श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ एकोनषष्टितमस्सर्गः ।
ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।
निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः ॥ 1 ॥
जाम्बवान् वानरश्रेष्ठस्सह सर्वैः प्लवङ्गमैः ।
भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत् ॥ 2 ॥
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।
तदाख्यातु भवात्सर्वं गतिर्भव वनौकसाम् ॥ 3 ॥
को दाशरथि बाणानां वज्रवेगनिपातिनाम् ।
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥ 4 ॥
स हरीन्प्रीतिसंयुक्तान्सीताश्रुतिसमाहितान् ।
पुनराश्वसयन्प्रीतः इदं वचनमब्रवीत् ॥ 5 ॥
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ।
येन चापि ममाऽख्यातं यत्र वायतलोचना ॥ 6 ॥
अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते ।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ 7 ॥
तं मामेवं गतं पुत्रस्सुपार्श्वोनाम नामतः ।
आहारेण यथाकालं बिभर्ति पततां वरः ॥ 8 ॥
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः ।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥ 9 ॥
स कदाचित्क्षुधार्तस्य ममाहाराभिकाङ्क्षिणः ।
गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ 10 ॥
स मामाहारसंरोधात्पीडितं प्रीतिवर्धनः ।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ 11 ॥
अहं तात यथाकालमामिषार्थी खमाप्लुतः ।
महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमास्थितः ॥ 12 ॥
तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् ।
पन्थानमेकोऽध्यवसं सन्निरोद्धुमवाङ्मुखः ॥ 13 ॥
तत्र कश्चिन्मया दृष्ट स्सूर्योदयसमप्रभाम् ।
स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयप्रभः ॥ 14 ॥
सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः ।
तेन साम्ना विनीतेन पन्थानमभियाचितः ॥ 15 ॥
न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् ।
नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः ॥ 16 ॥
स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः ।
अथाऽहं खेचरैर्भूतैरभिगम्य सभाजितः ॥ 17 ॥
दिष्ट्या जीवति सीत इति हि अब्रुवन् मां महर्षयः ।
कथञ्चित् स कलत्रः असौ गतः ते स्वस्ति असंशयम् ॥ 18 ॥
एव मुक्तस्ततोऽहं तैस्सिद्धैः परमशोभनैः ।
स च मे रावणो राजा रक्षसां प्रतिवेदितः ॥ 19 ॥
हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् ।
भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥ 20 ॥
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् ।
एष कालात्ययस्तावदिति कालविदां वरः ॥ 21 ॥
एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।
तच्छृत्वाऽपि हि मे बुद्धिर्नासीत्काचित्पराक्रमे ॥ 22 ॥
अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे ।
यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ॥ 23 ॥
श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ।
वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः ॥ 24 ॥
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ।
ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ॥ 25 ॥
प्रेषिताः कपिराजेन देवैरपि दुरासदाः ।
रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः ॥ 26 ॥
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ।
कामं खलु दशग्रीव स्तेजोबलसमन्वितः ॥ 27 ॥
भवतां तु समर्थानां न किञ्चिदपि दुष्करम् ।
तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः ॥ 28 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकोनषष्टितमस्सर्गः ॥