View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.5 सुन्दरकाण्ड - पञ्चम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ पञ्चमस्सर्गः ।

ततः स मध्यङ्गतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम् ।
ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ 1 ॥

लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् ।
भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ॥ 2 ॥

या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेषु च सागरस्था ।
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ 3 ॥

हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः ।
वीरो यथा गर्वितकुञ्जरस्थ चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥ 4 ॥

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः ।
हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः ॥ 5 ॥

विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः ।
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्कः रराज चन्द्रो भगवान् शशाङ्कः ॥ 6 ॥

शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः ।
राज्यं समासाद्य यथा नरेन्द्र स्तथाप्रकाशो विरराज चन्द्रः ॥ 7 ॥

प्रकाशचन्द्रोदयनष्टदोषः प्रवृत्तरक्षः पिशिताशदोषः ।
रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥ 8 ॥

तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।
नक्तञ्चराश्चापि तथा प्रवृत्ताः विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ 9 ॥

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि ।
वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि ॥ 10 ॥

परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिकं क्षिपन्ति ।
मत्तप्रलापानधिकं क्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ 11 ॥

रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति ।
रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ 12 ॥

ददर्श कान्ताश्च समालभन्त्य स्तथा परास्तत्र पुनः स्वपन्त्यः ।
सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्य ॥ 13 ॥

महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः ।
रराज वीरैश्च विनिःश्वसद्भिः ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥ 14 ॥

बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान् ।
नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान् ॥ 15 ॥

ननन्द दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान्स तदानुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान् ॥ 16 ॥

ततो वरार्हाः सुविशुद्धभावा स्तेषां स्त्रियस्तत्र महानुभावाः ।
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः ॥ 17 ॥

श्रिया ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः ।
ददर्श काश्चित्प्रमदोपगूढा यथा विहङ्गाः कुसुमोपगूढाः ॥ 18 ॥

अन्याः पुनर्हर्म्यतलोपविष्टा स्तत्र प्रियाङ्केषु सुखोपविष्टाः ।
भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मदनाभिविष्टाः ॥ 19 ॥

अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्थ्यास्तपनीयवर्णाः ।
पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ 20 ॥

ततः प्रियान् प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्यरामाः ।
गृहेषु हृष्टाः परमाभिरामाः हरिप्रवीरः स ददर्श रामाः ॥ 21 ॥

चन्द्रप्रकाशाश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।
विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥ 22 ॥

न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् ।
लतां प्रपुल्लामिव साधु जातां ददर्श तन्वीं मनसाभिजाताम् ॥ 23 ॥

सनातने वर्त्मनि सन्निविष्टां रामेक्षणां तां मदनाभिविष्टाम् ।
भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ 24 ॥

उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम् ।
सुजातपक्ष्मामभिरक्तकण्ठीं वनेऽप्रवृत्तामिव नीलकण्ठीम् ॥ 25 ॥

अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् ।
क्षतप्ररूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम् ॥ 26 ॥

सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य ।
बभूव दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चमस्सर्गः ॥




Browse Related Categories: