श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ द्विचत्वारिंशस्सर्गः ।
यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत ।
नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी ॥ 1 ॥
यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।
तावद्व्यवर्धते वास्य धरण्यां पुत्रदर्शने ॥ 2 ॥
न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः ।
तदाऽऽर्तश्च विषण्णश्च पपात धरणीतले ॥ 3 ॥
तस्य दक्षिणमन्वागात्कौसल्या बाहुमङ्गना ।
वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया ॥ 4 ॥
तां नयेन च सम्पन्नो धर्मेण विनयेन च ।
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ 5 ॥
कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी ।
न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ 6 ॥
ये च त्वामनुजीवन्ति नाहं तेषां न ते मम ।
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥ 7 ॥
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् ।
अनुजानामि तत्सर्वमस्मिन् लोके परत्र च ॥ 8 ॥
भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् ।
यन्मे स दद्यात्पित्रर्थं मामां तद्दत्तमागमत् ॥ 9 ॥
अथ रेणुसमुध्वस्तं समुत्थाप्य नराधिपम् ।
न्यवर्तत तदा देवी कौशल्या शोककर्शिता ॥ 10 ॥
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना ।
अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसम् ॥ 11 ॥
निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु ।
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ 12 ॥
विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् ।
नगरान्तमनुप्राप्तं बुध्वा पुत्रमथाब्रवीत् ॥ 13 ॥
वाहननां च मुख्यानां वहतां तं ममात्मजम् ।
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ 14 ॥
यः सुखेषूपधानेषु शेते चन्दनरूषितः ।
वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ 15 ॥
स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।
काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ॥ 16 ॥
उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः ।
विनिश्श्वसन् प्रस्रवणात्करेणूनामिवर्षभः ॥ 17 ॥
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः ।
राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ 18 ॥
सा नूनं जनकस्येष्टा सुता सुखसदोचिता ।
कण्टकाक्रमणाक्लान्ता वनमद्य गमिष्यति ॥ 19 ॥
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ।
श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥ 20 ॥
सकामा भव कैकेयि विधवा राज्यमावस ।
न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ 21 ॥
इत्येवं विलपन् राजा जनौघेनाभिसंवृतः ।
अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् ॥ 22 ॥
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् ।
क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥ 23 ॥
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् ।
विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम् ॥ 24 ॥
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ 25 ॥
अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।
उवाच मृदुमन्दार्थं वचनं दीनमस्वरम् ॥ 26 ॥
कौशल्यायां गृहं शीघ्रं राममातुर्नयन्तु माम् ।
न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ॥ 27 ॥
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः ।
कौशल्याया गृहं तत्र न्यवेश्यत विनीतवत् ॥ 28 ॥
ततस्तस्य प्रविष्टस्य कौशल्याया निवेशनम् ।
अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ 29 ॥
पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम् ।
अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ 30 ॥
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् ।
उच्चैस्स्वरेण चुक्रोश हा राघव जहासि माम् ॥ 31 ॥
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ।
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ 32 ॥
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः ।
अर्धरात्रे दशरथः कौशल्यामिदमब्रवीत् ॥ 33 ॥
रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ।
न त्वा पश्यामि कौसल्ये साधु मां पाणिना स्पृश ॥ 34 ॥
तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् ।
उपोपविश्याधिकमार्तरूपा विनिश्वसन्ती विललाप कृच्छ्रम् ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे द्विचत्वारिंशस्सर्गः ॥