श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ षष्टितमस्सर्गः ।
तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् ।
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥ 1 ॥
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः ।
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥ 2 ॥
तेनानेन शरीरेण देवलोकजिगीषया ।
यथाऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति ॥ 3 ॥
तथा प्रवर्त्यतां यज्ञे भवद्भिश्च मया सह ।
विश्वामित्रवच श्श्रुत्वा सर्व एव महर्षयः ॥ 4 ॥
ऊचुस्समेत्य सहिता धर्मज्ञा धर्मसंहितम् ।
अयं कुशिकदायादो मुनिः परमकोपनः ॥ 5 ॥
यदाह वचनं सम्यगेतत्कार्यं न संशयः ।
अग्निकल्पो हि भगवान् शापं दास्यति रोषितः ॥ 6 ॥
तस्मात्प्रवर्त्यतां यज्ञ स्सशरीरो यथा दिवम् ।
गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥ 7 ॥
तथा प्रवर्त्यतां यज्ञ स्सर्वे समधितिष्ठत ।
एवमुक्त्वा महर्षयः चक्रुस्तास्ताःक्रियास्तदा ॥ 8 ॥
याजकश्च महातेजा विश्वामित्रोऽभवत्क्रतौ ।
ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ॥ 9 ॥
चक्रुः कर्माणि सर्वाणि यथाकल्पं यथाविधि ।
ततः कालेन महता विश्वामित्रो महातपाः ॥ 10 ॥
चकारावाहनं तत्र भागार्थं सर्वदेवताः ।
नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः ॥ 11 ॥
ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः ।
स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ॥ 12 ॥
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर ।
एष त्वां सशरीरेण नयामि स्वर्गमोजसा ॥ 13 ॥
दुष्प्रापं सशरीरेण दिवं गच्छ नराधिप ।
स्वार्जितं किञ्चिदप्यस्ति मया हि तपसःफलम् ॥ 14 ॥
राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज ।
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ॥ 15 ॥
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ।
देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ॥ 16 ॥
सह सर्वैस्सुरगणैरिदं वचनमब्रवीत् ।
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ॥ 17 ॥
गुरुशापहतो मूढ पत भूमिमवाक्छिराः ।
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः ॥ 18 ॥
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ।
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥ 19 ॥
रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।
ऋषिमध्ये स तेजस्स्वी प्रजापतिरिवापरः ॥ 20 ॥
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ।
नक्षत्रमालामपरामसृजत्क्रोधमूर्च्छितः ॥ 21 ॥
दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः ।
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥ 22 ॥
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।
दैवतान्यपि स क्रोधा त्स्रष्टुं समुपचक्रमे ॥ 23 ॥
ततः परमसम्भ्रान्तास्सर्षिसङ्घास्सुरासुराः ।
विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥ 24 ॥
अयं राजा महाभाग गुरुशापपरिक्षतः ।
सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥ 25 ॥
तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः ।
अब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥ 26 ॥
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः ।
आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ॥ 27 ॥
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः ।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥ 28 ॥
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः ।
मत्कृतानि सुरा स्सर्वे तदनुज्ञातुमर्हथ ॥ 29 ॥
एवमुक्ताः सुरास्सर्वे प्रत्यूचुर्मुनिपुङ्गवम् ।
एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ॥ 30 ॥
गगने तान्यनेकानि वैश्वानरपथाद्बहिः ।
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन् ॥ 31 ॥
अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः ।
अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ॥ 32 ॥
कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा ।
विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ॥ 33 ॥
ऋषिभिश्च महातेजा बाढमित्याह देवताः ।
ततो देवा महात्मानो मुनयश्च तपोधनाः ।
जग्मुर्यथाऽऽगतं सर्वे यज्ञस्यान्ते नरोत्तम ॥ 34 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे षष्टितमस्सर्गः ॥