श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ प्रथमस्सर्गः ।
स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।
रामस्सौमित्रि सहितो विललापाकुलेन्द्रियः ॥ 1 ॥
तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे ।
स कामवशमापन्नस्सौमित्रिमिदमब्रवीत् ॥ 2 ॥
सौमित्रे शोभते पम्पा वैदूर्यविमलोदका ।
फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः ॥ 3 ॥
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् ।
यत्र राजन्ति शैला वा द्रुमास्सशिखरा इव ॥ 4 ॥
मां तु शोकाभिसन्तप्तं माधवः पीडयन्ति वै ।
भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ 5 ॥
शोकार्तस्यापि मे पम्पा शोभते चित्रकानना ।
व्यवकीर्णा बहुविधैः पुष्पैश्शीतोदका शिवा ॥ 6 ॥
नलिनैरपि सञ्छन्ना ह्यत्यर्थशुभदर्शना ।
सर्पव्यालानुचरिता मृगद्विजसमाकुला ॥ 7 ॥
अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् ।
द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥ 8 ॥
पुष्पभारसमृद्धानि शिखराणि समन्ततः ।
लताभिः पुष्पिताग्राभिरुपगूढानि सर्वशः ॥ 9 ॥
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः ।
गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः ॥ 10 ॥
पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ।
सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ॥ 11 ॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥ 12 ॥
पतितैः पतमानैश्च पादपस्थैश्च मारुतः ।
कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः ॥ 13 ॥
विक्षिपन्विविधाश्शाखा नगानां कुसुमोत्कचाः ।
मारुतश्चलितस्थानैष्षट्पदैरनुगीयते ॥ 14 ॥
मत्तकोकिलसन्नादैर्नर्तयन्निव पादपान् ।
शैलकन्दरनिष्क्रान्तः प्रगीत इव चानिलः ॥ 15 ॥
तेन विक्षिपताऽत्यर्थं पवनेन समन्ततः ।
अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ॥ 16 ॥
स एष सुखसंस्पर्शो वाति चन्दनशीतलः ।
गन्धमभ्यवहन्पुण्यं श्रमापनयनोऽनिलः ॥ 17 ॥
अमी पवनविक्षिप्ता विनदन्तीव पादपाः ।
षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु ॥ 18 ॥
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः ।
संसक्तशिखराश्शैला विराजन्ते महाद्रुमैः ॥ 19 ॥
पुष्पसञ्छन्नशिखरा मारुतोत्क्षेपचञ्चलाः ।
अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ 20 ॥
सुपुष्पितांस्तु पश्येमान्कर्णिकारान्त्समन्ततः ।
हाटकप्रतिसञ्छन्नान्नरान्पीताम्बरानिव ॥ 21 ॥
अयं वसन्तस्सौमित्रे नानाविहगनादितः ।
सीतया विप्रहीनस्य शोकसन्दीपनो मम ॥ 22 ॥
मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः ।
हृष्टः प्रवदमानश्च ममाह्वयति कोकिलः ॥ 23 ॥
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे ।
प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ 24 ॥
श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया ।
मामाहूय प्रमुदिताः परमं प्रत्यनन्दत ॥ 25 ॥
एवं विचित्राः पतगा नानारावविराविणः ।
वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः ॥ 26 ॥
विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः ।
भृङ्गराजप्रमुदितास्सौमित्रे मधुरस्वनाः ॥ 27 ॥
दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि ।
स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपनाः ॥ 28 ॥
अशोकस्तबकाङ्गारष्षट्पदस्वननिःस्वनः ।
मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति ॥ 29 ॥
न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् ।
अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् ॥ 30 ॥
अयं हि दयितस्तस्याः कालो रुचिरकाननः ।
कोकिलाकुलसीमान्तो दयिताया ममानघ ॥ 31 ॥
मन्मथाऽयाससम्भूतो वसन्तगुणवर्धितः ।
अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव ॥ 32 ॥
अपश्यतस्तां दयितां पश्यतो रुचिरद्रुमान् ।
ममायमात्मप्रभवो भूयस्त्वमुपयास्यति ॥ 33 ॥
अदृश्यमाना वैदेही शोकं वर्धयते मम ।
दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः ॥ 34 ॥
मां ह्यद्य मृगशाबाक्षी चिन्ताशोकबलात्कृतम् ।
सन्तापयति सौमित्रे क्रूरश्चैत्रवनानिलः ॥ 35 ॥
अमी मयूराश्शोभन्ते प्रनृत्यन्तस्ततस्ततः ।
स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव ॥ 36 ॥
शिखिनीभिः परिवृतास्ते एते मदमूर्छिताः ।
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ॥ 37 ॥
पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ।
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि ॥ 38 ॥
तामेव मन्मथाविष्टो मयूरोऽप्युपधावति ।
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव ॥ 39 ॥
मयूरस्य वने नूनं रक्षसा न हृता प्रिया ।
तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया ॥ 40 ॥
मम त्वयं विना वासः पुष्पमासे सुदुस्सहः ।
पश्य लक्ष्मण संरागः तिर्यग्योनिगतेष्वपि ।
यदेषा शिखिनी कामाद्भर्तारं रमतेऽन्तिके ॥ 41 ॥
मामप्येवं विशालाक्षी जानकी जातसम्भ्रमा ।
मदनेनाभिवर्तेत यदि नाऽपहृता भवेत् ॥ 42 ॥
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ।
पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ 43 ॥
रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया ।
निष्फलानि महीं यान्ति समं मधुकरोत्करैः ॥ 44 ॥
नदन्ति कामं शकुना मुदितास्सङ्घशः कलम् ।
आह्वयन्त इवान्योन्यं कामोन्मादकरा मम ॥ 45 ॥
वसन्तो यदि तत्रापि यत्र मे वसति प्रिया ।
नूनं परवशा सीता सापि शोचत्यहं यथा ॥ 46 ॥
नूनं न तु वसन्तोऽतं देशं स्पृशति यत्र सा ।
कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ॥ 47 ॥
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया ।
किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः ॥ 48 ॥
श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिभाषिणी ।
नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम् ॥ 49 ॥
दृढं हि हृदये बुद्धिर्मम सम्परिवर्तते ।
नालं वर्तयितुं सीता साध्वी मद्विरहं गता ॥ 50 ॥
मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः ।
ममापि भावस्सीतायां सर्वथा विनिवेशितः ॥ 51 ॥
एष पुष्पवहो वायुस्सुखस्पर्शो हिमावहः ।
तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ 52 ॥
सदा सुखमहं मन्ये यं पुरा सह सीतया ।
मारुतस्स विना सीतां शोकं वर्धयते मम ॥ 53 ॥
तां विना विहङ्गो यः पक्षी प्रणदितस्तदा ।
वायसः पादपगतः प्रहृष्टमभिनर्दति ॥ 54 ॥
एष वै तत्र वैदेह्या विहगः प्रतिहारकः ।
पक्षी मां तु विशालाक्ष्यास्समीपमुपनेष्यति ॥ 55 ॥
शृणु लक्ष्मण सन्नादं वने मद्विवर्धनम् ।
पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ॥ 56 ॥
विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् ।
षट्पदस्सहसाऽभ्येति मदोद्धूतामिव प्रियाम् ॥ 57 ॥
कामिनामयमत्यन्तमशोकश्शोकवर्धनः ।
स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः ॥ 58 ॥
अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः ।
विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव ॥ 59 ॥
सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु ।
किन्नरा नरशार्दूल विचरन्ति ततस्ततः ॥ 60 ॥
इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः ।
नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ 61 ॥
एषा प्रसन्नसलिला पद्मनीलोत्पलायुता ।
हंसकारण्डवाकीर्णा पम्पा सौगन्धिकान्विता ॥ 62 ॥
जले तरुणसूर्याभैष्षट्पदाहतकेसरैः ।
पङ्कजैश्शोभते पम्पा समन्तादभिसंवृता ॥ 63 ॥
चक्रवाकयुता नित्यं चित्रप्रस्तवनान्तरा ।
मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥ 64 ॥
पवनाहतवेगाभिरूर्मिभिर्विमलेऽम्भसि ।
पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥ 65 ॥
पद्मपत्रविशालाक्षीं सततं पङ्कजप्रियाम् ।
अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ॥ 66 ॥
अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् ।
स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥ 67 ॥
शक्यो धारयितुं कामो भवेदभ्यागतो मया ।
यदि भूयो वसन्तो मां न हन्यात्पुष्पितद्रुमः ॥ 68 ॥
यानि स्म रमणीयानि तया सह भवन्ति मे ।
तान्येवारमणीयानि जायन्ते मे तया विना ॥ 69 ॥
पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते ।
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ 70 ॥
पद्मकेसरसंसृष्टो वृक्षान्तरविनिस्सृतः ।
निश्श्वास इव सीताया वाति वायुर्मनोहरः ॥ 71 ॥
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि ।
पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ॥ 72 ॥
अधिकं शैलराजोऽयं धातुभिः सुविभूषितः ।
विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥ 73 ॥
गिरिप्रस्थास्तु सौमित्रे सर्वतस्सम्प्रपुष्पितैः ।
निष्पत्रैस्सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥ 74 ॥
पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः ।
मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः ॥ 75 ॥
केतक्यस्सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः ।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥ 76 ॥
चिरिबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा ।
चम्पकास्तिलकाश्चैव नागवृक्षास्सुपुष्पिताः ॥ 77 ॥
नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिता ।
पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः ।
लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः ॥ 78 ॥
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः ।
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ॥ 79 ॥
मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु ।
केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः ॥ 80 ॥
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा ॥ 81 ॥
त्रिनिशा नक्तमालाश्च चन्दनास्स्यन्दनास्तथा ।
पुष्पितान्पुष्पिताग्राभिर्लताभिः परिवेष्टितान् ।
द्रुमान्पश्येह सौमित्रे पम्पाया रुचिरान्बहून् ॥ 82 ॥
वातविक्षिप्तविटपान्यथाऽसन्नान्द्रुमानिमान् ।
लतास्समनुवर्तन्ते मत्ता इव वरस्त्रियः ॥ 83 ॥
पादपात्पादपं गच्छन् शैलाच्छैलं वनाद्वनम् ।
वाति नैकरसास्वादस्सम्मोदित इवानिलः ॥ 84 ॥
केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः ।
केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः ॥ 85 ॥
इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि ।
रागयुक्तो मधुकरः कुसुमेष्वेव लीयते ॥ 86 ॥
निलीय पुनरुत्पत्य सहसाऽन्यत्र गच्छति ।
मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ ॥ 87 ॥
इयं कुसुमसङ्घातैरुपस्तीर्णा सुखाकृता ।
स्वयं निपतितैर्भूमिश्शयनप्रस्तरैरिव ॥ 88 ॥
विविधा विविधैः पुष्पैस्तैरेव नगसानुषु ।
विकीर्णै पीतरक्ताहि सौमित्रे प्रस्तराः कृताः ॥ 89 ॥
हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् ।
पुष्पमासे हि तरवस्सङ्घर्षादिव पुष्पिताः ॥ 90 ॥
आह्वयन्त इवान्योन्यं नगाष्षट्पदनादिताः ।
कुसुमोत्तंसविटपाश्शोभन्ते बहु लक्ष्मण ॥ 91 ॥
एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् ।
रमते कान्तया सार्धं काममुद्दीपयन्मम ॥ 92 ॥
मन्दाकिन्यास्तु यदिदं रूपमेवं मनोहरम् ।
स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥ 93 ॥
यदि दृश्येत सा साध्वी यदि चेह वसेमहि ।
स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ॥ 94 ॥
नह्येवं रमणीयेषु शाद्वलेषु तया सह ।
रमतो मे भवेच्चिन्ता न स्पृहाऽन्येषु वा भवेत् ॥ 95 ॥
अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः ।
काननेऽऽस्मिन्विना कान्तां चिन्तामुत्पादयन्ति मे ॥ 96 ॥
पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् ।
चक्रवाकानुचरितां कारण्डव निषेविताम् ॥ 97 ॥
प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम् ।
अधिकं शोभते पम्पा विकूजद्भिःर्विहङ्गमैः ॥ 98 ॥
दीपयन्तीव मे कामं विविधा मुदिता द्विजाः ।
श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ 99 ॥
पश्य सानुषु चित्रेषु मृगीभिस्सहितान्मृगान् ।
मां पुनर्मृगशाबाक्ष्या वैदेह्या विरहीकृतम् ॥ 100 ॥
व्यथयन्तीव मे चित्तं सञ्चरन्तस्ततस्ततः ।
अस्मिन्सानुनि रम्ये हि मत्तद्विजगणायुते ।
पश्येयं यदि तां कान्तां ततस्स्वस्ति भवेन्मम ॥ 101 ॥
जीवेयं खलु सौमित्रे मया सह सुमध्यमा ।
सेवते यदि वैदेही पम्पायाः पवनं सुखम् ॥ 102 ॥
पद्मसौगन्धिकवहं शिवं शोकविनाशनम् ।
धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम् ॥ 103 ॥
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया ।
कथं धारयति प्राणान्विवशा जनकात्मजा ॥ 104 ॥
किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् ।
सीताया जनकं पृष्टः कुशलं जनसंसदि ॥ 105 ॥
या मामनुगता मन्दं पित्रा प्रव्राजितं वनम् ।
सीता सत्पथमास्थाय क्व नु सा वर्तते प्रिया ॥ 106 ॥
तया विहीनः कृपणः कथं लक्ष्मण धारये ।
या मामनुगता राज्याद्भ्रष्टं विगतचेतसम् ॥ 107 ॥
तच्चार्वञ्चितपद्माक्षं सुगन्धि शुभमव्रणम् ।
अपश्यतो मुखं तस्यास्सीदतीव मनो मम ॥ 108 ॥
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् ।
वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ॥ 109 ॥
प्राप्य दुखं वने श्यामा मां मन्मथविकर्शितम् ।
नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत ॥ 110 ॥
किं नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज ।
क्व सा स्नुषेति पृच्छन्तीं कथं चापि तु मनस्विनीम् ॥ 111 ॥
गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम् ।
न ह्यहं जीवितु शक्तस्तामृते जनकात्मजाम् ॥ 112 ॥
इति रामं महात्मानं विलपन्तमनाथवत् ।
उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ॥ 113 ॥
संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम ।
नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥ 114 ॥
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने ।
अतिस्नेहपरिष्वङ्गाद्वर्तिरार्द्रापि दह्यते ॥ 115 ॥
यदि गच्छति पातालं ततोऽभ्यधिकमेव वा ।
सर्वथा रावणस्तावन्न भविष्यति राघव ॥ 116 ॥
प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः ।
ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥ 117 ॥
यदि यातिदितेर्गर्भं रावणस्सह सीतया ।
तत्राप्येनं हनिष्यामि न चेद्दास्यति मैथिलीम् ॥ 118 ॥
स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः ।
अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते ॥ 119 ॥
उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ।
सोत्साहस्यास्ति लोकेऽस्मिन् न किञ्चिदपि दुर्लभम् ॥ 120 ॥
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ।
उत्साहमात्रमाश्रित्य सीतां प्रतिलभेमहि ॥ 121 ॥
त्यज्यतां कामवृत्तत्वं शोकं सन्न्यस्य पृष्ठतः ।
महात्मानं कृतात्मानमात्मानं नावबुध्यसे ॥ 122 ॥
एवं सम्बोधितस्तत्र शोकोपहतचेतनः ।
त्यज्य शोकञ्च मोहञ्च ततो धैर्यमुपागमत् ॥ 123 ॥
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः ।
रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम् ॥ 124 ॥
निरीक्षमाणस्सहसा महात्मा सर्वं वनं निर्झरकन्दराश्च ।
उद्विग्नचेतास्सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ 125 ॥
तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा ।
स लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव ॥ 126 ॥
तावृष्यमूकस्य समीपचारी चरन्ददर्शाद्भुतदर्शनीयौ ।
शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित् ॥ 127 ॥
स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरञ्चरन्तौ ।
दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः ॥ 128 ॥
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् ।
त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ ॥ 129 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे प्रथमस्सर्गः ॥