श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकविंशस्सर्गः ।
ततस्सागरवेलायान्दर्भानास्तीर्यराघवः ।
अञ्जलिम्प्राङ्मुखःकृत्वाप्रतिशिश्येमहोदधेः ॥ 1 ॥
बाहुम्भुजगभोगाभमुपधायारिसूदनः ।
वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ॥ 2 ॥
भुजैःपरमनारीणामभिमृष्टमनेकदा ॥ 3 ॥
चन्दनागुरुभिश्चैवपुरस्तादधिवासितम् ।
बालसूर्यप्रकाशैश्चन्दनैरुपशोभितम् ॥ 4 ॥
शयनेचोत्तमाङ्गेनसीतायाश्शोभितम्पुरा ।
तक्षकस्येवसम्भोगगङ्गाजलनिषेचितम् ॥ 5 ॥
संयुगेयुगसङ्काशंशत्रूणांशोकवर्धनम् ।
सुहृदानन्दनन्दीर्घंसागरान्तव्यपाश्रयम् ॥ 6 ॥
असत्याचपुनस्सव्यञ्ज्याघातविगतत्वचम् ।
दक्षिणोदक्षिणम्बाहुम्महापरिघसन्निभम् ॥ 7 ॥
गोसहस्रप्रदारम्मुपधायमहत्भुजम् ।
अद्यमेमरणंवादतरणंसागरस्यवा ॥ 8 ॥
तिरामोमतिङ्कृत्वामहाबाहुर्महोदधिम् ।
अधिशिश्येचविधिवत्प्रयतोनियतोमुनिः ॥ 9 ॥
तस्यरामस्यसुप्तस्यकुशास्तीर्णेमहीतले ।
नियमादप्रमत्तस्यनिशास्तिस्रोऽतिचक्रमुः ॥ 10 ॥
सत्रिरात्रोषितस्तत्रनयज्ञोधर्मवत्सलः ।
उपासततदारामस्सागरंसरिताम्पतिम् ॥ 11 ॥
नचदर्शयतेरूपम्मन्दोरामस्यसागरः ।
प्रयतेनापिरामेणयथार्हमभिपूजितः ॥ 12 ॥
समुद्रस्यततःक्रुद्धोरामोरक्तान्तलोचनः ।
समीपस्थमुवाचेदंलक्ष्मणंशुभलक्ष्मणम् ॥ 13 ॥
अवलेपस्समुद्रस्यनदर्शयतियत्स्वयम् ।
प्रशमश्चक्षमाचैवआर्जवम्प्रियवादिता ॥ 14 ॥
असामर्थ्यम्फल्नात्येतेनिर्गुणेषुसताङ्गुणाः ।
आत्मप्रशंसिनन्दृष्टन्धृष्टंविपरिथावकम् ।
सर्वत्रोत्सृष्टदण्डञ्चलोकस्सत्कुरुतेनरम् ॥ 15 ॥
नसाम्नाशक्यतेकीर्तिर्नसाम्नाशक्यतेयशः ।
प्राप्तुंलक्ष्मण लोकेऽस्मिन् ञ्जयोवारणमूर्धनि ॥ 16 ॥
अद्यमद्बाणनिर्भग्नैर्मकरैर्मकरानिलयम् ।
निरुद्धतोयंसौमित्रेप्लवभदिःपश्यसर्वतः ॥ 17 ॥
महाभोगानिमत्स्यानाङ्करिणाञ्चकराह ।
भोगिनाम्पश्यनागानाम्मयाछिन्नानिलक्ष्मण ॥ 18 ॥
सशङ्खशुक्तिजालंसमीनमकरन्तथा ।
अद्ययुद्धेनमहतासमुद्रम्परिशोषये ॥ 19 ॥
क्षमयाहिसमायुक्तम्मामयम्मकरालयः ।
असमर्थंविजानातिधिक् क्षमामीदृशेजने ॥ 20 ॥
नदर्शयतिसाम्नामेसागरोरूपमात्मनः ॥ 21 ॥
चापमानयसौमित्रेशरांश्चाशीविषोपमान् ।
सागरंशोषयिष्यामिपद् भ्यांयान्तुप्लवङ्गमाः ॥ 22 ॥
अद्याक्षोभ्यमपिक्रुद्धःक्षोभयिष्यामिसागरम् ।
वेलासुकृतमर्यादंसहस्रोर्मिसमाकुलम् ॥ 23 ॥
निर्मर्यादङ्करिष्यामिसायायिकैर्वरुणालयम् ।
महार्णवङ्क्षोभयिष्येमहादानवसङ्कुलम् ॥ 24 ॥
एवमुक्त्वाधनुष्पाणिःक्रोधविस्फारितेक्षणः ।
बभूवरामोदुर्धर्षोयुगान्तानगिरिवज्वलन् ॥ 25 ॥
सम्पीड्यचधनुर्घोरङ्कम्पयित्वाशरैर्जगत् ।
मुमोचविशिखानुग्रान्वज्रानिवशतक्रतुः ॥ 26 ॥
तेज्वलन्तोमहावेगास्तेजसासायकोत्तमाः ।
प्रविशन्तिसमुद्रस्यसलिलन्त्रस्तपन्नगम् ॥ 27 ॥
तोयवेगस्समुद्रस्यसनक्रमकरोमहान् ।
सम्बभूवमहाघोरस्समारुतरवस्तदा ॥ 28 ॥
महोर्मिकुलाविततश्शङ्खजालसमावृतः ।
सधूमःपरिवृत्तोर्मिस्सहसासीन्महोदधिः ॥ 29 ॥
व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।
दानवाः च महावीर्याः पाताल तल वासिनः ॥ 30 ॥
ऊर्मयस्सिन्धुराजस्यसनक्रमकरास्तथा ।
विन्द्यमन्दरसङ्काशास्समुत्पेतुस्सहस्रशः ॥ 31 ॥
आघूर्णिततरङ्गौघस्सम्भ्रान्तोरगराक्षसः ।
उद्वर्तितमहाग्राहस्संवृत्तस्सलिलाशयः ॥ 32 ॥
ततस्तुतंराघवमुग्रवेगम्प्रकर्षमाणन्धनुरप्रमेयम् ।
सौमित्रिरुत्पत्यसमुच्छवसन्तम्मामेतिचोक्त्वादनुराललम्बे ॥ 33 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकविंशस्सर्गः ॥