View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.41 अरण्यकाण्ड - एकचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ एकचत्वारिंशस्सर्गः ।

आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरः ।
अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम् ॥ 1 ॥

केनायमुपदिष्टस्ते विनाशः पापकर्मणा ।
सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥ 2 ॥

कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् ।
केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ॥ 3 ॥

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः ।
इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥ 4 ॥

केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना ।
यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ॥ 5 ॥

वध्याः खलु न हन्यन्ते सचिवास्तव रावण ।
ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ॥ 6 ॥

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।
निग्राह्यस्सर्वथा सदभिर्न निग्राह्यो निगृह्यसे ॥ 7 ॥

धर्ममर्थं च कामं च यशश्च जयतां वर ।
स्वामिप्रसादात्सचिवाः प्राप्नुवन्ति निशाचर ॥ 8 ॥

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण ।
व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः ॥ 9 ॥

राजमूलो हि धर्मश्च जयश्च जयतां वर ।
तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ 10 ॥

राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर ।
न चापि प्रतिकूलेन नाविनीतेन राक्षस ॥ 11 ॥

ये तीक्ष्णमन्त्रास्सचिवा भज्यन्ते सह तेन वै ।
विषमे तुरगा श्शीघ्रा मन्दसारथयो यथा ॥ 12 ॥

बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः ।
परेषामपराधेन विनष्टास्सपरिच्छदाः ॥ 13 ॥

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण ।
रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ 14 ॥

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ 15 ॥

तदिदं काकतालीयं घोरमासादितं मया ।
अत्र किं शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥ 16 ॥

मां निहत्य तु रामश्च न चिरात्त्वां वधिष्यति ।
अनेन कृतकृत्योऽस्मि म्रियेयमरिणा हतः ॥ 17 ॥

दर्शनादेव रामस्य हतं मामवधारय ।
आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ॥ 18 ॥

आनयिष्यसि चेत्सीतामाश्रमात्सहितो मया ।
नैवत्वमसि नाहं च नैव लङ्का न राक्षसाः ॥ 19 ॥

निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर ।
परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकचत्वारिंशस्सर्गः ॥




Browse Related Categories: