View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.32 किष्किन्धाकाण्ड - द्वात्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ द्वात्रिंशस्सर्गः ।

अङ्गदस्य वचश्श्रुत्वा सुग्रीवस्सचिवैस्सह ।
लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥ 1 ॥

सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् ।
मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान् ॥ 2 ॥

न मे दुर्व्याहृतं किञ्चिन्नापि मे दुरनुष्ठितम् ।
लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥ 3 ॥

असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः ।
मम दोषानसम्भूतान् श्रावितो राघवानुजः ॥ 4 ॥

अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि ।
भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः ॥ 5 ॥

न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् ।
मित्रं त्वस्थानकुपितं जनयत्येव सम्भ्रमम् ॥ 6 ॥

सर्वथा सुकरं मित्रं दुष्करं परिपालनम् ।
अनित्यत्वाच्छ चित्तानां प्रीतिरल्पेपि भिद्यते ॥ 7 ॥

अतो निमित्तं त्रस्तोहं रामेण तु महात्मना ।
यन्मयोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥ 8 ॥

सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुङ्गवः ।
उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥ 9 ॥

सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर ।
न विस्मरसि सुस्निग्धमुपकार कृतं शुभम् ॥ 10 ॥

राघवेण तु वीरेण भयमुत्सृज्य दूरतः ।
त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ॥ 11 ॥

सर्वथा प्रणयात्कृद्धो राघवो नात्र संशयः ।
भ्रातरं सम्प्रहितवान्लक्ष्मणं लक्ष्मिवर्धनम् ॥ 12 ॥

त्वं प्रमत्तो न जानीषे कालं कालविदां वर ।
फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ॥ 13 ॥

निर्मलग्रहनक्षत्रा द्यौः प्रनष्टवलाहका ।
प्रसन्नाश्च दिशस्सर्वास्सरितश्च सरांसि च ॥ 14 ॥

प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव ।
त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ॥ 15 ॥

आर्तस्य हृतदारस्य पुरुषं पुरुषान्तरात् ।
वचनं मर्षणीयं ते राघवस्य महात्मनः ॥ 16 ॥

कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् ।
अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥ 17 ॥

नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् ।
अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ॥ 18 ॥

अभिक्रुद्धस्समर्थो हि चापमुद्यम्य राघवः ।
सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ॥ 19 ॥

न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् ।
पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥ 20 ॥

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्ससुहृज्जनः ।
राजंस्तिष्ठस्व समये भर्तुर्भार्येव तद्वशः ॥ 21 ॥

न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाऽप्यपोहितुम् ।
मनो हि ते ज्ञास्यति मानुषं बलं स राघवस्यास्य सुरेन्द्रवर्चसः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्वात्रिंशस्सर्गः ॥




Browse Related Categories: