View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.16 युद्धकाण्ड - षोडश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षोडशस्सर्गः ।

सुनिविष्टंहितंवाक्यमुक्तवन्तंविभीषणम् ।
अब्रवीत्परुषंवाक्यंरावणःकालचोदितः ॥ 1 ॥

वसेत्सहसपत्नेनक्रुद्धेऽनाशीविषेणवा ।
नतुमित्रप्रवादेनसंवसेच्छत्रुसेविना ॥ 2 ॥

जानामिशीलञ्ज्ञातीनांसर्वलोकेषुराक्षसः ।
हृष्यन्तिव्यसनेष्वेतेज्ञातीनाज्ञातयस्सदा ॥ 3 ॥

प्रथानंसाधनंवैद्यन्धर्मशीलञ्चराक्षसः ।
ज्ञातयोह्यवमन्यन्तेशूरम्परिभवन्तिच ॥ 4 ॥

नित्यमन्योन्यसम्हृष्टाव्यसनेष्वाततायिनः ।
प्रच्छन्नहृदयाघोराज्ञातयस्तुभयावहाः ॥ 5 ॥

श्रूयन्तेहस्तिभिर्गीताश्श्लोकाःपद्मवनेक्वचित् ।
पाशहस्तान्नरान्द्रुष्टवाशृणुतान्गदतोमम ॥ 6 ॥

नाग्निर्नान्यानिशस्त्राणिननःपाशाभयावहाः ।
घोरास्स्वार्थप्रयुक्तास्तुज्ञातयोनोभयावहाः ॥ 7 ॥

उपायमेतेवक्ष्यन्तिग्रहणेनात्रसंशयः ।
कृत्स्नाद्भयाद् ज्ञातिभयंसुकष्टंविदितञ्चन ॥ 8 ॥

विद्यतेगोषुसम्पन्नंविद्यतेब्राह्मणेदमः ।
विद्यतेस्त्रीषुचापल्यंविद्यतेज्ञातितोभयम् ॥ 9 ॥

ततोनेष्टमिदंसौम्ययदहंलोकसत्कृतः ।
ऐश्वर्यमभिजातश्चज्ञातीनाम्मूर्ध्न्यवस्थितः ॥ 10 ॥

यथापुष्करपत्रेषुपतितास्तोयबिन्दवः ।
नश्लेषमभिगच्छन्तितथाऽनार्येषुसङ्गतम् ॥ 11 ॥

यथामधुकरस्तर्षाद्रसंविन्दन्नविद्यते ।
तथात्वमपितत्रैवतथानार्येषुसौहृदम् ॥ 12 ॥

यथापूर्वङ्गजस्स्नात्वागृह्यहस्तेनवैरजः ।
दूषयत्यात्मनोदेहन्तथानार्येषुसङ्गतम् ॥ 13 ॥

यथाशरदिमेघानांसिञ्चतामपिगर्जताम् ।
नभवत्यम्बुसङ्क्लेदस्तथाऽनार्येषुसौहृदम् ॥ 14 ॥

यथामधुकरस्तर्षात्काशपुष्पम्पिबन्नपि ।
रसमत्रनविन्देततथानार्वेषुसौहृदम् ॥ 15 ॥

अन्यस्त्वेवंविधम्ब्रूयाद्वाक्यमेतन्निशाचरः ।
अस्मिन्मुहूर्तेनभवेत्त्वान्तुधिक्कुलपांसन ॥ 16 ॥

अब्रवीच्चतदावाक्यञ्जातक्रोधोविभीषणः ।
अन्तरिक्षगत्शीमान्भ्रातरंराक्षसाधिपम् ॥ 17 ॥

सत्वम्भ्राताऽसिमेराजन्ब्रूहिमांयद्यदिच्छसि ।
ज्येष्टोमान्यःपितृसमोनचधर्मपथेस्थितः ॥ 18 ॥

इदन्तुपरुषंवाक्यन्नक्षमाम्यग्रजस्यते ।
सुनीतंहितकामेनवाक्यमुक्तन्दशाननः ।
नगृह्णन्त्यकृतात्मानःकालस्यवशमागताः ॥ 19 ॥

सुलभाःपुरुषराजन् सततम्प्रियवादिनः ।
अप्रियस्यचपथ्यस्यवक्ताश्रोताचदुर्लभः ॥ 20 ॥

बद्धङ्कालस्यपाशेनसर्वभूतापहारिणा ।
ननश्यन्तमुपेक्षेत्वाम्प्रदीप्तंशरणंयथा ॥ 21 ॥

दीप्तपावकसङ्काशैश्शितैःकाञ्चनभूषणैः ।
नत्वामिच्छाम्यहन्द्रष्टुंरामेणनिहतंशरैः ॥ 22 ॥

शूराश्चबलवन्तश्चकृतास्त्राश्चरणाजिरे ।
कालाभिपन्नास्सीदन्तियथावालुकसेतव ॥ 23 ॥

तन्मर्षयतुयच्चोक्तङ्गुरुत्वाद्धितमिच्छता ॥ 24 ॥

अत्मानंसर्वथारक्षपुरीञ्चेमांसराक्षसाम् ।
स्वस्तितेऽस्तुगमिष्यामिसुखीभवमयाविना ॥ 25 ॥

निवार्यमाणस्यमयाहितैषिणानरोचतेतेवचनन्निशाचरः ।
परीतकालाहिगतायुषोनराहितन्नगृह्णन्तिसुहृद्भिरीरितम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षोडशस्सर्गः ॥




Browse Related Categories: