श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकाधिकशततमस्सर्गः ।
तस्मिन्प्रतिहतेऽस्त्रेतुरावणोराक्षसाधिपः ।
क्रोधं च द्विगुणञ्चक्रेक्रोधाच्चास्त्रमनन्तरम् ॥ 1 ॥
मयेनविहितंरौद्रमन्यदस्त्रम्महाद्युतिः ।
उत्सृष्टुंरावणोभीमंराघवायप्रचक्रमे ॥ 2 ॥
ततःशूलानिनिश्चेरुर्गदाश्चमुसलानि च ।
कार्मुकाद्दीप्यमानानिवज्रसाराणिसर्वशः ॥ 3 ॥
मुद्गराःकूटपाशाश्चदीप्ताश्चाशनयस्तथा ।
निष्पेतुर्विविधास्तीक्ष्णावाताइवयुगक्षये ॥ 4 ॥
तदस्त्रंराघव्श्रीमानुत्तमास्त्रविदांवरः ।
जघानपरमास्त्रणगान्धर्वेणमहाद्युतिः ॥ 5 ॥
तस्मिन्प्रतिहतेऽतुराघवेणमहात्मना ।
रावणःक्रोधाताम्राक्षस्सौरमस्त्रमुदैरयत् ॥ 6 ॥
ततश्चक्राणिनिष्पेतुर्भास्वराणिमहान्ति च ।
कार्मुकाद्भीमवेगस्यदशग्रीवस्यधीमतः ॥ 7 ॥
तैरासीद्गगनन्दीप्तंसन्ततद्भिःरितस्ततः ।
पतद्भिश्चदिशोदीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ 8 ॥
तानिचिच्छेदबाणौघैश्चक्राणितु स राघवः ।
आयुधानि च चित्राणिरावणस्यचमूमुखे ॥ 9 ॥
तदस्त्रन्तुहतन्दृष्टवारावणोराक्षसाधिपः ।
विव्याथदशभिर्बाणैरामंसर्वेषुमर्मसु ॥ 10 ॥
स विद्धोदशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।
रावणेनमहातेजा न प्राकम्पतराघवः ॥ 11 ॥
ततोविव्याथगात्रेषुसर्वेषुसमितिञ्जयः ।
राघवस्तुसुसङ्क्रुद्धोरावणम्बहुभिश्शरैः ॥ 12 ॥
एतस्मिन्नन्तरेक्रुद्धोराघवस्यानुजोबली ।
लक्ष्मणःसायकान्सप्तजग्राहपरवीरहा ॥ 13 ॥
तैः स्सायकैर्महावेगैरावणस्यमहाद्युति ।
ध्वजम्मनुष्यशीर्षन्तुतस्यचिच्छेदनैकधा ॥ 14 ॥
सारदथेश्चापिबाणेनशिरोज्वलितकुण्डलम् ।
जहारलक्ष्मणःश्रीमान्नैरृतस्यमहाबलः ॥ 15 ॥
तस्यबाणैश्चचिच्छेदधनुर्गजकरोपमम् ।
लक्ष्मणोराक्षसेन्द्रस्यपञ्चभिर्निशितैस्तदा ॥ 16 ॥
नीलमेघनिभांश्चास्यसदश्वान् पर्वतोपमान् ।
जघानाप्लुत्यगदयारावणस्यविभीषणः ॥ 17 ॥
हताश्वात्त्तुस्वोवेगादवप्लुत्यमहारथात् ।
कोपमाहारत्तीव्रम्भ्रातरम्प्रतिरावणः ॥ 18 ॥
ततश्शक्तिम्महाशक्तिर्दीप्तार्दीप्ताशनीमिव ।
विभीषणस्यचिक्षेपराक्षसेन्द्रःप्रतापवान् ॥ 19 ॥
अप्राप्तामेवताम्बाणैस्त्रिभिश्चिच्छेदलक्ष्मणः ।
अथोदतिष्ठत्सन्नादोवानराणाम्महारणे ॥ 20 ॥
स पपातत्रिधाछिन्नाशक्तिःकाञ्चनमालिनी ।
सविस्फुलिङ्गाज्वलितामहोल्केवदिवश्च्युता ॥ 21 ॥
ततःसम्भाविततराङ्कालेनापिदुरासदाम् ।
जग्राहविपुलांशक्तिन्दीप्यमानांस्वतेजसा ॥ 22 ॥
सावेगिताबलवतारावणेनदुरात्मना ।
जज्वालसुमहातेजादीप्ताशनिसमप्रभा ॥ 23 ॥
एतस्मिन्नन्तरेवीरोलक्ष्मणस्तंविभीषणम् ।
प्राणसंशयमापन्नन्तूर्णमभ्यवपद्यत ॥ 24 ॥
तंविमोक्षयितुंवीरश्चापमायम्यलक्ष्मणः ।
रावणंशक्तिहस्तंवैशरवर्षैरवाकिरत् ॥ 25 ॥
कीर्यमाणश्शरौघेणविसृष्टेनमहात्मना ।
न प्रहर्तुम्मनश्चक्रेविमुखीकृतविक्रमः ॥ 26 ॥
मोक्षितम्भ्रातरन्दृष्टवालक्ष्मणेन स रावणः ।
लक्ष्मणाभिमुखस्तिष्ठन्निदंवचनमब्रवीत् ॥ 27 ॥
मोक्षितस्तेबलश्लाघिन्यस्मादेवंविभीषणः ।
विमुच्यराक्षसंशक्तिस्त्वयीयंविनिपात्यते ॥ 28 ॥
एषातेहृदयम्भित्त्वाशक्तिर्लोहितलक्षणा ।
मद्भाहुपरिघोत्सृष्टाप्राणानादाययास्यति ॥ 29 ॥
इत्येवमुक्तातांशक्तिमष्टघण्टाम्महास्वनाम् ।
मयेनमायाविहिताममोघंशत्रुघातिनीम् ॥ 30 ॥
लक्ष्मणायसमुद्धिश्यज्वलन्तीमिवतेजसा ।
रावणःपरमक्रुद्धश्चिक्षेप च ननाद च ॥ 31 ॥
साक्षिप्ताभीमवेगेनवज्राशनिसमस्वना ।
शक्तिरभ्यपतद्वेगाल्लक्ष्मणंरणमूर्धनि ॥ 32 ॥
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।
स्वस्त्यस्तुलक्ष्मणआयेतिमोघाभवहतोद्यमा ॥ 33 ॥
रावणेनरणेशक्तिःक्रुद्धेनाशीविषोपमाः ।
मुक्ताशूरस्यभीतस्यलक्ष्मणस्यममज्जसा ॥ 34 ॥
न्यपतत्सामहावेगालक्ष्मणस्यमहोरसि ।
जिह्वेवोरगराजस्यदीप्यमानामहाद्युतिः ॥ 35 ॥
ततोरावणवेगेनसुदूरमवगाढया ।
शक्त्याविभिन्नहृदयःपपातभुविलक्ष्मणः ॥ 36 ॥
तदवस्थंसमीपस्थोलक्ष्मणम्प्रेक्ष्यराघवः ।
भ्रातृस्नेहान्महातेजाविषण्णहृदयोऽभवत् ॥ 37 ॥
कालात्ययेन दोषः स्याद्वैक्लब्यं च महद्भवेत् ।
इति सञ्चिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः ॥ 38 ॥
न विषादस्यकालोऽयमितिसञ्चिन्त्यराघवः ।
चक्रेसुतुमुलंयुद्धंरावणस्यवधेधृतः ॥ 39 ॥
सर्वयत्नेनमहतालक्ष्मणम्परिवीक्ष्य च ।
सददर्शततोरामःशक्त्याभिन्नम्महाहवे ॥ 40 ॥
लक्ष्मणंरुधिरादिग्धंसपन्नगमिवाचलम् ।
तामपिप्रहितांशक्तिंरावणेनबलीयसा ॥ 41 ॥
यत्नतस्तेहरिश्रेष्ठा न शेकुरवमर्दितुम् ।
अर्दिताश्चैवबाणौघैस्तेक्षिप्रहस्तेनरक्षसा ॥ 42 ॥
सौमित्रिंसाविनिर्भिद्यप्रविष्टाधरणीतलम् ।
ताङ्कराभ्याम्परामृश्यरामःशक्तिम्भयावहाम् ॥ 43 ॥
बभञ्जसमरेक्रुद्धोबलवान्विचकर्ष च ।
तस्यनिष्कर्षतःशक्तिंरावणेनबलीयसा ॥ 44 ॥
शराःसर्वेषुगात्रेषुपातितामर्मभेदिनः ।
अचिन्तयित्वातान्बाणान्समालशिष्य च लक्ष्मणम् ॥ 45 ॥
अब्रवीच्चहनूमन्तंसुग्रीवं च महाकपिम् ।
क्ष्मणम्परिवार्यैवतिष्ठध्वंवानरोत्तमाः ॥ 46 ॥
पराक्रमस्यकालोऽयंसम्प्राप्तोमेचिरेप्सितः ।
पापात्मायन्दशग्रीवोवध्यताम्पापनिश्चयः ॥ 47 ॥
काङ्क्षितस्स्तोककस्येवघर्मान्तेमेघदर्शनम् ।
अस्मिन् मुहूर्तेनचिरात्सत्यम्प्रतिशृणोमिवः ॥ 48 ॥
अरावणमरामंवाजगद्ध्रक्ष्यथवानराः ।
राज्यनाशंवनेवासन्दण्डकेपरिधावनम् ॥ 49 ॥
वैदेह्याश्चपरामर्शंरक्षोभिश्चसमागमम् ।
प्राप्तन्दुःखम्महद्घोरङ्क्लेशश्चनिरयोपमः ॥ 50 ॥
अद्यसर्वमहन्त्यक्ष्येनिहत्वारावणंरणे ।
यदर्थंवानरंसैन्यंसमानीतमिदम्मया ॥ 51 ॥
सुग्रीवश्चकृतोराज्येनिहत्वावालिनंरणे ।
यदर्थं सगरःक्रान्तःसेतुःराब्धश्चसागरे ।
सोऽयमद्यरणेपापश्चक्षुर्विषमागतः ॥ 52 ॥
चक्षुर्विषयमागत्यनायञ्जीवितुमर्हति ॥ 53 ॥
दृष्टिन्दृष्टिविषस्येवसर्पस्यममरावणः ।
यथावावैनतेयस्यदृष्टिम्प्राप्तोभुजङ्गमः ॥ 54 ॥
स्वस्थापश्यतदुर्धर्षायुद्धंवानरपुङ्गवाः ।
असीनाःपर्वताग्रेषुममेदंरावणस्य च ॥ 55 ॥
अद्यरामस्यरामत्वम्पश्यन्तुममसंयुगे ।
त्रयोलोकास्सगन्धर्वास्सदेवास्सर्षिचारणाः ॥ 56 ॥
अद्यकर्मकरिष्यामियल्लोकाःसचराचराः ।
सदेवाःकथयिष्यन्तियावद्भूमिर्धरिष्यति ॥ 57 ॥
समागम्यसदालोकेयथायुद्धम्प्रवर्तितम् ।
एवमुक्त्वाशितैर्बाणैस्तप्तकाञ्चनभूषणैः ॥ 58 ॥
आजघानरणेरामोदशग्रीवंसमाहितः ।
अथप्रदीप्तैर्नाराचैर्मुसलैश्चापिरावणः ॥ 59 ॥
अभ्यवर्षत्तदारामन्धाराभिरिवतोयदः ।
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ॥ 60 ॥
शराणां च शराणां च बभूवतुमुलःस्वनः ।
तेभिन्नाश्चविकीर्णाश्चरामरावणयोःशराः ॥ 61 ॥
अन्तरिक्षात्प्रदीप्ताग्रानिपेतुर्धरणीतले ।
तयोर्ज्यातलनिर्घोषारामरावणयोर्महान् ॥ 62 ॥
त्रासनःसर्वभूतानाम्बभूवाद्भुतदर्शनः ।
सकीर्यमाणश्शरजालवृष्टिभिर्महात्मनादीप्तधनुष्मतार्दितः ।
भयात्प्रदुद्रावसमेत्यरावणोयथाविलेनाभिहतोबलाहकः ॥ 63 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकाधिकशततमस्सर्गः ॥