View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.89 अयोध्याकाण्ड - एकोननवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकोननवतितमस्सर्गः ।

उष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।
भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ 1 ॥

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ 2 ॥

जागर्मि नाहं स्वपिमि तमेवाऽर्यं विचिन्तयन् ।
इत्येवमब्रवीद्भ्रात्ता शत्रुघ्नोऽपि प्रचोदितः ॥ 3 ॥

इति संवदतोरेवमन्योन्यं नरसिंहयोः ।
आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥ 4 ॥

कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् ।
कच्चित्ते सह सैन्यस्य तावत्सर्वमनामयम् ॥ 5 ॥

गुहस्य वचनं श्रुत्वा तत्तु स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥ 6 ॥

सुखा न श्शर्वरी राजन् पूजिताश्चापि ते वयम् ।
गङ्गां तु नौभिर्बह्वीभिर्दाशास्सन्तारयन्तु नः ॥ 7 ॥

ततो गुह स्सन्त्वरितं श्रुत्वा भरतशासनम् ।
प्रति प्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ 8 ॥

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वस्सदा ।
नाव स्समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ 9 ॥

ते तथोक्ता स्समुत्थाय त्वरिता राजशासनात् ।
पञ्चनावां शतान्याशु समानिन्युस्समन्ततः ॥ 10 ॥

अन्या स्स्वस्तिकविज्ञेया महाघण्टाधरा वराः ।
शोभमानाः पताकाभिर्युक्तवातास्सुसंहताः ॥ 11 ॥

तत स्स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ॥ 12 ॥

तामारुरोह भरतश्शत्रुघ्नश्च महाबलः ।
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ॥ 13 ॥

पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।
अनन्तरं राजदारास्तदैव शकटापणाः ॥ 14 ॥

आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥ 15 ॥

पताकिन्यस्तु ता नावस्स्वयं दाशैरधिष्ठिताः ।
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ॥ 16 ॥

नारीणामभिपूर्णा स्तु काश्चित् काश्चिच्च वाजिनाम् ।
काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ 17 ॥

ता स्स्म गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ 18 ॥

सवैजयन्तास्तु गजा गजारोहप्रचोदिताः ।
तरन्त स्स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ 19 ॥

नावस्त्वारुरुहुश्चान्ये प्लवैस्तेरु स्तथापरे ।
अन्ये कुम्भघटैस्तेरुरन्येतेरुश्च बाहुभिः ॥ 20 ॥

सा पुण्या ध्वजिनी गङ्गां दाशैस्सन्तारिता स्वयम् ।
मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ॥ 21 ॥

आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य मृत्विग्वृतस्सन्भरतः प्रतस्थे ॥ 22 ॥

स ब्राह्मणस्याऽश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकोननवतितमस्सर्गः ॥




Browse Related Categories: