।
मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ 70 ॥

अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥ 71 ॥

शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।
सत्येन प्रतिगृह्णाति स वीरः पुरुषोत्तमः ॥ 72 ॥

कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ 73 ॥

नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ।
द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम् ॥ 74 ॥

घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे ।
निर्घोषमिव वज्रस्य पुनस्संश्रोतुमिच्छसि ॥ 75 ॥

काममेवङ्गतेऽप्यस्य परिज्ञाते पराक्रमे ।
त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥ 76 ॥

यदर्थमयमारम्भः कृतः परपुरञ्जयः ।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥ 77 ॥

वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ।
व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते ॥ 78 ॥

सामात्यपरिषत्क्रीडन्पानमेवोपसेवते ।
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥ 79 ॥

उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल ।
मम रोषस्य यद्रूपं ब्रूयाश्चैवमिदं वचः ॥ 80 ॥

न च सङ्कुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ 81 ॥

एक एव रणे वाली शरेण निहतो मया ।
त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥ 82 ॥

तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ ।
तत्तद्भ्रूहि नरश्रेष्ठत्वर कालव्यतिक्रमः ॥ 83 ॥

कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ।
मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैश्शरैः ॥ 84 ॥

स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् ।
चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशनाथः ॥ 85 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिंशस्सर्गः ॥




Browse Related Categories: