View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.96 युद्धकाण्ड - षण्णवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षण्णवतितमस्सर्गः ।

आर्तानांराक्षसीनान्तुलङ्कायांवैकुलेकुले ।
रावणःकरुणंशब्दंशुश्रावपरिदेवितम् ॥ 1 ॥

स तुदीर्घंविनिःश्वस्यमुहूर्तन्ध्यानमास्थितः ।
बभूवपरमक्रुद्धोरावणोभीमदर्शनः ॥ 2 ॥

सन्दश्यदशनैरोष्ठङ्क्रोधसम्रक्तलोचनः ।
राक्षसैरपिदुर्दर्शःकालाग्निरिवमूर्छितः ॥ 3 ॥

उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः ।
क्रोधाव्यक्तकथस्तत्रनिर्दहन्निवचक्षुषा ॥ 4 ॥

महोदरम्महापार्श्वंविरूपाक्षं च राक्षसम् ।
शीघ्रंवदतसैन्यानिनिर्यातेतिममाज्ञया ॥ 5 ॥

तस्यतद्वचनंश्रुत्वाराक्षसास्तेभयार्दिताः ।
चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया ॥ 6 ॥

तेतुसर्वेतथेत्युक्त्वाराक्षसाभीमदर्शनाः ।
कृतस्वस्त्वयनाःसर्वेतेरणाभिमुखाययुः ॥ 7 ॥

प्रतिपूज्ययथान्यायंरावणन्तेमहारथाः ।
तस्थुःप्राञ्जलयःसर्वेभर्तुर्विजयकाङ्क्षिणः ॥ 8 ॥

अथोवाचप्रहस्यैतान्रावणःक्रोधमूर्छितः ।
महोदरमहापार्श्वौविरूपाक्षं च राक्षसम् ॥ 9 ॥

अद्यबाणैर्धनुर्मुक्स्सैर्युगान्तादित्यसन्निभैः ।
राघवंलक्ष्मणञ्चैवनेष्यामियमसादनम् ॥ 10 ॥

खरस्यकुम्भकर्णस्यप्रहसेन्द्रजितोस्तथा ।
करिष्यामिप्रतीकारमद्यशत्रुवधादहम् ॥ 11 ॥

नैवान्तरिक्षं न दिशो न नद्यौर्नापिसागराः ।
प्रकाशत्वङ्गमिष्यन्तिमद्बाणजलदावृताः ॥ 12 ॥

अद्यवानरमुख्यानान्तानियूथानिभागशः ।
धनुषाशरजालेनवधिष्यामिपतत्रिणा ॥ 13 ॥

अद्यवानरसैन्यानिरथेनपवनौजसा ।
धनुस्समुद्रादुद्भूतैर्मथिष्यामिशरोर्मिभिः ॥ 14 ॥

व्याकोशपद्मवक्त्राणिपद्मकेसरवर्चसाम् ।
अद्ययूथतटाकानिगजवत्प्रमथाम्यहम् ॥ 15 ॥

सशरैरद्यवदनैस्सङ्ख्येवानरयूथपाः ।
मण्डयिष्यन्तिवसुधांसनालैरिवपङ्कजैः ॥ 16 ॥

अद्ययूथप्रचण्डानांहरीणान्द्रुमयोधिनाम् ।
मुक्तेनैकेषुणायुद्धेभेत्स्यामि च शतंशतम् ॥ 17 ॥

हतोभर्ताहतोभ्रातायासां च चतनयोहतः ।
वधेनाद्यरिपोस्तासाङ्करोम्यश्रुप्रमार्जनम् ॥ 18 ॥

अद्यमद्भाणनिर्भिन्नैःप्रकीर्णैर्गतचेतनैः ।
करोमिवानरैर्युद्धेयत्नावेक्ष्यतलाम्महीम् ॥ 19 ॥

अद्यगोमयवोगृध्राश्चये च मांसाशिनोऽपरे ।
सर्वांस्तांस्तर्पयिष्यामिशत्रुमांसैश्शरार्दितैः ॥ 20 ॥

कल्प्यताम्मेरथंशीघ्रङ्क्षिप्रमानीयतान्धनुः ।
अनुप्रयान्तुमांयुद्धेयेऽत्रशिष्टानिशाचराः ॥ 21 ॥

तस्यतद्वचनंश्रुत्वामहापार्श्वोऽब्रवीद्वचः ।
बलाध्यक्षान् स्थिथांस्तत्रबलंसन्त्वर्यतामिति ॥ 22 ॥

बलाध्यक्षास्तुसम्रब्दाराक्षसांस्तान् गृहेगृहे ।
चोदयन्तःपरिययुर्लङ्कांलघुपराक्रमाः ॥ 23 ॥

ततोमुहूर्तान्निष्पेतूराक्षसाभीमदर्शनाः ।
नदन्तोभीमवदनानानाप्रहरणैर्भुजैः ॥ 24 ॥

असिभिःपट्टसैः शूलैर्गदाभिर्मुसलैर्हलैः ।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥ 25 ॥

यष्टिभिर्विमलैश्चक्रैर्निशितैश्चपरश्वथैः ।
भिन्दिपालैःशतघ्नीभिरन्यैश्चापिवरायुधैः ॥ 26 ॥

अथानयद्बलाध्यक्षस्सत्वरोरावणाज्ञया ।
द्रुतंसूतसमायुक्तंयुक्ताष्टतुरगंरथम् ।
आरुरोहतदाभीमोदीप्यमानंस्वतेजसा ॥ 27 ॥

ततःप्रयातस्सहसाराक्षसैर्भहुभिर्वृतः ॥ 28 ॥

रावणःसत्त्वगाम्भीर्याद्दारयन्निवमेदिनीम् ।
रावणेनाभ्यनुज्ञातौमहापार्श्वमहोदरौ ।
विरूपाक्षश्चदुर्धर्षोरथानारुरुहुस्तदा ॥ 29 ॥

मोक्षितन् चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ।
स ददर्शान्तरन् तस्य विरूपाक्षस्य वानरः ॥ 30 ॥

ततोयुद्धायतेजस्वीरक्षोगणबलैर्वृतः ।
निर्ययावुद्यतधनुःकालान्तकयमोपमः ॥ 31 ॥

ततःप्रजविताश्वेनरथेन स महारथः ।
द्वारेणनिर्ययौतेनयत्रतौरामलक्ष्मणौ ॥ 32 ॥

ततोनष्टप्रभःसूर्योदिशश्चतिमिरावृताः ।
द्विजाश्चनेदुर्घोराश्चसञ्चचाल च मेदिनी ॥ 33 ॥

ववर्षरुधिरन्देवश्चस्खलुश्चतुरङ्गमाः ।
ध्वजाग्रेन्यपतद्गृध्रोविनेदुश्चाशिवाःशिवाः ॥ 34 ॥

नयनञ्चास्फुरद्वामंवामोबाहुरकम्पत ।
विवर्णवदनश्साकतिञ्चिदभ्रश्यतस्वनः ॥ 35 ॥

ततोनिष्पततोयुद्धेदशग्रीवस्यरक्षसः ।
रणेनिधनशंसीनिरूपाण्येतानिजज्ञिरे ॥ 36 ॥

अन्तरिक्षात्पपातोल्कानिराघतसमनिर्घास्वना ।
विनेदुरशिवागृध्रावायसैरभिमिश्रिताः ॥ 37 ॥

एतानचिन्तयन्घोरानुत्पातान्समवस्थितान् ।
निर्ययौरावणोमोहाद्वधार्थङ्कालचोदितः ॥ 38 ॥

तेषान्तुरथघोषेणराक्षसानाम्महात्मनाम् ।
वानराणामपिचमूर्युद्धायैवाभ्यवर्तत ॥ 39 ॥

तेषान्तुतुमुलंयुद्धम्बभूवकपिरक्षसाम् ।
अन्योन्यमाह्वयानानाङ्क्रुद्धानाञ्जयमिच्छताम् ॥ 40 ॥

ततःक्रुद्धोदशग्रीवश्शरैःकाञ्चनभूषणैः ।
वानराणामनीकेषुचकारकदनम्महत् ॥ 41 ॥

विकृत्तशिरसःकेचिद्रावणेनवलीमुखाः ।
केचिद्विच्छिन्नहृदयाःकेचिच्छ्रोत्रविवर्जिताः ॥ 42 ॥

निरुच्छवासाहताःकेचित्केचित्पार्श्वेषुदारिताः ।
केचिद्विभिन्नशिरसःकेचिच्चक्षुर्विनाकृताः ॥ 43 ॥

दशाननःक्रोधविवृत्तनेत्रोयतोयतोऽभ्येतिरथेवसङ्ख्ये ।
ततस्ततस्तस्यशरप्रवेगंसोढुं न शेकुर्हरियूथपास्ते ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षण्णवतितमस्सर्गः ॥




Browse Related Categories: