View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.40 सुन्दरकाण्ड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ चत्वारिंशस्सर्गः ।

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।
उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ 1 ॥

त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानरः ।
अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ॥ 2 ॥

यथा तं पुरुषव्याघ्रं गात्रैश्शोकाभिकर्शितैः ।
संस्पृशेयं सकामाहं तथा कुरु दयां मयि ॥ 3 ॥

अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।
क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ॥ 4 ॥

मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः ।
त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि ॥ 5 ॥

स वीर्यवान्कथं सीतां हृतां समनुमन्यसे ।
वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ॥ 6 ॥

एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥ 7 ॥

एष निर्यातितश्श्रीमान्मया ते वारिसम्भवः ।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ 8 ॥

असह्यानि च दुःखानि वाचश्च हृदयच्छिदः ।
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥ 9 ॥

धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।
ऊर्ध्वं मासान्न जीविष्ये त्वया हीना नृपात्मज ॥ 10 ॥

घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि ।
त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम् ॥ 11 ॥

वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ।
अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ 12 ॥

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ 13 ॥

कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम् ।
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ 14 ॥

तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ 15 ॥

हत्त्वा च समरे क्रूरं रावणं सहबान्धवम् ।
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ॥ 16 ॥

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।
प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ॥ 17 ॥

साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम् ।
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ॥ 18 ॥

श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति ।
स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः ॥ 19 ॥

प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ॥ 20 ॥

वर्धमानं महावेगमुवाच जनकात्मजा ।
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ॥ 21 ॥

हनुमन्सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूयाह्यनामयम् ॥ 22 ॥

यथा च स महाबाहुर्मां तारयति राघवः ।
अस्माद्दुःखाम्बुसम्रोधात्त्वं समाधातुमर्हसि ॥ 23 ॥

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतस्समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥ 24 ॥

स राजपुत्र्य्राप्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चत्वारिंशस्सर्गः ॥




Browse Related Categories: