View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.57 अयोध्याकाण्ड - सप्तपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ सप्तपञ्चाशस्सर्गः ।

कथयित्वा सुदुःखार्तस्सुमन्त्रेण चिरं सह ।
रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ 1 ॥

भरद्वाजाभिगमनं प्रयागे च सहाऽसनम् ।
आगिरेर्गमनं तेषां तत्रस्थैरुपलक्षितम् ॥ 2 ॥

अनुज्ञातस्सुमन्त्रोऽथ योजयित्वा हयोत्तमान् ।
अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ 3 ॥

स वनानि सुगन्धीनि सरितश्च सरांसि च ।
पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ 4 ॥

तत स्सायाह्न समये तृतीयेऽहनि सारथिः ।
अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ 5 ॥

स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः ।
सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ 6 ॥

कच्चिन्न सगजा साऽश्वा सजना सजनाधिपा ।
रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥ 7 ॥

इति चिन्तापरस्सूतो वाजिभिश्शीघ्रपातिभिः ।
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ 8 ॥

सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः ।
क्व राम इति पृच्छन्तस्सूतमभ्यद्रवन्नराः ॥ 9 ॥

तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् ।
अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्माना ॥ 10 ॥

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ।
अहो धिगिति निश्श्वस्य हा रामेति च चुक्रुशुः ॥ 11 ॥

शुश्राव च वचस्तेषां बृन्दं बृन्दं च तिष्ठताम् ।
हतास्म खलु ये नेह पश्याम इति राघवम् ॥ 12 ॥

दानयज्ञविवाहेषु समाजेषु महत्सु च ।
न द्रक्ष्यामः पुन र्जातु धार्मिकं राममन्तरा ॥ 13 ॥

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।
इति रामेण नगरं पितृवत्परिपालितम् ॥ 14 ॥

वातायनगतानां च स्त्रीणामन्वन्तरापणम् ।
रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ 15 ॥

स राजमार्गमध्येन सुमन्त्रः पिहिताननः ।
यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ 16 ॥

सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च ।
कक्ष्या स्सप्ताभिचक्राम महाजनसमाकुलाः ॥ 17 ॥

हर्म्यै र्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।
हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥ 18 ॥

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ 19 ॥

ततो दशरथस्त्रीणां प्रासादेभ्य स्तत स्ततः ।
रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ 20 ॥

सह रामेण निर्यातो विना राम मिहागतः ।
सूतः किन्नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ 21 ॥

यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् ।
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ 22 ॥

सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् ।
प्रदीप्तमिव शोकेन विवेश सहसा गृहम् ॥ 23 ॥

स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् ।
पुत्रशोकपरिम्लानमपश्यत्पाण्डुरे गृहे ॥ 24 ॥

अभिगम्य तमासीनं नरेन्द्रे मभिवाद्य च ।
सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ 25 ॥

स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः ।
मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ 26 ॥

ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ ।
उद्धृत्य बाहू चुक्रोश नृपतौ पतितेक्षितौ ॥ 27 ॥

सुमित्रया तु सहिता कौसल्या पतितं पतिम् ।
उत्थापयामास तदा वचनं चेदमब्रवीत् ॥ 28 ॥

इमं तस्य महाभाग दूतं दुष्करकारिणः ।
वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ 29 ॥

अद्यैवमनयं कृत्वा व्यपत्रपसि राघव ।
उत्तिष्ठ सुकृतं तेस्तु शोके नस्या त्सहायता ॥ 30 ॥

देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।
नेह तिष्ठिति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ 31 ॥

सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ।
धरण्यां निपपाताऽशु बाष्पविप्लुतभाषिणी ॥ 32 ॥

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।
पतिं चावेक्ष्य ता स्सर्वा सुस्वरं रुरुदुः स्त्रियः ॥ 33 ॥

तत स्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धा स्तरुणाश्च मानवाः ।
स्त्रियश्च सर्वा रुरुदु स्समन्ततः पुरं तदासीत्पुनरेव सङ्कुलम् ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे सप्तपञ्चाशस्सर्गः ॥




Browse Related Categories: