श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ द्विषष्टितमस्सर्गः ।
एवं तु क्रुद्धया राजा राममात्रा सशोकया ।
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ 1 ॥
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।
अथ दीर्घीण कालेन सञ्ज्ञामाप परन्तपः ॥ 2 ॥
स सञ्ज्ञामुपलभ्यैव दीर्घमुष्णं च निश्श्वसन् ।
कौसल्यां पार्श्वतो दृष्ट्वा पुन श्चिन्तामुपागमत् ॥ 3 ॥
तस्य चिन्तयमानस्य प्रत्याभात्कर्म दुष्कृतम् ।
यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ॥ 4 ॥
अमनास्तेन शोकेन रामशोकेन च प्रभुः ।
द्वाभ्यामपि महाराज श्शोकाभ्यामन्वतप्यत ॥ 5 ॥
दह्यामान स्सशोकाभ्यां कौसल्यामाह भूपतिः ।
वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ 6 ॥
प्रसादये त्वां कौसल्ये रचितोऽयं मयाऽञ्जलिः ।
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ 7 ॥
भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा ।
धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥ 8 ॥
सा त्वं धर्मपरा नित्यं दृष्टलोक परावरा ।
नार्हसे विप्रियं वक्तुं दुखिःताऽपि सुदुःखितम् ॥ 9 ॥
तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ॥ 10 ॥
सा मूर्ध्निबध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् ।
सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ 11 ॥
प्रसीद शिरसा याचे भूमौ निपतितास्मि ते ।
याचितास्मि हता देव क्षन्तव्याऽहं न हि त्वया ॥ 12 ॥
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
उभयोर्लोकयोर्वीर पत्या या सम्साद्यते ॥ 13 ॥
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् ।
पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ 14 ॥
शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥ 15 ॥
शक्य आपतित स्सोढुं प्रहारो रिपुहस्ततः ।
सोढुम्मापतितश्शोकस्सुसूक्ष्मोऽपि न शक्यते ॥ 16 ॥
धर्मज्ञा श्श्रुतिमन्तोऽपि छिन्नधर्मार्थसंशयाः ।
यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥ 17 ॥
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते ।
य श्शोकहतहर्षायाः पञ्चवर्षोपमो मम ॥ 18 ॥
तं हि चिन्तयमानाया श्शोकोऽयं हृदि वर्धते ।
नदीनामिव वेगेन समुद्रसलिलं महत् ॥ 19 ॥
एवं हि कथयन्त्यास्तु कौसल्यायाश्शुभं वचः ।
मन्दरश्मिरभूत्सूर्यो रजनी चाभ्यवर्तत ॥ 20 ॥
तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृपः ।
शोकेन च समाक्रान्तो निद्राया वशन्तोमेयिवान् ॥ 21 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे द्विषष्टितमस्सर्गः ॥