श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ षोडशस्सर्गः ।
तदन्तःपुरद्वारं समतीत्य जनाकुलम् ।
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ 1 ॥
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः ।
अप्रमादिभिरेकाग्रै स्स्वनुरक्तैरधिष्ठिताम् ॥ 2 ॥
तदन्तःपुरद्वारं समतीत्य जनाकुलम् ।
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ 3 ॥
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः ।
अप्रमादिभिरेकाग्रै स्स्वनुरक्तैरधिष्ठिताम् ॥ 4 ॥
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलङ्कृतान् ।
ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान्सुसमाहितान् ॥ 5 ॥
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ।
सहसोत्पतितास्सर्वे स्वासनेभ्यस्ससम्भ्रमाः ॥ 6 ॥
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः ।
क्षिप्रमाख्यात रामाय सुमन्न्त्रो द्वारि तिष्ठति ॥ 7 ॥
ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः ।
सहभार्याय रामाय क्षिप्रमेवाभिचक्षिरे ॥ 8 ॥
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः ।
तत्रैवानाययामास राघवप्रियकाम्यया ॥ 9 ॥
तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम् ।
ददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे ॥ 10 ॥
वराहरुधिराभेण शुचिना च सुगन्धिना ।
अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ 11 ॥
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।
उपेतं सीतयाभूयश्चित्रया शशिनं यथा ॥ 12 ॥
तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा ।
ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ 13 ॥
प्राञ्जलिस्सुमुखं दृष्ट्वा विहारशयनासने ।
राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ 14 ॥
कौशल्यासुप्रजा राम पिता त्वां द्रष्टुमिच्छति ।
महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥ 15 ॥
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः ।
ततस्सम्मानयामास सीतामिदमुवाच ह ॥ 16 ॥
देवि देवश्च देवी च समागम्य मदन्तरे ।
मन्त्रयेते धृवं किञ्चिदभिषेचनसंहितम् ॥ 17 ॥
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा ।
सञ्चोदयति राजानं मदर्थमसितेक्षणा ॥ 18 ॥
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी ।
जननी चार्थकामा मे केकयाधिपतेस्सुता ॥ 19 ॥
दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।
सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ॥ 20 ॥
यादृशी परिषत्तत्र तादृशो दूत आगतः ।
ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ 21 ॥
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ।
सह त्वं परिवारेण सुखमास्व रमस्व च ॥ 22 ॥
पतिसम्मानिता सीता भर्तारमसितेक्षणा ।
आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ 23 ॥
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् ।
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ 24 ॥
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् ।
कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ 25 ॥
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः ।
वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ 26 ॥
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः ।
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ 27 ॥
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः ।
लक्ष्मणं द्वारिसोऽपश्यत्प्रह्वाञ्जलिपुटं स्थितम् ॥ 28 ॥
अथ मध्यमकक्ष्यायां समागच्छत्सुहृज्जनैः ।
स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ 29 ॥
ततः पावकसङ्काशमारुरोह रथोत्तमम् ।
वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः ॥ 30 ॥
मेघनादमसम्बाधं मणिहेमविभूषितम् ।
मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ 31 ॥
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः ।
हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥ 32 ॥
प्रययौ तूर्णमास्थाय राघवो ज्वलितश्श्रिया ।
स पर्जन्य इवाकाशे स्वनवानभिनादयन् ॥ 33 ॥
निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः ।
छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ 34 ॥
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ।
ततो हलहलाशब्दस्तुमुलस्समजायत ॥ 35 ॥
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ।
ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥ 36 ॥
अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः ।
अग्रतश्चास्य सन्नद्धाश्चन्दनागरुभूषिताः ॥ 37 ॥
खड्गचापधराश्शूरा जग्मुराशंसवो जनाः ।
ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥ 38 ॥
सिंहनादाश्च शूराणां तदा शुश्रुविरे पथि ।
हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः ॥ 39 ॥
कीर्यमाण स्सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः ।
रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ॥ 40 ॥
वचोभिरग्य्रैर्हर्म्यस्था क्षितिस्थाश्च ववन्दिरे ।
नूनं नन्दति ते माता कौशल्यामातृनन्दन ॥ 41 ॥
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ।
सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनी वराम् ॥ 42 ॥
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।
तया सुचरितं देव्या पुरा नूनं महत्तपः ॥ 43 ॥
रोहिणीव शशाङ्केन रामसंयोगमाप या ।
इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥ 44 ॥
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।
आत्मसम्पूजनै शृण्वन् ययौ रामौ महापथम् ॥ 45 ॥
स राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य ।
आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य ॥ 46 ॥
एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन् ।
एते वयं सर्व समृद्धकामा येषामयं नो भविता प्रशास्ता ॥ 47 ॥
लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय ।
न ह्यप्रियं किञ्चन जातु कश्चि त्पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ 48 ॥
स घोषवद्भिश्च मतङ्गाजैर्ययैः पुरस्सरै स्स्वस्तिकसूतमागधैः ।
महीयमानः प्रवरैश्च वादकै रभिष्टुतो वैश्रवणो यथा ययौ ॥ 49 ॥
करेणुमातंङ्गरथाश्वसङ्कुलं महाजनौघ परिपूर्णचत्वरम् ।
प्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ॥ 50 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे षोडशस्सर्गः ॥