श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।
युध्यतामेनतेषान्तुतदावानरराक्षसाम् ।
रविरस्तङ्गतोरात्रिःप्रवृत्ताप्राणहारिणी ॥ 1 ॥
अन्योन्यम्बद्धवैराणाङ्घोराणाञ्जयमिच्छताम् ।
सम्प्रवृत्तन्निशायुद्धन्तदावानररक्षसाम् ॥ 2 ॥
राक्षसोऽसीतिहरयोहरिश्चाऽसीतिराक्षसाः ।
अन्योन्यंसमरेजघ्नुस्तस्मिंस्तमसिदारुणे ॥ 3 ॥
जहिदारयचैहीतिकथंविद्रवसीतिच ।
एवंसुतुमुलश्शब्दस्तस्मिंस्तमसिशुश्रुवे ॥ 4 ॥
कालाःकाञ्चनसन्नाहास्तस्मिंस्तमसिराक्षसाः ।
सम्प्रदृश्यन्तशैलेन्द्रादीप्तौषधिवनाइव ॥ 5 ॥
तस्मिंस्तमसिदुष्पारेराक्षसाःक्रोधमूर्छिताः ।
परिपेतुर्महावेगाभक्षयन्तःप्लवङ्गमान् ॥ 6 ॥
तेहयान् काञ्चनापीडान् ध्वजांश्चाशीविषोपमान् ।
आप्लुत्यदशनैस्तीक्ष्णैर्भीमकोपाव्यदारयन् ॥ 7 ॥
वानराबलिनोयुद्धेऽक्षोभयन् राक्षसीञ्चमूम् ।
कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनोरथान् ॥ 8 ॥
कर्षुश्चददंशुश्चदशनैःक्रोधमूर्छिताः ।
लक्ष्मणश्चापिरामश्चशरैराशीविषोपमैः ॥ 9 ॥
दृश्यादृश्यानिरक्षांसिप्रवराणिनिजघ्नतुः ।
तुरङ्गखुरविध्वस्तंरथनेमिसमुत्थितम् ॥ 10 ॥
रुरोधकर्णनेत्राणियुध्यतान्धरणीरजः ।
वर्तमानेतथाघोरेसङ्ग्रामेरोमहर्षणे ॥ 11 ॥
रुधिरोधामहाघोरानद्यस्तत्रप्रसुस्रुवुः ।
ततोभेरीमृदङ्गानाम्पणवानाञ्चनिस्स्वनः ॥ 12 ॥
शङ्खवेणुस्वनोन्मिश्रस्सम्भूवाद्भुतोपमः ।
हतानांस्तनमानानांराक्षसानाञ्चनिःस्वनः ॥ 13 ॥
शस्तानांवानराणाञ्चसम्बभूवातिदारुणः ।
हतैर्वानरवीरैश्चशक्तिशूलपरश्वधैः ॥ 14 ॥
निहतैःपर्वताकारैराक्षसैःकामरूपिभिः ।
शस्त्रपुष्पोपहाराचतत्रासीद्युद्धमेदिनी ॥ 15 ॥
दुर् ज्ञेयादुर्निवेशाचशोणितास्रावकर्दमा ।
साबभूवनिशाघोराहरिराक्षसहारिणी ॥ 16 ॥
कालरात्रीवभूतानांसर्वेषान्दुरतिक्रमा ।
ततस्तेराक्षसास्तत्रतस्मिंस्तमसिदारुणे ॥ 17 ॥
राममेवाभ्यवर्तन्तसम्हृष्टाश्शरवृष्टिभिः ।
तेषामापततांशब्दःक्रुद्धानामपिगर्जताम् ॥ 18 ॥
उद्वर्त;इव सप्तानां समुद्राणां अभूत् स्वनः ।
तेषां रामह् शारैह् षड्भिह् षड् जघान निशाअ चरान् ॥ 19 ॥
निमेषान्तरमात्रेणशितैरग्निशिखोपमैः ।
यमशत्रुश्चदुर्धर्षोमहापार्श्वमहोदरौ ॥ 20 ॥
वज्रदंष्ट्रोमहाकायस्तौचोभौशुकसारणौ ।
तेतुरामेणबाणौघैस्सर्वेमर्मसुताडिताः ॥ 21 ॥
युद्धादपसृतास्तत्रसावशेषायुषोऽभवन् ।
तत्रकाञ्चनचित्राङ्गैश्शरैरग्निशिखोपमैः ॥ 22 ॥
दिशश्चकारविमलाःप्रदिशश्चमहारथः ।
येत्वन्येराक्षसाभीमारामस्याभिमुखेस्थिताः ॥ 23 ॥
तेऽपिनष्टाःसमासाद्यपतङ्गाइवपावकम् ।
सुवर्णपुङ्खैर्विशिखैस्सपतद्भिस्सहस्रशः ॥ 24 ॥
बभूवरजनीचित्राखद्योतैरिवशारदी ।
राक्षसानाञ्चनिनदैर्हरीणाञ्चापिनिस्स्वनैः ॥ 25 ॥
साबभूवनिशाघोराभूयोघोरतरातदा ।
तेनशब्देनमहताप्रवृद्धेनसमन्ततः ॥ 26 ॥
त्रिकूटःकन्दराकीर्णःप्रव्याहरदिवाचलः ।
गोलाङ्गूलामहाकायास्तमसातुल्यवर्चसः ॥ 27 ॥
सम्परिष्वज्यबाहुभ्याम्भक्षयन्रजनीचरान् ।
अङ्गदस्तुरणेशत्रूननिहन्तुंसमुपस्थितः ॥ 28 ॥
रावणिन्निजघानाशुसारथिञ्चहयानपि ।
वर्तमानेतदाघोरेसङ्ग्रामेभृशदारुणे ॥ 29 ॥
इन्द्रजित्तुरथन्त्यक्त्वाहताश्वोहतसारथिः ।
अङ्गदेनमहामायस्तत्रैवान्तरधीयत ॥ 30 ॥
तत्कर्मवालिपुत्रस्यसर्वेदेवास्सहर्षिभिः ।
तुष्टुवुःपूजनार्हस्यतौचोभौरामलक्ष्मणौ ॥ 31 ॥
प्रभावंसर्वभूतानिविदुरिन्द्रजितोयुधि ।
तेनतेतम्महात्मानन्तुष्टाःदृष्टवाप्रधर्षितम् ॥ 32 ॥
ततःप्रहृष्टाःकपयस्ससुग्रीवविभीषणाः ।
साधुसाध्वितिनेदुश्चदृष्टवाशत्रुम्प्रधर्षितम् ॥ 33 ॥
इन्द्रजित्तुतदातेननिर्जितोभीमकर्मणा ।
संयुगेवालिपुत्रेणक्रोधञ्चक्रेसुदारुणम् ॥ 34 ॥
सोऽन्तर्धानगतःपापोरावणीरणकर्कशः ।
अदृश्योनिशितान्बाणान्मुमोचाशनिवर्चसः ॥ 35 ॥
सरामंलक्ष्मणञ्चैवघोरैर्नागमयैश्शरैः ।
बिभेदसमरेक्रुद्धःसर्वगात्रेषुराक्षसः ॥ 36 ॥
माययासम्वृतस्तत्रमोहयन्राघवौयुधि ।
अदृश्यस्सर्वभूतानाङ्कूटयोधीनिशाचरः ॥ 37 ॥
बबन्धशरबन्धेनभ्रातरौरामलक्ष्मणौ ।
तेनतौपुरुषव्याघ्रौक्रुद्धेनाशीविषैश्शरैः ॥ 38 ॥
सहसानिहतौवीरौतदाप्रैक्षन्तवानराः ।
प्रकाशरूपस्तुतदानशक्तस्तौबाधितुंराक्षसराजपुत्रः ।
मायाम्प्रयोक्तुंसमुपाजगामबबन्धतौराजसुतौदुरात्मा ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुश्चत्वारिंशस्सर्गः ॥