View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.9 युद्धकाण्ड - नवम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ नवमस्सर्गः ।

ततोनिकुम्भोरभसस्सूर्यशत्रुर्महाबलः ।
सुप्तघ्नोयज्ञहारक्षोमहापार्श्वमहोदरौ ॥ 1 ॥

अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षसः ।
इन्द्रजिच्चमहातेजाबलवान्रावणात्मजः ॥ 2 ॥

प्रहस्तोऽथविरूपाक्षोवज्रदंष्ट्रोमहाबलः ।
धूम्राक्षश्चातिकायश्चदुर्मुखश्चैवराक्षसः ॥ 3 ॥

परिघान्पट्टिशान्प्रासान्शक्तिशूलपरश्वधान् ।
चापानिचसबाणानिखङ्गांश्चविपुलान्शितान् ॥ 4 ॥

प्रगृह्यपरमक्रुद्धास्समुत्पत्यचराक्षसाः ।
अब्रुवन्रावणंसर्वेप्रदीप्ताइवतेजसा ॥ 5 ॥

अद्यरामंवधिष्यामस्सुग्रीवंसचलक्ष्मणम् ।
कृपणञ्चहनूमन्तंलङ्कायेनप्रधर्षिता ॥ 6 ॥

तान्गृहीतायुधान् सर्वान्वारयित्वाविभीषणः ।
अब्रवीत्प्राञ्जलिर्वाक्यम्पुनःप्रत्युपवेश्यतान् ॥ 7 ॥

अप्युपायैस्त्रिभिस्तातयोऽर्थःप्राप्तुन्नशक्यते ।
तस्यविक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥ 8 ॥

प्रमत्तेष्यभियुक्तेषुदैवेनप्रहतेषुच ।
विक्रमास्तातसिध्यन्तिपरीक्ष्यविधिनाकृताः ॥ 9 ॥

अप्रमत्तङ्कथन्तन्तुविजिगीषुम्बलेस्थितम् ।
जितरोषन्दुराधर्षतम्प्रधर्षयितुमिच्छथ ॥ 10 ॥

समुद्रंलङ्घयित्वातुघोरन्नदनदीपतिम् ।
गतिंहनूमतोलोकेकोविद्यात्तर्कयेतवा ॥ 11 ॥

बलान्यपरिमेयानिवीर्याणिचनिशाचराः ।
परेषांसहसाऽवज्ञानकर्तव्याकथञ्चन ॥ 12 ॥

किञ्चराक्षसराजस्यरामेणापकृतम्पुरा ।
आजहारजनस्थानाद्यस्यभार्यांयशस्विनः ॥ 13 ॥

खरोयद्यतिवृत्तस्तुरामेणनिहतोरणे ।
अवश्यम्प्राणिनाम्प्राणारक्षितव्यायथाबलम् ॥ 14 ॥

एतन्निमित्तंवैदेहीभयन्नस्सुमहद्भवेत् ।
आहृतासापरित्याज्याकलहार्थेकृतेनकिम् ॥ 15 ॥

नतुक्षमंवीर्यवतातेनधर्मानुवर्तिना ।
वैरन्निरर्थकङ्कर्तुन्दीयतामस्यमैथिली ॥ 16 ॥

यावन्नसगजांसाश्वाम्बहुरत्नसमाकुलाम् ।
पुरीन्दारयतेबाणैर्दीयतामस्यमैथिली ॥ 17 ॥

यावत्सुघोरामहतीदुर्धर्षाहरिवाहिनी ।
नावस्कन्दतिनोलङ्कान्तावत्सीताप्रदीयताम् ॥ 18 ॥

विनश्येद्धिपुरीलङ्काशूरास्सर्वेचराक्षसाः ।
रामस्यदयितापत्नीनस्वयन्नयदिदीयते ॥ 19 ॥

प्रसादयेत्वाम्बन्धुत्वात्कुरुष्यवचनम्मम ।
हितन्तथ्यमहम्ब्रूमिदीयतामस्यमैथिली ॥ 20 ॥

पुराशरत्सूर्यमरीचिसन्निभान्नवाग्रपुङ्खान् सुदृढान्नृपात्मजः ।
सृजत्यमोघान्विशिखान्वधायतेप्रदीयतान्दशरधायमैथिली ॥ 21 ॥

त्वजस्वकोपंसुखधर्मनाशनम्भजस्वधर्मंरतिकीर्तिवर्धनम् ।
प्रसीदजीवेमसपुत्रबान्धवाःप्रदीयतान्दाशरथायमैथिली ॥ 22 ॥

विभीषणवच्शुत्वारावणोराक्षसेश्वराः ।
विसर्जयित्वातान्सर्वान्प्रविवेशस्वकङ्गृहम् ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे नवमस्सर्गः ॥




Browse Related Categories: