श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ अष्टपञ्चाशस्सर्गः ।
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ 1 ॥
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।
जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् ॥ 2 ॥
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।
तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ 3 ॥
तत्त्वतस्सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ।
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ 4 ॥
यश्चार्थस्तत्त्र वक्तव्यो गतैरस्माभिरात्मवान् ।
रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ॥ 5 ॥
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः ।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ 6 ॥
प्रत्यक्षमेव भवतां महेन्द्राग्रात्खामाप्लुतः ।
उदधेर्दक्षिणं पारं काङ्क्षमाण स्समाहितः ॥ 7 ॥
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ 8 ॥
स्थितं पन्धानमावृत्य मेने विघ्नं च तं नगम् ।
उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ॥ 9 ॥
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ।
प्रहतं च मया तस्य लाङ्गूलेन महागिरेः ॥ 10 ॥
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ॥ 11 ॥
पुत्त्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥ 12 ॥
मैनाकमिति विख्यातं निवसन्तं महोदधौ ।
पक्षवन्तः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः ॥ 13 ॥
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ॥ 14 ॥
चिच्छेद भगवान् पक्षान्वज्रेणैषां सहस्रशः ।
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ॥ 15 ॥
मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे ।
रामस्य च मया साह्ये वर्तितव्यमरिन्दम ॥ 16 ॥
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ॥ 17 ॥
कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।
तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥ 18 ॥
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।
शरीरेण महाशैलः शैलेन च महोदधौ ॥ 19 ॥
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।
ततोऽहं सुचिरं कालं वेगेनाभ्यागमं पथि ॥ 20 ॥
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।
समुद्रमध्ये सा देवी वचनं मामभाषत ॥ 21 ॥
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ 22 ॥
एवमुक्त स्सुरसया प्राञ्जलिः प्रणतः स्थितः ।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ 23 ॥
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ 24 ॥
तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्या स्सङ्काशं दूतोऽहं गमिष्ये रामशासनात् ॥ 25 ॥
कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ 26 ॥
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ।
एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥ 27 ॥
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।
एवमुक्तस्सुरसया दशयोजनमायतः ॥ 28 ॥
ततोर्थगुणविस्तारो बभूवाहं क्षणेन तु ।
मत्प्रमाणानुरूपं च व्यादितं च मुखं तया ॥ 29 ॥
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।
तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ॥ 30 ॥
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।
अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः ॥ 31 ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ॥ 32 ॥
सुखी भव महाबाहो प्रीताऽस्मि तव वानर ।
ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः ॥ 33 ॥
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ।
छाया मे निगृहीता च न च पश्यामि किञ्चन ॥ 34 ॥
सोऽहं विहतवेगस्तु दिशो दश विलोकयन् ।
न किञ्चित्तत्र पश्यामि येन मेऽपहृता गतिः ॥ 35 ॥
ततो मे बुद्धिरुत्पन्ना किन्नाम गगने मम ।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ 36 ॥
अधोभागेन मे दृष्टि श्शोचता पातिता मया ।
ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ॥ 37 ॥
प्रहस्य च महानादमुक्तोऽहं भीमया तया ।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ 38 ॥
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः ।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ 39 ॥
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।
अस्यप्रमाणादधिकं तस्याः कायमपूरयम् ॥ 40 ॥
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।
न च मां साधु बुबुधे मम वा विकृतं कृतम् ॥ 41 ॥
ततोऽहं विपुलं रूपं सङ्क्षिप्य निमिषान्तरात् ।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ 42 ॥
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।
मया पर्वतसङ्काशा निकृत्तहृदया सती ॥ 43 ॥
शृणोमि खगतानां च सिद्धानां चारणैस्सह ।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥ 44 ॥
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।
गत्वा चाह महध्वानं पश्यामि नगमण्डितम् ॥ 45 ॥
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।
अस्तं दिनकरे याते रक्षसां निलयं पुरम् ॥ 46 ॥
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ।
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ॥ 47 ॥
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ॥ 48 ॥
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।
प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः ॥ 49 ॥
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।
यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः ॥ 50 ॥
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥ 51 ॥
तत स्सीतामपश्यंस्तु रावणस्य निवेशने ।
शोकसागरमासाद्य न पारमुपलक्षये ॥ 52 ॥
शोचता च मया दृष्टं प्राकारेण समावृतम् ।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ 53 ॥
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।
अशोकवनिकामध्ये शिंशुपापादपो महान् ॥ 54 ॥
तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।
अदूरे शिंशुपावृक्षात्पश्यामि वरवर्णिनीम् ॥ 55 ॥
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।
तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम् ॥ 56 ॥
शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ॥ 57 ॥
मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ 58 ॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।
भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ 59 ॥
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथञ्चिन्मृगशाबाक्षी तूर्णमासादिता मया ॥ 60 ॥
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥ 61 ॥
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।
शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ 62 ॥
ततोऽहं परमोद्विग्नः स्वं रूपं प्रत्यसंहरम् ।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ॥ 63 ॥
ततो रावणदाराश्च रावणश्च महाबलः ।
तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता ॥ 64 ॥
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् ।
सङ्कुच्योरूस्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ 65 ॥
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।
त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ 66 ॥
तामुवाच दशग्रीवस्सीतां परमदुःखिताम् ।
अवाक्चिराः प्रपतितो बहुमन्यस्व मामिति ॥ 67 ॥
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।
द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥ 68 ॥
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ 69 ॥
राक्षसाधम रामस्य भार्याममिततेजसः ।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ॥ 70 ॥
अवाच्यं वदतो जिह्वा कथं न पतिता तव ।
किञ्चिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ॥ 71 ॥
अपहृत्याऽऽगतः पाप ते नादृष्टो महात्मना ।
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे ॥ 72 ॥
यज्ञीय स्सत्यवादी च रणश्लाघी च राघवः ।
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ॥ 73 ॥
जज्वाल सहसा कोपाच्चितास्थ इव पावकः ।
विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ॥ 74 ॥
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा ।
स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ॥ 75 ॥
वरा मन्दोदरी नाम तया स प्रतिषेधितः ।
उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥ 76 ॥
सीतया तव किं कार्यं महेन्द्रसमविक्रमः ।
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च ॥ 77 ॥
सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।
ततस्ताभिस्समेताभिर्नारीभिस्स महाबलः ॥ 78 ॥
प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ॥ 79 ॥
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैस्सुदारुणैः ।
तृणवद्भाषितं तासां गणयामास जानकी ॥ 80 ॥
गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ॥ 81 ॥
रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।
ततस्तास्सहितास्सर्वा निहताशा निरुद्यमाः ॥ 82 ॥
परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ॥ 83 ॥
विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।
तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् ॥ 84 ॥
आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ॥ 85 ॥
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।
रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ 86 ॥
अलमस्मात्परित्रातुं राघवाद्राक्षसीगणम् ।
अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ 87 ॥
यस्या ह्येवंविधस्स्वप्नो दुःखितायाः प्रदृश्यते ।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥ 88 ॥
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।
ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता ॥ 89 ॥
अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।
चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ॥ 90 ॥
सम्भाषणार्थं च मया जानक्याश्चिन्तितो विधिः ॥ 91 ॥
इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः ।
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ॥ 92 ॥
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गवः ॥ 93 ॥
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रुवं वचः ॥ 94 ॥
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ 95 ॥
तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।
भर्त्राहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ 96 ॥
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।
अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ 97 ॥
तदिच्छामि त्वयाऽऽज्ञप्तं देवि किं करवाण्यहम् ।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥ 98 ॥
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।
आहरावणमुत्साद्य राघवो मां नयत्विति ॥ 99 ॥
प्रणम्य शिरसा देवीं महमार्यामनिन्दिताम् ।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ 100 ॥
अथ मामब्रवीत्सीता गृह्यतामयमुत्तमः ।
मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ 101 ॥
इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।
प्रायच्छत्परमोद्विग्ना वाचा मां सन्दिदेशह ॥ 102 ॥
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः ।
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ 103 ॥
उक्तोऽहं पुनरेवेदं निश्चित्य मनसा तया ।
हनुमन्मम वृत्तान्तं वक्तुमर्हसि राघवे ॥ 104 ॥
यथा श्रुत्वैव न चिरात्तावुभौ रामलक्ष्मणौ ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ 105 ॥
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।
न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ॥ 106 ॥
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥ 107 ॥
ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः ।
युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ॥ 108 ॥
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।
प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ 109 ॥
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।
ता स्समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ 110 ॥
राजस्वनमिदं दुर्गं तव भग्नं दुरात्मना ।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥ 111 ॥
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।
वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् ॥ 112 ॥
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।
राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ॥ 113 ॥
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।
मया तस्मिन्वनोद्देशे परिघेण निषूदितम् ॥ 114 ॥
तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।
निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥ 115 ॥
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।
तत्रस्थान्राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ॥ 116 ॥
ललामभूतो लङ्कायास्स वै विध्वंसितो मया ।
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ॥ 117 ॥
राक्षसैर्बहुभिस्सार्धं घोररूपैर्भयानकैः ।
तं महाबलसम्पन्नं राक्षसं रणकोविदम् ॥ 118 ॥
परिघेणातिघोरेण सूदयामि सहानुगम् ।
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्त्रान्महाबलान् ॥ 119 ॥
पदातिबलसम्पन्नान् प्रेषयामास रावणः ।
परिघेणैव तान् सर्वान्नयामि यमसादनम् ॥ 120 ॥
मन्त्रिपुत्त्रान्हतान्च्छृत्वा समरेऽलघुविक्रमान् ।
पञ्च सेनाग्रगाच्छ्रूरान्प्रेषयामास रावणः ॥ 121 ॥
तानहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम् ।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ 122 ॥
बहुभी राक्षसैस्सार्धं प्रेषयामास रावणः ।
तं तु मन्दोदरीपुत्त्रं कुमारं रणपण्डितम् ॥ 123 ॥
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥ 124 ॥
तमक्षमागतं भग्नं निशम्य स दशाननः ।
तत इन्द्रजितं नाम द्वितीयं रावणस्सुतम् ॥ 125 ॥
व्यादिदेश सुसङ्कृद्धो बलिनं युद्धदुर्मदम् ।
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ॥ 126 ॥
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।
महतापि महाबाहुः प्रत्ययेन महाबलः ॥ 127 ॥
प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।
सोऽविषह्यं हि मां बुद्ध्वा स्वं बलं चावमर्दितम् ॥ 128 ॥
ब्राह्मणास्त्रेण स तु मां प्राबध्नाच्छातिवेगितः ।
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ॥ 129 ॥
रावणस्य समीपं च गृहीत्वा मामुपानयन् ।
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ॥ 130 ॥
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥ 131 ॥
अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो ।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ 132 ॥
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।
सोऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ॥ 133 ॥
सुग्रीवश्च महातेजास्सत्वां कुशलमब्रवीत् ।
धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ 134 ॥
वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।
राघवो रणविक्रान्तो मित्त्रत्वं समुपागतः ॥ 135 ॥
तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।
तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ॥ 136 ॥
मया च कथितं तस्मै वालिनश्च वधं प्रति ।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥ 137 ॥
वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।
चक्रेऽग्निसाक्षिकं सख्यं राघवस्सह लक्ष्मणः ॥ 138 ॥
तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।
वानराणां महाराजः कृतस्स प्लवतां प्रभुः ॥ 139 ॥
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥ 140 ॥
क्षिप्रमानीयतां सीता दीयतां राघवाय च ।
यावन्न हरयो वीरा विधमन्ति बलं तव ॥ 141 ॥
वानराणां प्रभावो हि न केन विदितः पुरा ।
देवतानां सङ्काशं च ये गच्छन्ति निमन्त्रिताः ॥ 142 ॥
इति वानरराजस्त्वामाहेत्यभिहितो मया ।
मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ॥ 143 ॥
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।
मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ 144 ॥
ततो विभीषणो नाम तस्य भ्राता महामतिः ।
तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥ 145 ॥
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।
राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥ 146 ॥
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।
दूतेन वेदितव्यं च यथार्थं हितवादिना ॥ 147 ॥
सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः ।
विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः ॥ 148 ॥
विभीषणेनैवमुक्तो रावणस्सन्दिदेश तान् ।
राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ॥ 149 ॥
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ।
वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ॥ 150 ॥
राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।
तदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ॥ 151 ॥
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।
ततस्ते राक्षसाश्शूरा बद्धं मामग्निसंवृतम् ॥ 152 ॥
अघोषयन्राजमार्गे नगरद्वारमागताः ।
ततोऽहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः ॥ 153 ॥
विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ॥ 154 ॥
ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ॥ 155 ॥
दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ॥ 156 ॥
लङ्कायां कश्चिदुद्धेशः सर्वा भस्मीकृता पुरी ।
दहता च मया लङ्कां दग्धा सीता न संशयः ॥ 157 ॥
रामस्य हि महत्कार्यं मयेदं वितथीकृतम् ।
इति शोकसमाविष्टश्चिन्तामहमुपागतः ॥ 158 ॥
अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।
जानकी न च दग्धेति विस्मयोदन्तभाषिणाम् ॥ 159 ॥
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।
अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ॥ 160 ॥
दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।
हृदयं च प्रहृष्टं मे वातास्सुरभिगन्धिनः ॥ 161 ॥
तैर्निमित्तैश्च दृष्टाथैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ॥ 162 ॥
पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ॥ 163 ॥
प्रतिप्लवनमारेभे युष्मद्धर्शनकाङ्क्षया ।
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ॥ 164 ॥
पन्थानमहमाक्रम्य भवतो दृष्टवानिह ।
राघवस्य प्रभावेण भवतां चैव तेजसा ॥ 165 ॥
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ।
एतत्सर्वं मया तत्र यथावदुपपादितम् ॥ 166 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे अष्टपञ्चाशस्सर्गः ॥