View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.68 युद्धकाण्ड - अष्टषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टषष्टितमस्सर्गः ।

कुम्भकर्णंहतन्दृष्टवाराघवेणमहात्मना ।
राक्षसाराक्षसेन्द्रायरावणायन्यवेदयन् ॥ 1 ॥

राजन् स कालसङ्काशस्संयुक्तःकालकर्मणा ।
विद्राव्यवानरींसेनाम्भक्षयित्वा च वानरान् ॥ 2 ॥

प्रतपित्वा मुहूर्तन्तुप्रशान्तोरामतेजसा ।
कायेनार्थप्रविष्टेनसमुद्रम्भीमदर्शनम् ॥ 3 ॥

निकृत्तकण्ठोरुभुजोविक्षरन्रुधिरम्बहु ।
रुद्ध्वाद्वारंशरीरेणलङ्कायाःपर्वतोपमः ॥ 4 ॥

कुम्भकर्णस्तव भ्राता काकुत्थ्सशरपीडितः ।
लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ॥ 5 ॥

तंश्रुत्वाविनिहतंसङ्ख्येकुम्भकर्णम्महाबलम् ।
रावणश्शोकसन्तप्तोमुमोह च पपात च ॥ 6 ॥

पितृव्यन्निहतंश्रुत्वादेवान्तकनरान्तकौ ।
त्रिशिराश्चातिकायश्चरुरुदुश्शोकपीडिताः ॥ 7 ॥

भ्रातरन्निहतंश्रुत्वारामेणाक्लिष्टकर्मणा ।
महोदरमहापार्श्वौशोकाक्रान्तौबभूवतुः ॥ 8 ॥

ततःकृच्छ्रात्समासाद्यसञ्ज्ञांराक्षसपुङ्गवः ।
कुम्भकर्णवधाद्दीनोविललापकुलेन्द्रियः ॥ 9 ॥

हावीर रिपुदर्पघ्न कुम्भकर्ण महाबल ।
त्वम्मांविहायवैदैवाद्यातोऽसियमसादनम् ॥ 10 ॥

ममशल्यमनुद्धृत्यबान्धवानाम्महाबल ।
शत्रुसैन्यम्प्रताप्यैकस्त्वम्मांसन्त्यज्यगच्छसि ॥ 11 ॥

इदानीङ्खल्वहन्नास्मियस्यमेदक्षिणोभुजः ।
पतितोयंसमाश्रित्य न बिभेमिसुरासुरान् ॥ 12 ॥

कथमेवंविधोवीरोदेवदानवदर्पहा ।
कालाग्निरुद्राप्रतिमोरणेराघवेणवैहतः ॥ 13 ॥

यस्यतेवज्रनिष्पेषो न कुर्वाद्व्यसनंसदा ।
स कथंरामबाणार्तम्प्रसुप्तोऽसिमहीतले ॥ 14 ॥

एतेदेवगणास्सार्थमृषिभिर्गगनेस्थिताः ।
निहतन्त्वांरणेदृष्टवानिनदन्तिप्रहर्षिताः ॥ 15 ॥

ध्रुवमद्यैवसंहृष्टालब्धलक्षाःप्लवङ्गमाः ।
आरोक्ष्यन्तीहदुर्गाणिलङ्काद्वाराणिसर्वशः ॥ 16 ॥

राज्येननास्तिमेकार्यङ्किङ्करिष्यामिसीतया ।
कुम्भकर्णविहीनस्यजीवितेनास्तिमेमतिः ॥ 17 ॥

यद्यहम्भ्रातृहन्तारं न हन्मियुधिराघवम् ।
ननुमेमरणंश्रेयो न चेदंव्यर्थजीवितम् ॥ 18 ॥

अद्यैवतङ्गमिष्यामिदेशंयत्रानुजोमम ।
न हिभ्रातृन् समुत्सृज्यक्षणञ्जीवितमुत्सहे ॥ 19 ॥

देवाहिमांहसिष्यन्तिदृष्टवापूर्वापकारिणम् ।
कथमिन्द्रञ्जयिष्यामिकुम्भकर्ण हतेत्वयि ॥ 20 ॥

तदिदम्मामनुप्राप्तंविभीषणवचश्शुभम् ।
यदज्ञानान्मयातस्य न गृहीतम्महात्मनः ॥ 21 ॥

विभीषणवचोयावत्कुम्भकर्णप्रहस्तयोः ।
विनाशोऽयंसमुत्पन्नोमांव्रीडयतिदारुणः ॥ 22 ॥

तस्यायङ्कर्मणःप्राप्तोविपाकोममशोकदः ।
यन्मयाधार्मिकश्शमान् स निरस्तोविभीषणः ॥ 23 ॥

इतिबहुविधमाकुलान्तरात्माकृपणमतीवविलप्यकुम्भकर्णम् ।
न्यपदथदशाननोभृशार्तस्तमनुजमिन्द्ररिपुंहतंविदित्वा ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टषष्टितमस्सर्गः ॥




Browse Related Categories: