श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षड्विंशत्यधिकशततमस्सर्गः ।
अनुज्ञातन्तुरामेणतद्विमानमनुत्तमम् ।
हंसयुक्तम्महानादमुत्पपातविहायसम् ॥ 1 ॥
पातयित्वाततश्चक्षुस्सर्वतोरघुनन्दनः ।
अब्रवीन्मैथिलींसीतांरामश्शशिनिभाननाम् ॥ 2 ॥
कैलासशिखराकारेत्रिकूटशिखरेस्थिताम् ।
लङ्कामीक्षस्ववैदेहीनिर्मितांविश्वकर्मणा ॥ 3 ॥
एतदायोधनम्पश्यमांसशोणितकर्दमम् ।
हरीणांराक्षसानां च सीते विशसनम्महत् ॥ 4 ॥
अत्रदत्तवरश्शेतेप्रमाथीराक्षसेश्वरः ।
तवहेतोर्विशालाक्षीनिहतोरावणोमया ॥ 5 ॥
कुम्भकर्णोऽऽत्रनिहतःप्रहस्तश्चनिशाचरः ।
धूम्राक्षश्चात्रनिहतोवानरेणहनूमता ॥ 6 ॥
विद्युन्मालीहतश्चात्रसुषेणेनमहात्मना ।
लक्ष्मणेनेन्द्राजिच्चात्ररावणिर्निहितोरणे ॥ 7 ॥
अङ्गदेनात्रनिहतोविकटोनामराक्षसः ।
विरूपाक्षश्चदुर्धर्षोमहापार्श्वमहोदरौ ॥ 8 ॥
अकम्पनश्चनिहतोबलिनोऽऽन्ये च राक्षसाः ।
त्रिशिराश्चातिकायश्चदेवान्तकनरान्तकौ ॥ 9 ॥
युद्धोन्मत्तश्चमत्तश्चराक्षसप्रवरावुभौ ।
निकुम्भश्चैवकुम्भश्चकुम्भकर्णात्मजौबली ॥ 10 ॥
वज्रदंष्ट्रश्चदंष्ट्रश्चबहवोराक्षसाहताः ।
मकराक्षश्चदुर्धर्षोमयायुधिनिपातितः ॥ 11 ॥
अकम्पनश्चनिहतःशोणिताक्षश्चवीर्यवान् ।
यूपाक्षश्चप्रजङ्घश्चनिहतौतुमहाहवे ॥ 12 ॥
विद्युज्जिह्वोऽऽत्रनिहतोराक्षसोभीमदर्शनः ।
यज्ञशत्रुश्चनिहतःसुप्तघ्नश्चमहाबलः ॥ 13 ॥
सूर्यशत्रुश्चनिहतोब्रह्मशत्रुस्तथापरः ।
अत्रमन्दोदरीनामभार्यातम्पर्यदेवयत् ॥ 14 ॥
सपत्नीनांसहस्रेणसाग्रेणपरिवारिता ।
तत्तुदृश्यतेतीर्थंसमुद्रस्यवरानने ॥ 15 ॥
यत्रसागरमुत्तीर्यतांरात्रिमुषितावयम् ।
एषसेतुर्मयाबद्धस्सागरेसलिलार्णवे ॥ 16 ॥
तवहेतोर्विशालाक्षिनलसेतुःसुदुष्करः ।
पश्यसागरमक्षोभ्यंवैदेहिवरुणालयम् ॥ 17 ॥
अपारमभिगर्जन्तंशङ्खशुक्तिसमाकुलम् ।
हिरण्यनाभंशैलेन्द्रङ्काञ्चनम्पश्यमैथिलि ॥ 18 ॥
विश्रमार्थंहनुमतोभित्त्वासागरमुत्थितम् ।
एततत्कुक्षौसमुद्रस्यस्कन्धावारनिवेशनम् ॥ 19 ॥
अत्रपूर्वम्महादेवःप्रसादमकरोत्प्रभुः ।
एतत्तुदृश्यतेतीर्थंसागरस्यमहात्मनः ॥ 20 ॥
दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तम् ।
ततस्तेनार्दिता बाला रावणं समुपागता ॥ 21 ॥
अत्रराक्षसराजोऽऽयमाजगामविभीषणः ।
एषासादृश्यतेसीतेकिष्किन्धाचित्रकानना ॥ 22 ॥
सुग्रीवस्यपुरीरम्यायत्रवालीमयाहतः ।
अथदृष्टवापुरींसीताकिष्किन्धांवालिपालिताम् ॥ 23 ॥
अब्रवीत्पश्रितंवाक्यंरामम्प्रणतसाध्वसा ।
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतोनृप ॥ 24 ॥
अन्येषांवानरेन्द्राणांस्त्रीभिःपरिवृताह्यहम् ।
गन्तुमिच्छेसहायोध्यांराजधानीन्त्वयासह ॥ 25 ॥
एवमुक्तोऽऽथवैदेह्याराघवःप्रत्युवाचताम् ।
एवमस्त्वितिकिष्किन्धाम्प्राप्यसंस्थाप्यराघवः ॥ 26 ॥
विमानम्प्रेक्ष्यसुग्रीवंवाक्यमेतदुवाच ह ।
ब्रूहिवानरशूर्दूल सर्वान्वानरपुङ्गवान् ॥ 27 ॥
सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः ।
ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ॥ 28 ॥
अभित्वरस्वसुग्रीव गच्छामःप्लवगाधिप ।
एवमुक्तस्तुसुग्रीवोरामेणामिततेजसा ॥ 29 ॥
वानराधिपतिश्रीमांस्स्सैश्चसर्वैस्समावृतः ।
प्रविश्यान्तःपुरंशीघ्रन्तारामुवदीक्ष्यसोऽऽब्रवीत् ॥ 30 ॥
प्रिये त्वंसहनाराभिर्वानराणाम्महात्मनाम् ।
राघवेणाभ्यनुज्ञातामैथिलीप्रियकाम्यया ॥ 31 ॥
त्वरत्वमभिगच्छामोगृह्यवानरयोषितः ।
अयोध्यान्दर्शयिष्यामःसर्वादशरथस्त्रियः ॥ 32 ॥
सुग्रीवस्य व चःश्रुत्वातारासर्वाङ्गशोभना ।
आहूयचाब्रवीत्सर्वावानराणान्तुयोषितः ॥ 33 ॥
सुग्रीवेणाभ्यनुज्ञातागन्तुंसर्वैश्चवानरैः ।
ममचापिप्रियङ्कार्यमयोध्यादर्वनेन च ॥ 34 ॥
प्रवेशञ्चैवरामस्यपौरजानपदैस्सह ।
विभूतिञ्चैवसर्वासांस्त्रीणान्दशरथस्य च ॥ 35 ॥
तारयाचाभ्यनुज्ञातास्सर्वावानरयोषितः ।
नेपथ्यविधिपूर्वन्तुकृत्वाचापिप्रदक्षिणम् ॥ 36 ॥
अध्यारोहन्विमानन्तत्सीतादर्शनकाङ्क्षया ।
ताभिःसहोत्थितंशीघ्रंविमानम्प्रेक्ष्यराघवः ॥ 37 ॥
ऋष्यमूकसमीपेतुवैदेहीम्पुनरब्रवीत् ।
दृश्यतेऽऽसौमहान्सीते सविद्युदिवतोयदः ॥ 38 ॥
ऋष्यमूकोगिरिवरःकाञ्चनैर्धातुभिर्वृतः ।
त्राहंवानरेन्द्रेणसुग्रीवेणसमागतः ॥ 39 ॥
समयश्चकृतःसीतेवधार्थंवालिनोमया ।
एषासादृश्यतेपम्पानलिनीचित्रकानना ॥ 40 ॥
त्वयाविहीनोयत्राहंविललापसुदुःखितः ।
अस्यास्तीरेमयादृष्टाशबरीधर्मचारिणी ॥ 41 ॥
अत्रयोजनबाहुश्चकबन्धोनिहतोमया ।
दृश्यतेऽऽसौजनस्थानेश्रीमान्सीते वनस्पतिः ॥ 42 ॥
जटायुश्चमहातेजास्तवहेतोर्विलासिनि ।
रावणेनहतोयत्रपक्षिणाम्प्रवरोबली ॥ 43 ॥
खरश्चनिहतोयत्रदूषणश्चनिपातितः ।
त्रिशिराश्चमहावीर्योमयाबाणैरजिह्मगैः ॥ 44 ॥
एतत्तदाश्रममदमस्माकंवरवर्णिनि ।
पर्णशालातथाचित्रादृश्यतेशुभदर्शने ॥ 45 ॥
यत्रत्वंराक्षसेन्द्रेणरावणेनहृताबलात् ।
एषागोदावरीरम्याप्रसन्नसलिलाशुभा ॥ 46 ॥
अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः ।
दीप्तशैवाश्रमोह्येषसुतीक्षणस्यमहात्मनः ॥ 47 ॥
वैदेहिदृश्यतेचैवशरभङ्गाश्रमोमहान् ।
उपयातःसहस्राक्षोयत्रशक्रःपुरन्दरः ॥ 48 ॥
एतेहितापसावासादृश्यन्तेतनुमध्यमे ।
अत्रिःकुलपतिर्यत्रसूर्यवैश्वानरोपमः ॥ 49 ॥
अस्मिन् देशेमहाकायोविराधोनिहतोमया ।
अत्रसीते त्वयादृष्टवातापसीधर्मचारिणी ॥ 50 ॥
असौसुतनुशैलेन्द्रत्रकूटःप्रकाशते ।
अत्रमाङ्कैकयीपुत्रप्रसादयितुमागतः ॥ 51 ॥
एषासायमुनारम्यादृश्यतेचित्रकानना ।
भरद्वाजाश्रमःश्रीमान्दृश्यतेचैषमैथिलि ॥ 52 ॥
इयं च दृश्यतेगङ्गापुण्यात्रिपथगानदी ।
नानाद्विजगणाकीर्णासम्प्रपुष्पितकानना ॥ 53 ॥
शृङ्गिबेरपुरञ्चैतद्गुहोयत्रसखामम ।
एषासादृश्यतेसीतेसरयूर्यूपमालिनी ॥ 54 ॥
नानातरुशताकीर्णासम्प्रपुष्पितकानना ।
एषासादृश्यतेसीतेराजधानीपितुर्मम ॥ 55 ॥
अयोध्याङ्कुरुवैदेहिप्रणामम्पुनरागता ।
ततस्तेवानरास्सर्वेराक्षसास्सविभीषणाः ॥ 56 ॥
उत्पत्योत्पत्यसम्हृष्टास्ताम्पुरीन्ददृशुस्तदा ।
ततस्तुताम्पाण्डुरहर्म्यमालिनींविशालकक्ष्याङ्गजवाजिभिर्वृताम् ।
पुरीमपश्यन्प्लवगास्सराक्षसाःपुरीम्महेन्द्रस्ययथामरावतीम् ॥ 57 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षड्विंशत्यधिकशततमस्सर्गः ॥