View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.49 अयोध्याकाण्ड - एकोनपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकोनपञ्चाशस्सर्गः ।

रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् ।
जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ 1 ॥

तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा ।
उपास्य शिवां सन्ध्यां विषयान्तं व्यगाहत ॥ 2 ॥

ग्रामान् विकृष्टसीमान्तान् पुष्पितानि वनानि च ।
पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः ॥ 3 ॥

शृण्वन् वचो मनुष्याणां ग्रामसंवासवासिनाम् ।
राजानं धिग्दशरथं कामस्य वशमागतम् ॥ 4 ॥

हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी ।
तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्तते ॥ 5 ॥

या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् ।
वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ॥ 6 ॥

कथं नाम महाभागा सीता जनकनन्दिनी ।
सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ 7 ॥

अहो दशरथो राजा निस्नेहः स्वसुतं प्रियम् ।
प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ 8 ॥

एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।
शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः ॥ 9 ॥

ततो वेदश्रुतिं नाम शिववारिवहां नदीम् ।
उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ 10 ॥

गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् ।
गोमतीं गोयुतानूपामतरत्सागरङ्गमाम् ॥ 11 ॥

गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः ।
मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥ 12 ॥

स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा ।
स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ॥ 13 ॥

कदाऽहं पुनरागम्य सरय्वा पुष्पिते वने ।
मृगयां पर्यटिष्यामि मात्रा पित्रा च सङ्गतः ॥ 14 ॥

नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने ।
रतिर्ह्येषातुला लोके राजर्षिगणसम्मता ॥ 15 ॥

राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने ।
काले कृतां तां मनुजैर्घन्विनामभिकाङ्क्षिताम् ॥ 16 ॥

स तमध्वानमैक्ष्वाकस्सूतं मधुरया गिरा ।
तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ 17 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकोनपञ्चाशस्सर्गः ॥




Browse Related Categories: