श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ एकादशस्सर्गः ।
अग्रतः प्रययौ रामस्सीता मध्ये सुमध्यमा ।
पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥ 1 ॥
तौ पश्यमानौ विविधान् शैलप्रस्थान्वनानि च ।
नदीश्च विविधा रम्या जग्मतुस्सीतया सह ॥ 2 ॥
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ।
सरांसि च सपद्मानि युक्तानि जलजैः खगैः ॥ 3 ॥
यूथबद्धांश्च पृषतान्मदोन्मत्तान् विषाणिनः ।
महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः ॥ 4 ॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
ददृशुस्सहिता रम्यं तटाकं योजनायतम् ॥ 5 ॥
पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम् ।
सारसैर्हंसकादम्बैस्सङ्कुलं जलचारिभिः ॥ 6 ॥
प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे ।
गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥ 7 ॥
ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः ।
मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ 8 ॥
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने ।
कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥ 9 ॥
वक्तव्यं यदि चेदविप्र नातिगुह्यमपि प्रभो ।
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ॥ 10 ॥
प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे ।
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् ॥ 11 ॥
निर्मितं तपसा राम मुनिना माण्डकर्णिना ।
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः ॥ 12 ॥
दशवर्षसहस्राणि वायुभक्षो जलाश्रयः ।
ततः प्रव्यथितास्सर्वे देवास्साग्निपुरोगमाः ॥ 13 ॥
अब्रुवन् वचनं सर्वे परस्परसमागताः ।
अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः ॥ 14 ॥
इति संविग्नमनसस्सर्वे ते त्रिदिवौकसः ।
तत्र कर्तुं तपोविघ्नं देवैस्सर्वैर्नियोजिताः ॥ 15 ॥
प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः ।
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ॥ 16 ॥
नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ।
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः ॥ 17 ॥
तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम् ।
तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् ॥ 18 ॥
रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ।
तासां सङ्क्रीडमानानामेष वादित्रनिस्स्वनः ॥ 19 ॥
श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ।
आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः ॥ 20 ॥
राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ।
एवं कथयमानस्य ददर्शाश्रममण्डलम् ॥ 21 ॥
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ।
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ॥ 22 ॥
उवास मुनिभिस्सर्वैः पूज्यमानो महायशाः ।
तदा तस्मिन्सकाकुत्थ्सः श्रीमत्याश्रममण्डले ॥ 23 ॥
उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ।
जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ॥ 24 ॥
येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् ।
क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित् ॥ 25 ॥
क्वचिच्छ चतुरो मासान् पञ्च षट्चापरान्क्वचित् ।
अपरत्राधिकं मासादप्यर्धमधिकं क्वचित् ॥ 26 ॥
त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम् ।
तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ॥ 27 ॥
रमतश्चानुकूल्येन ययुस्संवत्सरा दश ।
परिवृत्य च धर्मज्ञो राघवस्सह सीतया ॥ 28 ॥
सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह ।
स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः ॥ 29 ॥
तत्रापि न्यवसद्रामः कञ्चित्कालमरिन्दमः ।
तदाश्रमस्थो विनयात्कदाचित्तं महामुनिम् ॥ 30 ॥
उपासीनस्सकाकुत्स्थस्सुतीक्ष्णमिदमब्रवीत् ।
अस्मिन्नरण्ये भगवानगस्त्यो मुनिसत्तमः ॥ 31 ॥
वसतीति मया नित्यं कथाः कथयतां श्रुतम् ।
न तु जानामि तं देशं वनस्यास्य महत्तया ॥ 32 ॥
कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः ।
प्रसादात्तत्र भवतस्सानुजस्सह सीतया ॥ 33 ॥
अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ।
मनोरथो महानेष हृदि मे परिवर्तते ॥ 34 ॥
यद्यहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ।
इति रामस्य स मुनिश्श्रुत्वा धर्मात्मनो वचः ॥ 35 ॥
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ।
अहमप्येतदेव त्वां वक्तुकामस्सलक्ष्मणम् ॥ 36 ॥
अगस्त्यमभिगच्छेति सीतया सह राघव ।
दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम् ॥ 37 ॥
अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः ।
योजनान्याश्रमात्तात याहि चत्वारि वै ततः ॥ 38 ॥
दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः ।
स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते ॥ 39 ॥
बहुपुष्पफले रम्ये नानाशकुनिनादिते ।
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाश्शिवाः ॥ 40 ॥
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ।
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् ॥ 41 ॥
दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ।
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरा ॥ 42 ॥
रमणीये वनोद्धेशे बहुपादपसंवृते ।
रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया ॥ 43 ॥
स हि रम्यो वनोद्देशो बहुपादपसङ्कुलः ।
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ॥ 44 ॥
अद्यैव गमने बुद्धिं रोचयस्व महायशः ।
इति रामो मुनेश्श्रुत्वा सह भ्रात्राभिवाद्य च ॥ 45 ॥
प्रतस्थेऽमुद्दिश्य सानुजस्सीतया सह ।
पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् ॥ 46 ॥
सरांसि सरितश्चैव पथि मार्गवशानुगाः ।
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ॥ 47 ॥
इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ।
एतदेवाश्रमपदं नूनं तस्य महात्मनः ॥ 48 ॥
अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः ।
यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः ॥ 49 ॥
सन्नताः फलभारेण पुष्पभारेण च द्रुमाः ।
पिप्पलीनां च पक्वानां वनादस्मादुपागतः ॥ 50 ॥
गन्धोऽयं पवनोक्षिप्तस्सहसा कटुकोदयः ।
तत्र तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः ॥ 51 ॥
लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः ।
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ॥ 52 ॥
पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ।
विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः ॥ 53 ॥
पुष्पोपहारं कुर्वन्ति कुसुमैस्स्वयमर्जितै ।
तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ॥ 54 ॥
अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ।
निगृह्य तपसा मृत्युं लोकानां हितकाम्यया ॥ 55 ॥
यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ।
धारयन् ब्राह्मणं रूपमिल्वलस्संस्कृतं वदन् ॥ 56 ॥
आमन्त्रयति विप्रान्स्मश्राद्धमुद्दिश्य निर्घृणः ।
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् ॥ 57 ॥
तान् द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा ।
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् ॥ 58 ॥
वातापे निष्क्रमन्वेति स्वरेण महता वदन् ।
ततो भ्रातुर्वचश्श्रुत्वा वातापिर्मेषवन्नदन् ॥ 59 ॥
भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ।
ब्राह्माणानां सहस्राणि तैरेवं कामरूपिभिः ॥ 60 ॥
विनाशितानि संहत्य नित्यशः पिशिताशनैः ।
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ॥ 61 ॥
अनुभूय किल श्राद्धे भक्षितस्समहासुरः ।
ततस्सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः ॥ 62 ॥
भ्रातरं निष्क्रमस्वेति चेल्वलस्सोऽभ्यभाषत ।
स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् ॥ 63 ॥
अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः ।
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः ॥ 64 ॥
भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ।
अथ तस्य वचश्श्रुत्वा भ्रातुर्निधनसंश्रयम् ॥ 65 ॥
प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ।
सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा ॥ 66 ॥
चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ।
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ॥ 67 ॥
विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ।
एवं कथयमानस्य तस्य सौमित्रिणा सह ।
रामस्यास्तं गतस्सूर्यस्सन्ध्याकालोऽभ्यवर्ततः ॥ 68 ॥
उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि ।
प्रविवेशाऽश्रमपदं तमृषिं सोऽभ्यवादयत् ॥ 69 ॥
सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः ।
न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ॥ 70 ॥
तस्यां रात्य्रां व्यतीतायां विमले सूर्यमण्डले ।
भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः ॥ 71 ॥
अभिवादये त्वां भगवन् सुखमध्युषितो निशाम् ।
आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥ 72 ॥
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ।
यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ 73 ॥
नीवारान्पनसांस्तालांस्तिमिशान्वञ्चुलान्धवान् ।
चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान् ॥ 74 ॥
पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ।
ददर्श रामश्शतशस्तत्र कान्तारपादपान् ॥ 75 ॥
हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ।
मत्तैश्शकुनिसङ्घैश्च शतशश्च प्रणादितान् ॥ 76 ॥
ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ।
पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ 77 ॥
स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ।
आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥ 78 ॥
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ।
आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ॥ 79 ॥
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ।
प्रशान्तमृगयूथश्च नानाशकुनिनादितः ॥ 80 ॥
तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ।
दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते ॥ 81 ॥
यदा प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ।
तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः ॥ 82 ॥
नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा ।
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ 83 ॥
मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः ।
निदेशं पालयन्यस्य विन्ध्यशैला न वर्धते ॥ 84 ॥
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ।
अगस्त्यस्याश्रम श्रीमान्विनीतजनसेवितः ॥ 85 ॥
एष लोकार्चितस्साधुर्हिते नित्यरतस्सताम् ।
अस्मानभिगतानेष श्रेयसा योजयिष्यति ॥ 86 ॥
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ।
शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ 87 ॥
अत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः ।
अगस्त्यं नियताहारं सततं पर्युपासते ॥ 88 ॥
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ।
नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ॥ 89 ॥
अत्र देवाश्च यक्षाश्च नागाश्च पतगैस्सह ।
वसन्ति नियताहारा धर्ममाराधयिष्णवः ॥ 90 ॥
अत्र सिद्धा महात्मानो विमानैजस्सूर्यसन्निभैः ।
त्यक्तदेहा नवैर्देहैः स्वर्याताः परमर्षयः ॥ 91 ॥
यक्षत्वममरत्वं च राज्यानि विविधानि च ।
अत्र देवाः प्रयच्छन्ति भूतैराराधिताश्शुभैः ॥ 92 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकादशस्सर्गः ॥