View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.74 अरण्यकाण्ड - चतुःसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ चतुःसप्ततितमस्सर्गः ।

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने ।
प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ 1 ॥

तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान्द्रुमान् ।
वीक्षन्तौ जग्मतुर्ध्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ 2 ॥

कृत्वा च शैलपृष्ठे तु तौ वासं रामलक्ष्मणौ ।
पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः ॥ 3 ॥

तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ।
अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥ 4 ॥

तौ तमाश्रममासाद्य द्रुमैर्बहुभीरावृतम् ।
सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥ 5 ॥

तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः ।
रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ॥ 6 ॥

पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि ।
तामुवाच ततो रामश्श्रमणीं संशितव्रताम् ॥ 7 ॥

कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः ।
कच्चित्ते नियतः क्रोध आहारश्च तपोधने ॥ 8 ॥

कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ।
कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥ 9 ॥

रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता ।
शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥ 10 ॥

अद्य प्राप्ता तपस्सिद्धिस्तव सन्दर्शनान्मया ।
अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः ॥ 11 ॥

अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति ।
त्वयि देववरे राम पूजिते पुरुषर्षभ ॥ 12 ॥

चक्षुषा तव सौम्येन पूतास्मि रघुनन्दन ।
गमिष्याम्यक्षयान्लोकांस्त्वत्प्रसादादरिन्दम ॥ 13 ॥

चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः ।
इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥ 14 ॥

तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः ।
आगमिष्यति ते रामस्सुपुण्यमिममाश्रमम् ॥ 15 ॥

स ते प्रतिग्रहीतव्यस्सौमित्रिसहितोतिथिः ।
तं च दृष्ट्वा वरान्लोकानक्षयांस्त्वं गमिष्यसि ॥ 16 ॥

मया तु विविधं वन्यं सञ्चितं पुरुषर्षभ ।
तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् ॥ 17 ॥

एवमुक्तस्स धर्मात्मा शबर्या शबरीमिदम् ।
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ॥ 18 ॥

दनोस्सकाशात्तत्त्वेन प्रभावं ते महात्मनः ।
श्रुतं प्रत्यक्षमिच्छामि सन्द्रष्टुं यदि मन्यसे ॥ 19 ॥

एतत्तु वचनं श्रुत्ता रामवक्त्राद्विनिस्सृतम् ।
शबरी दर्शयामास तावुभौ तद्वनं महत् ॥ 20 ॥

पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ।
मतङ्गवनमित्येव विश्रुतं रघुनन्दन ॥ 21 ॥

इह ते भावितात्मानो गुरवो मे महावने ।
जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम् ॥ 22 ॥

इयं प्रत्यक्थ्सली वेदिर्यत्र ते मे सुसत्कृताः ।
पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ॥ 23 ॥

तेषां तपःप्रभावेण पश्याद्यापि रघूद्वह ।
द्योतयन्ति दिशस्सर्वाश्श्रिया वेद्योऽतुलप्रभाः ॥ 24 ॥

अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः ।
चिन्तितेऽभ्यागतान्पश्य सहितान्सप्तसागरान् ॥ 25 ॥

कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह ।
अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन ॥ 26 ॥

देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै ।
पुष्पैःकुवलयैस्सार्धं म्लानत्वं नोपयान्तिवै ॥ 27 ॥

कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।
तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेबरम् ॥ 28 ॥

तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् ।
मुनीनामाश्रमो येषामहं च परिचारिणी ॥ 29 ॥

धर्मिष्ठं तु वचश्श्रुत्वा राघवस्सहलक्ष्मणः ।
प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः ॥ 30 ॥

तामुवाच ततो रामश्श्रमणीं संशितव्रताम् ।
अर्चितोऽहं त्वया भक्त्या गच्छकामं यथासुखम् ॥ 31 ॥

इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा ।
तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती ॥ 32 ॥

अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ।
ज्वलत्पावकसङ्काशा स्वर्गमेव जगाम सा ॥ 33 ॥

दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ।
दिव्याम्बरधरा तत्र बभूव प्रियदर्शना ॥ 34 ॥

विराजयन्ती तं देशं विद्युत्सौदामिनी यथा ।
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे चतुःसप्ततितमस्सर्गः ॥




Browse Related Categories: