View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.41 अयोध्याकाण्ड - एकचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकचत्वारिंशस्सर्गः ।

तस्मिन्स्तु पुरुषव्याघ्रे विनिर्याति कृताञ्जलौ ।
आर्तशब्दोऽहि सञ्जज्ञे स्त्रीणामन्तःपुरे महान् ॥ 1 ॥

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ।
यो गतिश्शरणं चासीत्स नाथः क्व नु गच्छति ॥ 2 ॥

न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् ।
क्रुद्धान्प्रसादयन्सर्वान् समदुःखः क्व गज्छति ॥ 3 ॥

कौशल्यायां महातेजा यथा मातरि वर्तते ।
तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ॥ 4 ॥

कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम् ।
परित्राता जनस्यास्य जगतः क्व नु गच्छति ॥ 5 ॥

अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम् ।
धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ 6 ॥

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥ 7 ॥

स तमन्तः पुरे घोरमार्तशब्दं महीपतिः ।
पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत्सुदुःखितः ॥ 8 ॥

नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः अकुर्वन्न प्रजाः कार्यं सूर्यश्चान्तरधीयत ॥ 9 ॥

व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन् ।
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ 10 ॥

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि ।
दारुणा स्सोममभ्येत्य ग्रहास्सर्वे व्यवस्थिताः ॥ 11 ॥

नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः ।
विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे ॥ 12 ॥

कालिकानिलवेगेन महोदधिरिवोत्थितः ।
रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ॥ 13 ॥

दिशः पर्याकुलास्सर्वा स्तिमिरेणेव संवृताः ।
न ग्रहो नापि नक्षत्रं प्रचकाशे नकिञ्चन ॥ 14 ॥

अकस्मान्नागरस्सर्वो जनो दैन्यमुपागमत् ।
आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥ 15 ॥

शोकपर्यायसन्तप्त स्सततं दीर्घमुच्छवसन् ।
अयोध्यायां जनस्सर्व श्शुशोच जगतीपतिम् ॥ 16 ॥

बाष्पपर्याकुलमुखो राजमार्गगतो जनः ।
न हृष्टो लक्ष्यते कश्चित्सर्व श्शोकपरायणः ॥ 17 ॥

न वाति पवन श्शीतो न शशी सौम्यदर्शनः ।
न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ 18 ॥

अनर्थिनस्सुताः स्त्रीणां भर्तारो भ्रातरस्तथा ।
सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ॥ 19 ॥

ये तु रामस्य सुहृद स्सर्वे ते मूढचेतसः ।
शोकभारेण चाक्रान्ता श्शयनं न जहुस्तदा ॥ 20 ॥

ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता ।
चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशस्सर्गः ॥




Browse Related Categories: