श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ त्रयोदशस्सर्गः ।
राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण ।
अभिवादयितुं यन्मां प्राप्तौ स्थ स्सह सीतया ॥ 1 ॥
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः ।
व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा ॥ 2 ॥
एषा हि सुकुमारी च दुःखैश्च न विमानिता ।
प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥ 3 ॥
यथैषा रमते राम इह सीता तथा कुरु ।
दुष्करं कृतवत्येषा वने त्वामनुगच्छती ॥ 4 ॥
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ।
समस्थमनुरज्यान्ति विषमस्थं त्यजन्ति च ॥ 5 ॥
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
गरूडानिलयोश्शैघ्र्यमनुगच्छन्ति योषितः ॥ 6 ॥
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता ।
श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥ 7 ॥
अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह ।
वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ॥ 8 ॥
एवमुक्तस्समुनिना राघवस्संयताञ्जलिः ।
उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ 9 ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः ।
गुणैस्सभ्रातृभार्यस्य वरदः परितुष्यति ॥ 10 ॥
किन्तु व्यादिश मे देशं सोदकं बहुकाननम् ।
यत्राश्रमपदं कृत्वा वसेयं निरतस्सुखम् ॥ 11 ॥
ततोऽब्रवीन्मुनिश्रेष्ठश्श्रुत्वा रामस्य तद्वचः ।
ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ॥ 12 ॥
इतो द्वियोजने तात बहुमूलफलोदकः ।
देशो बहुमृगश्श्रीमान्पञ्चवट्यभिविश्रुतः ॥ 13 ॥
तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह ।
रमस्व त्वं पितुर्वाक्यं तथोक्तमनुपालयन् ॥ 14 ॥
कालोऽयं गतभूयिष्ठो यः काल स्तव राघव ।
समयो यो नरेन्द्रेण कृतो दशरथेन ते ॥ 15 ॥
तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि ।
धन्यस्ते जनको राम स राजा रघुनन्दन ॥ 16 ॥
यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ।
विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ ॥ 17 ॥
तपसश्च प्रभावेण स्नेहाद्दशरथस्य च ।
हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया ॥ 18 ॥
इहावासं प्रतिज्ञाय मया सह तपोवने ।
अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ॥ 19 ॥
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ।
स देशश्श्लाघनीयश्च नातिदूरे च राघव ॥ 20 ॥
गोदावर्यास्समीपे च मैथिली तत्र रंस्यते ।
प्राज्यमूलफलश्चैव नानाद्विजगणायुतः ॥ 21 ॥
विविक्तश्च महाबाहो पुण्योरम्यस्तथैव च ।
भवानपि सदारश्च शक्तश्च परिरक्षणे ।
अपि चात्र वसन्राम तापसान्पालयिष्यसि ॥ 22 ॥
एतदालक्ष्यते वीर मधूकानां महद्वनम् ।
उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ॥ 23 ॥
ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ।
ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ 24 ॥
अगस्त्येनैवमुक्तस्तु रामस्सौमित्रिणा सह ।
सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् ॥ 25 ॥
तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ।
तदाश्रमात्पञ्चवटीं जग्मतुस्सीतया सह ॥ 26 ॥
गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ ।
यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ॥ 27 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे त्रयोदशस्सर्गः ॥